महादेवगोविन्द रानडे
महादेवगोविन्द रानडेवर्यः(Mahadev Govind Ranade) महाराष्ट्रराज्यस्य महान् देशभक्तः ।
महादेवगोविन्द रानडे | |
---|---|
जन्म |
१८ जनवरी १८४२ निफाडग्रामम्, नाशिकमण्डलम्, महाराष्ट्रराज्यम्, भारतम् |
मृत्युः | १६ जनवरी १९०१ |
शिक्षणस्य स्थितिः | एलफिंस्टन महाविद्यालय, Government Law College, Mumbai |
वृत्तिः | विद्वान्, स्वातन्त्र्यसङ्ग्रामी, सामाजिकक्रान्तिकारश्च |
भार्या(ः) | रमाबाई रानडे |
जन्म बाल्यञ्च
सम्पादयतुमहादेवगोविन्द रानडे १८४२ तमे वर्षे जनवरिमासस्य १८ दिनाङ्के नाशिकमण्डले निफाडे इत्येतस्मिन् ग्रामे जन्म प्राप्तवान्। माता सखूबाई रानडे । सः बाल्यावस्थायां विद्याभ्यासे बुद्धिमान् नासीत् । परन्तु, शान्तियुक्तः तथा दृढः आसीत्। मुम्बईनगरे एल्फिन्स्टन् संस्थायां माध्यमिकविद्याभ्यासं समाप्य रानडेमहोदयः, तस्यामेव संस्थायाम् अध्यापकरूपेण कार्यं कृतवान् । तस्मात् एकस्मिन्नेव संवत्सरे इन्द्रप्रकाशः इति आङ्ग्लपत्रिकायाः मराठीसाप्ताहिकपत्रिकायाः च सम्पादकः जातः । १९६८ तमे वर्षे एल्फिन्स्टन् महाविद्यालये आङ्ग्लभाषायाः इतिहासस्य च अध्यापकरूपेण चितः।
सामाजिकानि राजकीयानि च कार्याणि
सम्पादयतुअष्टादशे शतके पाश्चात्यविद्याभ्यासः, आङ्ग्लन्यायशासनपद्धतिः, क्रैस्तगुरूणां प्रभावश्च हिन्दूसमाजे आसीत् । एतेन हिन्दूसमाजे नूतनभावोद्रेकः उत्पन्नः । अयं भारतस्य धार्मिक-सामाजिक-राजकीयक्षेत्राणां परिवर्तनकालः आसीत् । अस्मिन् समये रानडेवर्यः राजकीयक्षेत्रं प्रविष्टवान् । १८७१ तमे वर्षे न्यायाधीशः अभवत् । तदा विग्रहाराधना, जातिभेदः, विधवाविवाहनिषेधः, अस्पृश्यता, सहगमनपद्धतिः, बाल्यविवाहः इत्येतेषां दोषाणां निर्मूलनार्थं परिश्रमं कृतवान् । रानडेवर्यस्य प्रथमपत्न्याः मरणानन्तरं रमाबाई नामिकां विधवां परिणीतवान् । स्वयम् आदर्शप्रायः सन् समाजस्य उन्नतौ भागं गृहीतवान् । भारतराष्ट्रियकाङ्ग्रेस् पक्षेण सह निकटसम्पर्कं स्थापितवान् । समाजस्य उन्नत्यर्थं इण्डियन् न्याशनल् सोशियल् कान्फरेन्स् इति संस्थाम् आरब्धवान् । अस्मिन्नेव समये स्थानीयन्यायशासनं यत् आरब्धं तत् रानडेमहाभागस्य श्रमस्य फलम् ।
चित्रवीथिका
सम्पादयतुआधाराः
सम्पादयतु- Brown, D. Mackenzie. "Indian Political Thought: From Ranade to Bhave". (Berkeley: University of California Press: 1961).
- Mansingh, Surjit. Historical Dictionary of India., vol. 20, Asian Historical Dictionaries. s.v. "Shivaji". London: Scarecrow Press, 1996.
- Masselos, Jim. Indian Nationalism: A History. (New Delhi: Sterling Publishers, 1985).
- Wolpert, Stanley. India. (Berkeley: University of California, 1991). 57.
- Wolpert, Stanley. Tilak and Gokhale: Revolutions and Reform in the Making of Modern India. (Berkeley: University of California, 1962). 12.