मय्यासक्तमनाः पार्थ...
भगवद्गीताश्लोकः ७.१
श्लोकः
सम्पादयतुश्री भगवानुवाच -
- मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।
- असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥ १ ॥
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य प्रथमः(१) श्लोकः ।
पदच्छेदः
सम्पादयतुमयि आसक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः असंशयं समग्रं मां यथा ज्ञास्यसि तत् श्रुणु ॥ १ ॥
अन्वयः
सम्पादयतुपार्थ ! मयि आसक्तमनाः योगं युञ्जन् मदाश्रयः असंशयं समग्रं मां यथा ज्ञास्यसि तत् शृणु ।
शब्दार्थः
सम्पादयतु- पार्थ = अर्जुन !
- मयि = परमेश्वरे
- आसक्तमनाः = लग्नचित्तः
- योगम् = समाधिम्
- युञ्जन् = अभ्यस्यन्
- मदाश्रयः = मामेव अवलम्बमानः
- असंशयम् = निस्सन्देहम्
- समग्रम् = निरवशेषम्
- माम् = माम्
- यथा = येन प्रकारेण
- ज्ञास्यसि = बोधिष्यसि
- (तथा) तत् = तेन प्रकारेण एतत्
- शृणु = आकर्णय ।
अर्थः
सम्पादयतुपार्थ ! मयि एव मनः निवेश्य मामेव आश्रयन् समाधिं च कुर्वन् तत्सर्वं निस्संशयं ज्ञातुम् अर्हसि यदहं कथयामि ।