मल्लिकामारुतस्य दशाङ्कस्य प्रकरणस्य रचयिता कर्त्तोद्दण्डः केरलेषु पञ्चदश्यां शताब्द्यां प्रादुरभूत्। जमोरिनमानविक्रमस्य समसामयिको लेखको वैष्णव आसीत्।

मल्लिकामारुतम्  
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति
लेखकः कर्त्तोद्दण्डः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

कथावस्तु सम्पादयतु

विद्याधरचक्रवर्तिचन्द्रवर्ममन्त्रिणो विश्वावसोः कन्या मल्लिका महायोगीश्वर्या मन्दाकिन्या मारुतेन कुन्तलराजमन्त्रिणो ब्रह्मददत्तस्य पुत्रेणोदूढा । एवं तयोः प्रणवृत्तिं पदं चकार । श्रीलङ्कराजोऽपि मल्लिकामकामयत, ततश्च नायकयोः प्रणयपथे प्रत्यूहो जातः । किञ्च मारुतस्य मित्रं कलकण्ठो विष्णुरावस्य दुहितरं रमयन्तिकां मल्लिकायाः सखीमाकाङ्क्षत् । सिंहलराजेन मुक्तेभ्यो हस्तिभ्यो भयाक्रान्ते नायिके नायकाभ्यां रक्षिते । श्रीलङ्कराजस्ततो दूतेन मारुतं सन्दिदेश-मित्रं ते कलकण्ठो मृत इति । तदाकर्ण्य मरणोद्यतं मारुतं समेत्य कलकण्ठो ररक्ष। अथ रक्षोभिरपहृतां मल्लिकां रक्षितवान् मारुतस्तैरपहृतस्तान् युधि विजित्याजगाम । ततो श्रीलङ्कराजेनापहृतां तां मन्दाकिनी मारुतेनामिलत् । कलकण्ठोऽपि रमयन्तिकां गृहीत्वान्यतो जगाम इत्येवं कुसुमपुरे घटनाभिरिदं परिसमाप्यते।

औत्सुक्यं संवर्धयन्त्यो घटनाः सवैचित्यं योजिता मल्लिकामारुतं विशेषयन्ति । यथा पञ्चमेऽङ्के मल्लिकां जन्मान्तरे लिप्सुर्मारुतः स्वकण्ठधृतकृपाणं मल्लिकायाश्चीत्कारमाकर्ण्य तां व्योम्नि पतन्तीं क्रोडे चकार । तामन्विष्यन्नागतो राक्षसो मारुतं ब्रवीति - त्वामेव कोमल-कलेवरमाम्रपेषं पिष्ट्वा पिबामि मधुरं रुधिरं यथेष्टमिति । ततः स्कन्धे निधाय तमेव हरन् राक्षसस्तेन कृतशिरा दिव्यपुरुषत्वं गत इति कल्पनोत्तररामचरितस्य शम्बूकवधमनुहरति । अनेकत्र मन्दाकिनी योगविद्यया प्रकटयत्यघटितघटनाः। पाणिनीये काव्यशास्त्रे च जागरूकशेमुषीक उद्दण्डो नैव तदायामे | क्वचिदौद्दण्ड्यं भजते । अत्र सानुप्रासा काव्यसंसृतिः विभावयति संगीतलहीम्। यथा -

अमी पुनरुदञ्चिता मधुर-गुञ्जदिन्दिन्दराः

सुगन्धि-मलयानिला मदन-गर्व-नाडिन्धमाः।

अशोक - तरु - ताडन - क्वणित-कामिनी-नूपुरा

हसद्बकुल-धूलिकापटलधूसरा वासराः॥[१]

क्वचिद् रूपकैः रूपयति नीरूपं वस्तु कविः । यथा -

सा बाला मम हृदयं तस्मिन्नेव क्षणे प्रविष्टाभूत्।

लावण्यामृतधारा परिपीता नेत्रचुलुकाभ्याम्।।[२]

क्वचिच्च ‘शिव शिव’ प्रयोगो हनुमन्नाटकस्य स्मारयति । यथा -

एतानस्याः शिव शिव तनुत्यागबद्धोद्यमायाः

कल्याणाङ्ग्या करुणमधुराञ्शृण्वतो मे विलापान्।

दाक्षिण्येन द्रवति दययोल्लीयते मोहवृत्त्या

ग्लायत्यार्त्या स्फुटति हृदयं हर्षतः स्फायते च ॥[३]

यथा वा -

दूयते शिव शिव यौ सरोजताम्रौ सैरन्ध्री - करतल - दत्त - लाक्षयापि।

पादौ तौ तिमिरविसंष्ठुले स्थलेऽस्मिन् संचारं चकितदृशः कथं सहेते॥[४]

इत्यादिषु भावधारा न क्वचित् सातत्यं जहाति । प्रकारे गुणवचनस्य द्वित्वमपि जातु तनोत्येव सौभाग्यम् । यथा -

उत्तुङ्ग - स्तनभर - तान्ततान्त - मध्यं विश्लिष्यद्घन - कच - वान्तवान्त - सुनम्।

वक्त्राब्ज - भमदलि - भीतभीत . नेत्रं मुग्धाक्षी मम धुरि मन्दमन्दमेति॥[५]

एकोक्तयः प्रायेणोपनिबद्धा भावगम्भीरिमाणं मानयन्ति ।

तां दुर्लभामपि तपोभिरनल्पतप्तैर्जाने तथाप्यभिलषामि कुरङ्गनेत्राम्।

नोहार - भूधर - किरीट - विलासमालौ भागीरथीमिव जनो मलयाचलस्थः॥[६]

अत्रोपमा भौगोलिकं किमपि तत्त्वं प्रत्यक्षयति भावभूमभूमिम्। यथा वा -

यत् तिर्यग् वलितं यदश्रुललितं यच्चाञ्चले कूणितं

तत्सर्वं किमु दीर्घयोर्नयनयोर्नैसर्गिको विभ्रमः।।

आहोस्विन्मनुग्रह - व्यसनिनो मारस्य लीलायितं

धिङ् मां येन गतत्रपेण किमपि प्रत्याशया कल्प्यते॥[७]

एकोक्तयस्तावद् दीर्घा रङ्गे वैरस्यमेव जनयन्ति । तथापि ताः काव्य| रूपेण विनोदयन्ति । यथा -

उपचित - घनरागो राग - कल्पव्रतत्याः प्रसभमखिल - विघ्नध्वान्त - संघस्य वृष्ट्या ।

कमलमिव करेण प्रातरर्को नलिन्याः कुवलयनयनायाः किन्तु पाणिं ग्रहीष्ये।।

लघवो महान्तश्च भावा अहमहमिकामनुबध्नन्त आकाशसरितीव तारकाः कविवाचि निरन्तरा उद्यन्ति । नासौ तेषामेकतममपि निराशयतीति कवेश्चयन-वैधुर्यमेव प्रकाशयति । अयमेव हेतुर्यत् क्वापि नावश्यका अप्येकोक्तय आपतन्ति । यथा -

पश्याम्बिके प्रणत-कामित-कल्पवल्लि सा मल्लिका प्रियतमा यदि दुर्लभा स्यात् ।

अस्तु स्वहस्त-करवाल-विदून-कण्ठं वक्त्रं ममाद्य पदयोस्तव रक्तपद्मम्।।

उद्दण्डस्य काव्ये आनन्दनिष्यन्द इव रस्यते सुधेव स्वाद्यते हृदयतल्प इव शय्यतेऽक्षय्य इव क्वचिदनुभूयते सारस्वतो निधिः । गीतिप्रकर्षस्तावद् वियोगप्रस्तावेषु हृद्यतां वहति । यथा-

उपरि पतति चण्डे चन्द्रिका-श्वेत-वह्नौ मरुति किरति विष्वक् पुष्पधूलीकुकूलम्।

प्रविशतु मदनाग्नि-प्लुष्ट-शेषं वपुर्मे परिचलदलिघूमं पल्लवाङ्गार-तल्पम्॥[८]

यथा वा स्मृतिव्यभिचार्यङ्गतां गतस्य संभोगशृङ्गारस्य विप्रलम्भविधुरस्य समीहायाताम् -

स्मरामि तव तत् प्रिये जघनमारमन्दं गतं सखोवचनकाकुभिस्तदपि सस्मितं व्रीडितम्।

चला चलकनीनिका-तरलनोत्तरङ्गं च तद् विलास-शत-मम्बरं वलितकन्धरं चीक्षितम्।।[९]

यथा वा पुरूरवसो विलापानुकृतिर्गीतिः -

एतत् तदिन्दुपरिपन्थि महेन्द्रनीलसौन्दर्य-चौर्य-चतुरैरलकैः सनाथम्।

आकण्ठमग्नवपुषो हरिणेक्षणाया हा हन्त पश्य मुखमम्बुनि कम्पमानम्।।[१०]

अथवा विरहिणो विलापकलापे प्रकर्षं गते प्रलापवचांसि -

तन्वङ्गि दर्शय तदङ्गज-सार्वभौममाङ्गल्यदाम-मधुरं वदनेन्दुबिम्बम्।

किं नेक्षसे महति सन्तमसे पतन्तमन्धंभविष्णु-सकलेन्द्रियमात्मदासम्।।

विरहावेशे परां कोटिं मदनेन नीते स्वाभाविकतां भजते निर्लज्जता, मज्जति व्यामोहौघे विमृश्यकारिता, धृष्यते विवेकः कातरत्वेन, मालिन्यं याति शालीनता, सभ्यासभ्यसंवादं प्रतिपद्यते वाणी -

हा मज्जीवित-मल्लिके क्व नु गतं दासे मयि प्रेम तत्

त्यक्त्वा मां शरणागतार्तमदये क्व त्वं गतासि स्वयम्।

पृच्छ त्वं कलकण्ठमुद्भ्रमति मे चेतो धृतिध्वंसते

चूडायामयमञ्जलिर्मधुरया वाचा सकृत् संलप।।[११]

उद्दण्डस्य शृङ्गारिणी वृत्तिर्मन्मथोद्भेदमेदस्विनी कदाचित् परम्पराकन्थामवधूय परित्यक्तमन्थरालसगतिस्थलथलायमानसर्वाङ्गा रङ्गे ताण्डवं प्रचण्डयन्ती रसिकेभ्यो हासावतारं वितरति । यथा - “सरसिका—(विलोक्य, संस्कृतमाश्रित्य, स्वगतम्)

प्रिय - पाणि - पल्लव - तलाभिमुद्रितः सुदृशः स्तनः श्रमकणैः करम्बितः।

अनुयाति मङ्गल-कुशेशयोल्लसन्- मदनाभिषेक-मणिकुम्भ-डम्बरम्॥[१२]

ता जाव अहं लदंदरिदा होमि ।

मल्लिका - (स्वगतम्) हन्द ण वखु सक्कुणोमि हत्थकमलादो त्थणं अवहरिवं (कञ्चिदपहति) ।

मारुतः-(सविषादम्) हन्त,

सकादिव समर्प्य वाले मम हस्ते मदनधर्मतप्तस्य।

अपहरसे कुचकुम्भं तृषितकदमृतकुम्भमिव।।

आस्तां तावदुद्दण्डस्तुद्दण्ड एव यथा वा तथा वा सरति।

सम्बद्धाः लेखाः सम्पादयतु

उद्धरणानि सम्पादयतु

  1. १.२४
  2. १.१७
  3. ६.११
  4. ८.८
  5. ८.२०
  6. १.४४
  7. १.४६
  8. ८.३३
  9. ९.६
  10. ८.२
  11. ९.५
  12. ८.३२
"https://sa.wikipedia.org/w/index.php?title=मल्लिकामारुतम्&oldid=437415" इत्यस्माद् प्रतिप्राप्तम्