महर्षयः सप्त पूर्वे...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
- मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ ६ ॥
अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य षष्ठः (६) श्लोकः ।
पदच्छेदः
सम्पादयतुमहर्षयः सप्त पूर्वे चत्वारः मनवः तथा मद्भावाः मानसा जाताः येषां लोके इमाः प्रजाः ॥ ६ ॥
अन्वयः
सम्पादयतुसप्त महर्षयः तथा पूर्वे चत्वारः मनवः मद्भावाः मानसाः जाताः येषाम् इमाः प्रजाः लोके ।
शब्दार्थः
सम्पादयतु- सप्त महर्षयः = सप्त महामुनयः
- तथा = एवम्
- पूर्वे = पुरातनाः
- चत्वारः मनवः = स्वायम्भुवादयः
- मद्भावाः = मच्चिन्तनपराः
- मानसाः = मानसिकाः
- जाताः = उत्पन्नाः
- येषाम् = महामुनिप्रभृतीनाम्
- इमाः = एताः
- प्रजाः = सन्ततयः
- लोके = भुवने सन्ति ।
अर्थः
सम्पादयतुप्रसिद्धाः सप्त ऋषयः तथा पुरातनाः स्वायम्भुवादयः चत्वारः मनवः मच्चिन्तनपराः सङ्कल्पमात्रेण उत्पन्नाः । तेषामेव सन्ततयः इदानीं भूमौ वर्तन्ते ।
रामानुजभाष्यम्
सम्पादयतुसर्वस्य भूतजातस्य सृष्टिस्थित्यों प्रवर्तयितारश्च मत्संकल्पायत्तप्रवृत्तय इत्याह— पूर्वे सप्त महर्षयोऽतीतमन्वन्तरे ये भृग्वादयं सप्त महर्षयो नित्यसृष्टिप्रवर्तनाय ब्रह्मणो मनसं संभवां नित्यस्थितिप्रवर्तनाय ये च सावर्णिका नाम चत्वारो मनवं स्थिता, येषां संतानमये लोके जाता इमां सर्वां प्रजाम्, प्रतिक्षणमाप्रलयादपत्यानामुत्पादकां पालकाश्च भवन्ति, ते भृग्वादयो मनवश्च मद्भावाम्, मम यो भावं स एव येषां भावस्ते मद्भावाम्, मन्मते स्थितां मत्संकल्पानुवर्तिन इत्यर्थम् ॥१०.६॥