मधु (आहारपदार्थः)
अयम् आहारपदार्थः प्रायः जगति सर्वत्र उपलभ्यते एव । अयं सस्यजन्यः एव आहारपदार्थः परन्तु कीटकुलीयाः मधुमक्षिकाः सङ्गृह्णन्ति । आङ्ग्लभाषायाम् एतत् Honey इति वदन्ति । मधु विना आयुर्वेदस्य चिकित्सानां कल्पनाम् अपि कर्तुं न शक्नुमः तथा प्रसिद्धम् अस्ति मधु आयुर्वेदशास्त्रे । बालानां तु औषधस्य सेवनं नाम मधुना सह एव इति अर्थः । एतत् मधु पुष्पेषु भवति । मधुमक्षिकाः सङ्गृह्य नीडे रक्षन्ति । अनन्तरं मानवः नीडतः मधुमक्षिकाभिः सङ्गृहीतं मधु प्राप्नोति । पञ्चसु अमृतसदृशेषु वस्तुषु मधु अपि एकम् । अतः एव पूजावसरेषु सज्जीक्रियमाणे पञ्चामृते अपि मधु योजितं भवति । एतत् मधु मधुमक्षिकाणां गात्रानुसारं, मधुनः सङ्ग्रहणस्य सामर्थ्यस्य अनुगुणं च विभज्यते । आचार्यः चणकः मधु चतुर्विधम् इति वदति ।
- “माक्षिकं भ्रामरं क्षौद्रं पौत्तिकं मधु जातयः ।“
- तैलवर्णीयं मधु माक्षिकं मधु । एतत् मधुषु अत्यन्तं श्रेष्ठम् इति उच्यते ।
- घृतम् इव यत् भवति तत् पौत्तिकं मधु । एतत् मधु उपयोगाय योग्यं न इति वदन्ति ।
- कपिलवर्णस्य मधु क्षौत्रं मधु । एतत् मधु शीतगुणयुक्तं पचनार्थं लघु च ।
- महामधुमक्षिकाभिः सङ्गृहीतं मधु भ्रामरम् (भ्रमरसदॄशीभिः मधुमक्षिकाभिः इति अर्थः) । एतत् मधु किञ्चित् इव श्वेतवर्णीयं भवति । अस्य रुचिः मधुरः भवति । अस्मिन् मधुनि रूक्षगुणः न्यूनः भवति ।
मधुमेहादिषु रोगेषु (Sugar) माक्षिकस्य मधुनः उपयोगः एव करणीयः इति वदन्ति शास्त्राणि ।
आचार्यस्य सुश्रुतस्य अनुसारं मधु अष्ट विधं भवति ।
योगवाहिद्रव्येषु अत्यन्तं श्रेष्ठं द्रव्यम् अस्ति मधु । यतः विभिन्नानाम् औषधानां निर्माणे उपयुक्तं भवति तथा च बहून् रोगान् शमयति । योगवाहि नाम औषधानां गमनाय अथवा प्रयाणार्थं किञ्चन वाहनम् इव । यत् औषधं यत्र कार्यं कुर्यात् तत्र तस्य औषधस्य गुणं वर्धयत् औषधं यथा सम्यक् कार्यं कुर्यात् तथा करोति मधु । शीतद्रव्यैः सह शीतद्रव्यम् इव, उष्णद्रव्यैः सह उष्णद्रव्यम् इव कार्यं करोति मधु । अतः औषधानां कार्ये वेगं जनयति ।
आयुर्वेदस्य अनुसारम् अस्य मधुनः स्वभावः
सम्पादयतुयोगवाहिद्रव्येषु अत्यन्तं श्रेष्ठं मधु शरीरं शुष्कीकरोति । अस्य रुचिः कषायमिश्रितमधुरा । प्रधानरुचिः कषाया । मधु जीर्णानन्तरं कटुरूपेण परिवर्तितं भवति । किञ्चित् मधु जीर्णानन्तरम् अपि मधुररूपेण एव तिष्ठति । तादृशं मधु विश्वासार्हं न । तत्र कदाचित् शर्करायाः संयोगः जातः भवति । शुद्धं मधु तैलवर्णीयं भवति । शुद्धं मधु अग्नौ स्थाप्यते चेत् शब्दं न जनयति ।
- १. मधु उष्णीकृत्य अथवा उष्णपदार्थैः सह न उपयोक्तव्यम् ।
- २. मधु उष्णप्रकृतियुक्ताः अपि न सेवेरन् ।
- ३. उष्णकाले तन्नाम शरदृतौ, ग्रीष्मऋतौ च, मध्याह्नकाले वा मधुनः उपयोगः विषत्वेन परिवर्तते ।
- ४. उष्णगुणप्रधानैः पदार्थैः सह अपि मधु न उपयोक्तव्यम् ।
- ५. मधुना सह वृष्टिजलम् अपि विरुद्धं परिणामं जनयति ।
- ६. शरीरस्य भारं न्यूनीकर्तुम् इच्छुकाः मधु उष्णजले योजयित्वा पिबन्ति । अयम् अपि उत्तमः क्रमः न इति वदति आयुर्वेदः ।
- ७. मधु घृतेन सह वा अन्यैः स्नेहद्रव्यैः सह वा समप्रमाणेन न उपयोक्तव्यम् । प्रमाणे परिवर्तनं कृतं चेत् अमृतसदृशं भवति ।
- ८. वृष्टिकाले मधुनः उपयोगः हितकरः ।
- ९. शीतप्रकृतियुक्ताः आहारेण सह मधुनः उपयोगं कुर्युः इति वदति शास्त्रम् ।
- १०. मधुनः सेवनम् अधिकं जातं चेत् अत्यधिकं कूपजलं पातव्यम् । तदा दोषः निवारितः भवति ।
- ११. कमलपुष्पस्य मधु नेत्रे स्थाप्यते चेत् नेत्रस्य निर्मोकः न आगच्छति, दृष्टिशक्तिः वर्धते च ।
- १२. मधु शरीरे शक्तिं वर्धयति, रक्ते हिमोग्लोबिन् अंशं वर्धयति च ।
- १३. मधु जीर्णानन्तरं कटुरूपेण परिवर्तितं भवति इत्यनेन कफजन्येषु रोगेषु उत्तमम् । व्रणेषु मधुनः उपयोगः उत्तमं परिणामं जनयति ।
- १४. मुखे तदा तदा पिटकाः जायन्ते चेत् तत्र मधु लेपनीयम् ।
- १५. बालानां पीनसं कासं च मधु एव निवारयति ।
बाह्यसम्पर्काणि
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये मधु सम्बन्धिताः सञ्चिकाः सन्ति। |