मया प्रसन्नेन...

(मया प्रसन्नेन - 11.47 इत्यस्मात् पुनर्निर्दिष्टम्)


 
गीतोपदेशः

श्रीभगवानुवाच -

मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् ।
तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य सप्तचत्वारिंशत्तमः(४७) श्लोकः ।

पदच्छेदः

सम्पादयतु

मया प्रसन्नेन तव अर्जुनेदं रूपं परं दर्शितम् आत्मयोगात् तेजोमयं विश्वम् अनन्तम् आद्यं यत् मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥

अर्जुन ! प्रसन्नेन मया आत्मयोगात् तेजोमयं विश्वम् अनन्तम् आद्यं यत् मे त्वदन्येन न दृष्टपूर्वम् इदं परं रूपं तव दर्शितम् ।

शब्दार्थः

सम्पादयतु
अर्जुन = हे अर्जुन !
प्रसन्नेन = प्रशान्तेन
आत्मयोगात् = स्वसामर्थ्यात्
तेजोमयम् =कान्तिमयम्
विश्वम् = समस्तम्
अनन्तम् = अन्तशून्यम्
आद्यम् = प्रथमम्
यत् मे रूपम् = यत् मम रूपम्
त्वदन्येन = भवदितरेण
न दृष्टपूर्वम् = पूर्वम् अनवलोकितम्
इदम् = तादृशम् एतत्
परम् = उत्कृष्टम्
रूपम् = स्वरूपम्
तव = ते
दर्शितम् = प्रदर्शितम् ।

हे अर्जुन ! अनुग्रहबुद्धिना मया स्वसामर्थ्यात् कान्तिमयं समस्तम् अन्तशून्यं प्रथमम् एतत् उत्कृष्टं स्वरूपं ते प्रदर्शितम् । मम एतत् रूपं भवदितरेण न कदापि पूर्वं दृष्टम् ।

सम्बद्धसम्पर्कतन्तुः

सम्पादयतु

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=मया_प्रसन्नेन...&oldid=418711" इत्यस्माद् प्रतिप्राप्तम्