मनुष्याणां सहस्रेषु...

भगवद्गीतायाः श्लोकः ७.३


श्लोकः सम्पादयतु

 
गीतोपदेशः
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥ ३ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य तृतीयः(३) श्लोकः ।

पदच्छेदः सम्पादयतु

मनुष्याणां सहस्रेषु कश्चित् यतति सिद्धये यततामपि सिद्धानां कश्चित् मां वेत्ति तत्त्वतः ॥ ३ ॥

अन्वयः सम्पादयतु

मनुष्याणां सहस्रेषु कश्चित् सिद्धये यतति । यततामपि सिद्धानां कश्चित् मां तत्त्वतः वेत्ति ।

शब्दार्थः सम्पादयतु

मनुष्याणाम् = मानवानाम्
सहस्रेषु = सहस्रेषु
कश्चित् = कोऽपि
सिद्धये = सिद्ध्यर्थम्
यतति = प्रयत्नं करोति
यतताम् अपि = प्रयत्नं कुर्वताम् अपि
सिद्धानाम् = ज्ञानिनाम्
कश्चित् = कोऽपि
माम् = माम्
तत्त्वतः = यथावत्
वेत्ति = जानाति ।

अर्थः सम्पादयतु

वस्तुतः अहं दुर्ज्ञेयः अस्मि । बहुषु मानवेषु कोऽपि सिद्ध्यर्थं प्रयत्नं करोति । तेन प्रयत्नेन च ये सिद्धिं प्राप्नुवन्ति तेषु अपि कश्चिदेव मां यथावत् ज्ञातुं शक्नोति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मनुष्याणां_सहस्रेषु...&oldid=418705" इत्यस्माद् प्रतिप्राप्तम्