प्रमुखा विकल्पसूचिः उद्घाट्यताम्

मल्लक्रीडा(Wrestling) एका प्रसिद्धा द्वंद्वक्रीडा वर्तते ।

मल्लक्रीडायाः पिक्टोग्रफि चित्रम्

अन्तर्विषयाः

ऐतिहासिकी पृष्ठभूमिःसम्पाद्यताम्

मल्लक्रीडा अतीव प्राचीना क्रीडा विद्यते । इदं कथनमतीव कठिनं वर्तते यत् केनेयं प्रवर्तिता ? कदा कथं वाऽस्या आरम्भः समभूदिति । भारतीये प्राचीने वाङ्मये अस्याः वर्णनं बहुत्रोपलभ्यते । इयं पूर्वं मल्लविद्याभिधानेन ततः परं च कलारूपेण विकसिता । परस्परं द्वयोः पुरुषयोः सङ्घर्ष एवास्या उत्पत्तेर्निदानम् । अत एवेदं कथनं नातिशयोक्तिर्भवति यद यावती प्राचीना भारतीया सभ्यता वर्तते तावत्येव मल्ल-क्रीडा अपीति । प्राचीनेषु ध्वंसावशेषेषु मल्लकलायाः सुबहूनि प्रमाणानि सन्ति । भुवः खननान्न केवलं भारत एवापि तु समस्तेऽपि जगति नानाविधा अवशेषाः प्राप्यन्ते प्राप्ताश्च । १९३८ तमे वर्षे ‘कयाफजी (बगदाद) नाम्नि स्थाने खननावसरे केचन पाषाणखण्डा ईदृशा उपलब्धा येषु ५००० वर्षेभ्यः पूवतना मल्ल क्रीडा-सम्बद्धा आलेखा अङ्कनानि चाङ्कितान्यासन् । तदनुसारं सर्वत्र मल्लविद्यायाः प्रचारोऽभूत् । ईरान्-रोम-प्रभृतिषु जगतोऽन्यान्येषु भागेषु ‘मल्ल युद्ध-मल्ल-कला-मल्ल-विद्या-मल्ल-क्रीडा’ नामभिः प्रसृतेयं कलाऽवैज्ञानिकाद् वैज्ञानिकं स्वरुपं धृत्वा नियमैरपनियमैश्च परिष्कृता भेदैः प्रभ्दैश्च परिवर्धिता सती साम्प्रतमखिलेषु क्रीडामहोत्सवेषु सम्मानं बिभर्ति । भारतस्य प्राचीनेषु रामायण-महाभारत-भागवतादिषु मल्लकलायाभूयांस्युदाहरणानि सन्ति । हनुमद्-वाली-सुग्रीव-भीम-जरासन्ध-बलराम- कृष्ण-चाणूर-मुष्टिकादयोऽस्याः कलाया आचार्या एवावर्तन्ते येषां मल्लविद्यानैपुण्यं जनाः सादरं स्मरन्ति । ततः परं च देशस्य राजानो विदेशादायाता यवनसम्राज स्तथाऽऽङ्ग्लदेशीयाः शासका अपि सर्वदैव मल्लक्रीडां प्रति जागरूका भूत्वा यथावश्यकमस्या उन्नयनाय निरन्तरं प्रायतन्त । उत्सवेषु मेलकेषु पर्वसु च मल्लानां कलाप्रदर्शनानि विधीयन्ते स्म । सेयं परम्पराऽद्यापि वर्तत एव ।
पाश्चात्यसाहित्याधारानुसारेण मल्लक्रीडा ईलियड्-साहित्यापेक्षया पुरातनं वर्तते । फ्रान्सदेशे केचन गुहाः वर्तन्ते । तत्र विद्यमान चित्राणाम् आधारानुसारं मल्लक्रीडा १५,००० तमात् वर्षात् पूर्वतनं वर्तते । ५ तः १५ तमस्य शताब्द पर्यन्तं प्रायः फ्रान्स्-जपान्-इङ्ग्लेण्ड्-इत्यादि देशेषु मल्लक्रीडा प्रसिद्धा क्रीडा आसीत् । १८८८ तमे वर्षे अमेरिकासंयुक्तराज्यस्य न्यू यार्क्-नगरे प्रथमराष्ट्रियमल्लयुद्धक्रीडा प्रारब्धा । १९०४ तमे वर्षे प्रथमवारम् ओलम्पिक्-क्रीडोत्सवे मल्लयुद्धः प्रारब्धम् ।

उल्लेखाःसम्पाद्यताम्

इतिहासेसम्पाद्यताम्

  • महाभारते भीमस्य, जरासन्धस्य च मध्ये मल्लक्रीडायाः विवरणं लभ्यते ।
  • गिल्गमेश्-इति महाकाव्ये गिल्गमेश्-वर्यः एङ्किडु इत्यस्य विरुद्धं जयं प्राप्य स्वस्य कीर्तिं प्रचारं कृतवान् ।
  • ग्रीक्-देशस्य पुराणानुसारं जीयस् स्वस्य पितरं मल्ल्क्रीडायां पराजय्य भूमेः शासनम् आरब्धवान् ।

आधुनिककालेसम्पाद्यताम्

  • ग्रीक्-रोमन् मल्लक्रीडा तथा माडर्न्-फ्रीस्टैल् मल्लक्रीडा स्पर्धा रूपेण प्रारब्धम् ।
  • १९८६ तमे वर्षे अथेन्स्-नगरे ओलम्पिक्-क्रीडोत्सवे ग्रीको रोमन्-मल्लक्रीडा एका स्पर्धा रूपेण आरब्धम् ।
  • १९०८ तमात् वर्षादारभ्य ग्रीको रोमन्-मल्लक्रीडा प्रत्येक घर्मकालीन ओलम्पिक्-क्रीडोत्सवे निश्चितरूपेण आरब्धम् ।
  • १९०४ तमे वर्षे ओलम्पिक्-क्रीडोत्सवे फ्रीस्टैल्-मल्लक्रीडा स्पर्धा रूपेण आरब्धम् ।
  • २००४ तमे वर्षे घर्मकालीन ओलम्पिक्-क्रीडोत्सवे महिलानामपि' स्पर्धा योजिता ।

मल्लक्रीडाश्लोकःसम्पाद्यताम्

आदौ जीवान् स्थल-जल-नभः-सञ्चरिष्णून् विलोक्य
क्रीडा-वृत्तिर्मनुज-मनसि प्रापदुदबोधमुग्रा ।
पश्चाज्जाता विविधसरणौ प्रसृता सैव तस्यां
‘मल्लक्रीडा’ वपुषि विपुलां वर्धयत्याशु शक्तिम् ॥

मल्लक्रीडायाः क्रीडास्थली क्रीडाविधयश्चसम्पाद्यताम्

(क) क्रीडास्थलीसम्पाद्यताम्

भारते सर्वदैव मल्ला मृत्तिका-मयेषु मल्ल-गर्तेषु कलां प्रदर्शयन्ति स्म । एतदर्थं ‘क्रीडाकौशल्य’कारेणा श्रीहरिकृष्णशर्मणा लिखितमस्ति-

मल्लक्रीडा-खेलनार्थं कार्या मल्लसभा शुभा ।
रङ्गैर्नानाविधैरम्या रङ्गद्वारः सुशोभितः ॥५८५॥
मञ्चाश्चालङ्कृताः स्त्रग्भिः पताका चैलतोरणैः ।
स्थापनीया मल्लगर्त्तस्यासमन्तात् सुशोभनाः ॥५८६॥
चतुरस्रे मल्लगर्त्तो नृपहस्तमितः स्मृतः ।
तन्मध्ये बालुका रम्या क्षेपणीयाऽतिसूक्ष्मका ॥५८७॥

इत्थं मल्लगर्त (अखाडा)स्य चतुरस्रता प्रसिद्धा । तत्र् मृत्तिकामुत्खाय ताञ्चातीव सूक्ष्मां बालुकेव विधाय मल्लयुद्धं (दंगल) कुर्वन्ति स्म । परं साम्प्रतं तत्स्थाने तूलभरितानां स्थूलस्थूलानामास्तरणा (गद्दा) नां प्रयोगो भवति इमान्यास्तरणानि चतुरस्राणि यथा नियमं ९ मी० वर्गायाम- विस्तारवन्ति भवन्ति । मध्येऽर्धव्यासस्यैकं वृत्तं भवति यत् सीं इति कथ्यते । द्वयोः कोणयोरेकं शोणवर्णमपरं नीलवर्ण च चिह्ने भवतः । आस्तरणस्य स्थूलता १-१ मीटरतोऽधिका न सम्मता ।

(ख) क्रीडाविधयःसम्पाद्यताम्

पूर्वं मल्लाः ‘जय बजरंगबली’ अथवा ‘वाहे गुरु की फतह’ किं वा ‘या अली’ इत्यादि नादानुच्चार्य युद्धयन्ति स्म युद्धे च कस्यापि शारीरिकमङ्गमपि भग्नं भवति स्म परं सम्प्रति नियमानां प्रवर्तनेन तादृशं भयमपास्तम् अ। तस्मादेवेयं क्रीडेति निगद्यते । पुरा यो मल्लो यं मल्लं निपात्य वक्षोदर्शनं (चित) कारयति स्म् स एव विजयी मन्यते स्म । भागवते मल्लयुद्धप्रक्रियावर्णनमतीव रुचिरं विद्यते यत्र परस्परं युद्धयमानौ मल्लावेवं युद्धयतः -

हस्ताभ्यां ह्स्तयोर्बध्वा पदभ्यामेव च पादयोः ।
विचकर्षतुरन्योन्यं प्रसह्य विजीगीषया ॥
अरत्नी द्वे ह्यरत्नीभ्यां जानुभ्यां चैव जानुनी ।
शिरः शीर्षोरसोरस्तावन्योन्यमभिजध्नतुः ॥
परिरभ्रामण-विक्षेप-परिरम्भावपातनैः ।
उत्सर्पणापसर्पणैश्चान्योन्यं प्रत्यरुन्धताम् ॥
उत्थापनैरुन्नयनैश्चालनैः स्थापनैरपि ।
परस्परं जिगीषन्तावपचक्रतुरात्मनः ॥

आस्फेटनं प्रकुर्वन्तौ वारंवारमनेकधा । (इत्यादि)

एवंविधे स्पर्धने विविधान् दोषान् मत्वैव साम्प्रतं क्रीडाविधिषु केचन नियमा उपनयमाश्च तादृशा निर्धारिता येषां पालनेन कस्यापि मल्लस्याङ्गिकी क्षतिर्न भवति । याभिः प्रक्रिया (दाव) भिः कस्याप्यङ्गभङ्गस्याशङ्काऽसीत् ता अवैधा घोषिताः । शिरसः कर्तर्य्यां निबद्ध्य पीडनं वर्जितम् । कच्छ-ग्रहणं निषिद्धम । पादयोर्ग्रहणम् ‘ओलम्पिक्-फ्रीस्टाइलविधौ (ग्रीकोरोमन-यूनानीरोमन विधौ वा) नानुमतम् ।

(ग) फ्री-स्टाइल-कुस्ती (स्वतन्त्र-पद्धति-मल्लक्रीडा)सम्पाद्यताम्

इयम् ओलम्पिक- नियमावल्यनुसारं विश्चस्य सर्वेषु देशेषु मान्यतां प्राप्ताऽस्ति । भारतीयमल्लविद्याया एवेयं संशोधिता च मल्ल-पद्धतिः । अस्यां मल्लः स्वीये शरीरे तैलस्य कस्याप्यन्यस्य चिक्कणपदार्थस्य वा लेपं कर्तुं नानुमन्यते । स्वस्य प्रतिद्वन्दिनो ग्रीवायां जानु-स्थापनमपि निषिद्धं विद्यते । कटिप्रदेशादघोवर्तिनः शरीरस्य कस्यापि भागास्य प्रग्रहप्रयोगाश्च न विधीयन्ते ।

मल्लक्रीडायाः क्रीडाधिकारिणःसम्पाद्यताम्

मल्लक्रीडायाः प्रतियोगितासञ्चालनाय, व्यवस्थापनाय निर्णयाय च चत्वारः अधिकारिणः भवन्ति । यथा -

(१) मल्लक्रीडाऽध्यक्षः (मैट् चेर्मेन) -अस्य निर्णयोऽन्तिमो मन्यते अयं मल्लस्य स्कन्धं गृहीत्वा-स्पृष्टवा वा तं विजेतारं घोषयति । अयं न्यायाधीशस्य सञ्चालकस्य च मध्यवर्ती योजकः ।
(२) सञ्चालकः (रैफरी)-अयं क्रीडाया आरम्भं समाप्तिं च कारयति । मल्लयोः त्रुटिपूर्णप्रक्रियास्वीकरणे अवधानतां सूचयति तथा प्रत्येकं चक्रारम्भात् पूर्वं द्वयोरपि मल्लयोः निरीक्षणं करोति ।
(३) न्यायाधीशः (जड्ज्) - सञ्चालको यदि कामपि त्रुटिं करोति तदा अयं यष्टिकामुन्नमय्य तद्विषये घोषयति तथाऽङ्कपट्टिकां (स्कोर्-शीट्) मल्लक्रीडाध्यक्षाय ददाति तदा क्रीडा समाप्यते ।
(४) समयपालकः (टाइम्-कीपर्) अयं समयसमाप्तिं प्रकटयति ।

क्रीडकवर्गीकरणम्सम्पाद्यताम्

मल्लक्रीडा समानबलशालिभ्यां मल्लाभ्यां सम्पद्यते । अनया दृष्ट्या सम्प्रति निम्नलिखिताधारेण मल्लानां वर्गीकरणं विधीयते । अस्य वर्गीकरणस्या धारो मल्लानां शारीरिको भारो विद्यते । एतदर्थं भारव्यवस्था इत्थं विहिता अस्ति -

भारः (किलोग्रामेषु) वर्गः
४८ किलोग्रामपर्यन्तम् लाइट् फ्लाई वेट्
५२ किलोग्रामपर्यन्तम् फ्लाई वेट्
५७ किलोग्रामपर्यन्तम् बैटम् वेट्
फैदर् वेट्
६८ किलोग्रामपर्यन्तम् लाइट् वेट्
७४ किलोग्रामपर्यन्तम् वैल्टर् वेट्
८२ किलोग्रामपर्यन्तम् मिडिल् वेट्
९० किलोग्रामपर्यन्तम् लाइट् हेवी वेट्
१०० किलोग्रामपर्यन्तम् हेवी वेट्
शतादूर्ध्वम् सुपर हेवी वेट

क्रीडकवस्त्रादीनिसम्पाद्यताम्

अस्यां क्रीडायां स्पर्धिनौ रक्तवर्णस्य नीलवर्णस्य वा (वन्-पीस्) एकं कञ्चुकं धारयतो यच्छरीरेण संसक्तं भवति । कट्यां कौपीनं जाङ्घिकं च धृत्वा तत्रैकां कटि -पट्टिकां (बेल्ट) निबध्नाति । पादयोर्गुल्फ-रक्षकौ गुल्फान्तौ प्रयोक्तुं शक्येते । पार्ष्णिरहिते उपानहौ भवेताम् ।

निषेधः त्रुटयः (फाउल) चसम्पाद्यताम्

दीर्घा नखाः, अङ्गुलीयकं, वलयादि, कस्यापि धातुनिर्मितस्य वस्तुनो धारणं चात्र क्रीडायां निषिद्धम् । शरीरे तैलाभ्यङ्ग विधाय मल्लस्थल्यां प्रवेशो वर्जितः । क्रीडायां च केश-प्रग्रहः, स्कन्ध-प्रग्रहः, अङ्गुली-वलनं, घातक-प्रहारः, कस्या अपि तादृश्याः प्रक्रियाया व्यवहारो यया स्पर्धिष्णोरस्थिभङ्गस्य भयं भवेत् निषिद्धस्तथा त्रुटिरुपेण तेषां गणना विधीयते । पादे पादस्थापनं, जठरे कूर्परेण ताडनं, कण्ठ-सङ्कोचनम्, आस्तरणस्य कोण-प्रग्रहः, समुत्याय पृष्ठतः प्रग्रहणं वा त्रुटिर्मन्यते ।

क्रीडायाः समयः (डयू रेशन)सम्पाद्यताम्

मल्लक्रीडायाः समयो ९ निमेषात्मको भवति, ३-३ मिनटानां त्रीणि चक्राणी भवन्ति । प्रत्येकं चक्रपूर्त्यनन्तरमेकैकस्य मिनटस्य विश्रामो दीयते । स्मयपालकः प्रत्येकं निमेषाणाम् अनन्तरं समयस्य घोषणां विधत्ते, समयस्य समाप्तौ स एकां घण्टिकां वादयति ततः परं च क्रीडासमाप्तिं प्रकटयति । घण्टिकायाः शुषिरनादस्य समययोर्मध्यस्थे काले विहिताः सर्वेऽपि क्रिया -कलापा निरर्थका गण्यन्ते ।

क्रीडारम्भः क्रीडा चसम्पाद्यताम्

उभयोर्मल्लयोः पदयोरेकैका रक्ता नीला च वस्त्रपट्टिका (फीता) निबद्धयते । शुषिरवादने सति द्वावपि क्रीडकौ पट्टिकाया वर्णानुसारं स्वस्वरुपवर्णस्य कोणे समागच्छतः । सञ्चालकस्तयोनमिधामादिकथनेन परिचयं कारयति । शुषिरवादनेन सह तौ हस्तमेलनं विधाय पुनः स्व-स्वस्थानमागच्छतः । पुनश्च शुषिरवादने सति केन्द्रस्थे व्रुत्त समागत्य द्वावपि मल्लौ परस्परं शक्ति-परीक्षणं हस्त-ग्रहणेन कष्ठ-ग्रहणेन विविध-प्रक्रिया -(दावं) -प्रयोगेण धलना-विशेषेण च कुरुतः ।

अङ्कविधानं निर्णयश्चसम्पाद्यताम्

जयपराजययोः निर्णयोः अङ्कानाम् आधारेण भवति । अङ्कप्रदाननियमा यथा -

प्रथमोङ्कःसम्पाद्यताम्

(क) यदा एको मल्लो विरोधिनं स्थल्यां निपात्य तं नियन्त्रयति ।
(ख) अधोभागाद् ऊर्ध्वमागत्य तन्नियन्त्रणात परम् ।
(ग) उचित-प्रक्रिया-प्रयोगे सति च । एतासु अवस्थासु एव एकोङ्कः प्रदीयते ।

द्वितीयोङ्कःसम्पाद्यताम्

यदोचितां प्रक्रियां प्रयुज्य पञ्चक्षण-(सैकेण्ड) पर्यन्तं विरोधिनं भयावहस्थितौ धारयति, अथवा विरोधपूर्णाः प्रक्रियाः सम्पादयति किं वा कूर्पर-स्कन्धैः प्रक्रियां विधत्ते । तदा द्वितीयोऽङ्को दीयते ।

तृतीयोङ्कःसम्पाद्यताम्

विरोधिनं बन्धनावस्थायां पञ्चक्षणपर्यन्तं नियन्त्रयति तदा तृतीयाङ्कदानं क्रियते ।

मल्लक्रीडायाः काश्चन विशिष्टाः प्रक्रियाः निर्देशाश्चसम्पाद्यताम्

मुख्यत्वेन अस्यां क्रियायां प्रचलिता मल्लप्रक्रिया इत्थं प्रयुज्यन्ते-

ढाक-कटिमथवा भुजं प्रगृह्य् चरणं चाग्रे विधाय चरणबलेन विरोधिनोऽधः पातनयेयं प्रक्रिया विधीयते । भारतीया मल्ल अस्यां प्रक्रियायां पण्डिता भवन्ति ।
धोबी -दाव-अस्यां प्रक्रियायां यथा रजको वस्त्रस्य क्षालनविधौ वस्त्र पृष्ठे भ्रामयित्वा निपातयति तथैव मल्लो विरोधिनमाकृष्य पृष्ठभागेनोत्थाय पातयति ।
कलाजंग -विरोधिनमस्यां प्रक्रियायामाकृष्य विपरीतं शाययित्वा भुजयो र्बलेन तदवक्षोदर्शनाय मल्लेन प्रयत्यते । एवमेवान्या अपि-कुक्षिप्रक्रिया (बगली सरखी) प्रन्तश्चरणी (अन्दर की टांग) -बाह्यचरणी (बाहर की टांग) प्रभृतयो विविधाः प्रक्रियाः सन्ति ।

मल्लेन प्रक्रियाणां ज्ञानेन सह सिंहवतस्फूर्तिरप्यर्जनीया । शैथिल्यावस्थया प्रतिपक्षी तस्य प्रक्रीयां निरुद्ध्य ता निष्फलयति । प्रत्येकं प्रत्रियाया विपरीताः प्रक्रिया अपि भवन्ति तासां प्रयोगेणा रक्षणं सम्भवति । प्रयोगकाले पृष्ठेगमनं रक्षणस्य मुख्यो विधिरस्ति । प्रतिपक्षी यदाऽऽक्रमते तदा स्फूर्त्या तस्य चरणं भुजं कटिं वा पूर्णया शक्त्या ग्रहणेन तस्याः प्रक्रिया निष्फलयितुं शक्यते । त्रिचतुर्वारं सङ्कतदानात् परमपि क्रीडकोऽयोग्यो न घोष्यते परं कस्मिन्नपि विशिष्टेऽपराधे सति मल्लोऽयोग्यो निर्णीयते ।

व्यायामात् समुपार्जितं स्थिरतरं सम्प्राप्यते यद् बलं
तत्साहाय्यमवाप्य मल्लकलया क्रीडन्ति मल्लाश्चिरम् ।
अन्तर्बाह्यपदप्रयोगनिपुणाः कृत्वा क्रियां राजकीं
मल्लं क्षीणबलं विधाय च जयं नित्यं लभन्ते द्रुतम् ॥

अन्याः समानाः मल्लक्रीडाःसम्पाद्यताम्

"जुजुत्सु २-जूडो"-मल्लक्रीडायुगलम्सम्पाद्यताम्

जापान् देशस्य राष्ट्रीयक्रीडारुपेण विख्याता ‘जूडो’-नाम्नी मल्लक्रीडा संसारस्य प्रायः सर्वेष्वपि देशेषु साम्प्रतं लोकप्रियत्वं प्राप्ताऽस्ति । भारतेऽन्याभिः क्रीडाभिः सहस्याः समावेशो विद्यते । इयं क्रीडा भारतीय-मल्लविद्यावदेव विद्यते अस्यां द्विःकृत्य सीवितमर्धकञ्चुकं (जाकेट) तथा पादयामं (पाजामा) धृत्वैकस्य विचित्रस्य वेषस्य् समाकर्षणेन मल्लाः परस्परं मल्ल-प्रक्रियाः प्रयुञ्जन्ति । अस्यां प्रतिद्वन्द्विनः प्रक्षेपणेन, कियन्तं समयं यावद् बन्धने स्थापनेनाथवा मल्लेनावकाशयाचनया जयपराजययोः निर्णयः क्रियते ।

जुजुत्सू क्रीडाया आविष्कारविषये जना इत्थं वदन्ति यद- "जापान-चीनसिम्नि किञ्चन- लुच्चू-नामकं आईलैण्ड-स्थानमासीत् । तद् गृहीतुं द्वयोरपि देशयोः सङ्घर्षो भवति स्म । तत् सप्तदश्यां शताब्द्यां तत्रावर्तत । तत्र शस्त्रधारणस्य निषेधोऽभूत अतस्तत्रत्यैर्जनैः शस्त्राणि विनैव मुष्टि -चपेटादीनां माध्यमेन सम्पद्यमानाया युद्धकलाया अभ्यासो विहितः सा चाग्रे ‘कराटे-ही-हो -जुजुत्सू (युयुत्सु) प्रभृतिनामभिः प्रसिद्धिं प्राप्ता । अष्टाद्श्यां शताब्द्यां लुच्चू-स्थाने जापानस्याधिकारोऽभवत्, जापानवासिभिश्चास्य आइलैण्ड -स्थितेभ्यो जनेभ्य एवंविधा युद्धविद्याः शिक्षिताः । सन् १८६६ तमे वर्षे जुजुत्सु-क्रीडायास्तत्रानेके विद्यालया उदघाटिताः । यत्र ‘जिगरो कानो’ नामकेनै वम्प्रकारिका नैकाः कलाः शिक्षितास्तथा १८८० तमेशवीयवर्षे स ‘डा० जिगरो कानो’ महोदय एव पूर्वोक्ताभ्यः कलाभ्य एकां नवीनां नियमबद्धां कलामाविरकरोद् यस्याभिधानं "जूडो" इत्यभवत् । राजधान्यां तोक्यो-नगर्या ‘कोडोकल’ नामक एको विद्यालयोऽस्थाप्यत यत्रास्याः क्रीडाया ज्ञानप्राप्तये राष्ट्रस्याधिकांशा युवानो ‘जूडो’प्रशिक्षणं प्राप्तवन्तः । भारते प्रायो दशवर्षेभ्योऽस्याः प्रचारो वर्तते । जापानवासिनां कठोर-परिश्रमकारणाद् विश्वस्य प्रतिकोणं जूडो-क्रीडाऽतीव प्रियतां प्राप्ता विद्यते प्रति योगिताश्चाप्यस्याः सर्वत्रायोज्यन्ते । महिला अपि साम्प्रतं जूडो-विद्यायां नैपुण्यं भजन्ति ।

‘कुराश्’मल्लक्रीडासम्पाद्यताम्

उजबेक-पद्धत्या या मल्लक्रीडा भवति सा ‘कुराश’ इति कथ्यते । इयं ‘जूडो’ -पद्धत्याऽपि साम्यं धारयति । अस्यां मल्ल फलायां प्रक्षेपण-प्रग्रह-निपातनानां स्वीया विशिष्टा युक्तयः सन्ति । इयं मध्यैशियाद्वीपेऽतिप्राचीनकालात् प्रचलिता विद्यते सहैव बिखारा -खोरज्म-नखलिस्तानेषु तथा फेर्गाना-घाटिका (उजबे किस्तान) यां विशेषतो लोकप्रिया वर्तते । उजबेक-राष्ट्रियं वेषं दधानौ द्वौ क्रीडकौ पूर्वं मल्लगर्तेऽवतरतः । हस्तमेलनानन्तरं सञ्चालकस्य सङ्केतं प्राप्य परस्परं कटिपट्टिकात एकोऽपरमाकृषतः । मिथः शिरसी संस्पृशन्तौ द्वावपि मल्लौ मल्लयुद्धं प्रारभेते । सहसैवैको मल्ल एकां युक्तिं प्रयुनक्ति तथा स्वविरोधिनं भूमौ पातयति । बाहुभ्यो वर्षेभ्यः पूर्वं कुराश-क्रीडायां कतिचिज्जना एव सम्मिलिता भवन्ति स्म तथा दीर्घकालिकान्तरालानन्तरं प्रतियोगिताः प्रारभ्यन्ते स्म । साम्प्रतमस्यां क्रीडायां नियमितरुपेण प्रतियोगिता आयोज्यन्ते जनाश्च पूर्णरुपेणा सहयोगं कुर्वन्ति । पाठचक्रमेऽप्यस्याः समावेशोऽधुना तेषु देशेषु वर्तते तथा तत्र प्रशिक्षणव्यवस्थापि विहिताऽस्ति ।

रेसलिंग्-क्रीडासम्पाद्यताम्

भारतीयमल्लक्रीडातः सामान्यां भिन्नतां धारयन्तीयं क्रीडा द्वन्द्वयुद्धेन साम्यं भजति । इयं मुख्यत्वेन ग्रीको-रोमन-पद्धत्या प्रयुज्यते । चीनदेशे ‘मोंगो मियन- रेसलिंग’ रीतिरपि विद्यते । अस्यां "स्वस्य रक्षणं विधाय परस्य पराजयः कथं करणीय" इत्येतदर्थं प्रयत्यते ।

आधारःसम्पाद्यताम्

अभिनवक्रीडातरंगिणी

चित्रमुद्रिकासम्पाद्यताम्

चित्रवीथिकासम्पाद्यताम्

आधारःसम्पाद्यताम्

अभिनवक्रीडातरंगिणी

"https://sa.wikipedia.org/w/index.php?title=मल्लक्रीडा&oldid=406284" इत्यस्माद् पुनः प्राप्तिः