मया ततमिदं सर्वं...
भगवद्गीतायाः श्लोकः ९.४
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।
- मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ ४ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य चतुर्थः(४) श्लोकः ।
पदच्छेदः
सम्पादयतुमया ततम् इदं सर्वं जगदव्यक्तमूर्तिना मत्स्थानि सर्वभूतानि न च अहं तेषु अवस्थितः ॥ ४ ॥
अन्वयः
सम्पादयतुअव्यक्तमूर्तिना च मया इदं सर्वं जगत् ततम् । सर्वभूतानि मत्स्थानि । अहं तेषु न अवस्थितः ।
शब्दार्थः
सम्पादयतु- अव्यक्तमूर्तिना च मया = अतीन्द्रियेण च मया
- इदम् = एतत्
- सर्वम् = निखिलम्
- जगत् = भुवनम्
- ततम् = व्याप्तम्
- सर्वभूतानि = स्थावराणि जमानि च भूतानि
- मत्स्थानि = मयि वर्तमानानि
- अहं तेषु = अहं तेषु भूतेषु
- न अवस्थितः = न स्थितः अस्मि ।
अर्थः
सम्पादयतुमम स्वरूपं कस्यापि इन्द्रियाणां गोचरः न भवति । तादृशः अहं सृष्ट्वा समग्रं जगदिदं व्याप्तवान् अस्मि । तस्मात् सर्वाण्यपि स्थावरजमानि भूतानि मयि अधीनानि सन्ति । अहं न तेषु अधीनोऽस्मि ।