महुडी-नामकः ( /ˈməhʊd/) (गुजराती: મહુડી, आङ्ग्ल: Mahudi) लघुग्रामः बहुप्राचीनः वर्तते । “मधुमती” इति अस्य ग्रामस्य प्राचीनं नाम आसीत् []। अयं ग्रामः जैनधर्मस्य एकं विशिष्टतीर्थम् अपि अस्ति । तस्मिन् ग्रामे स्थितं भगवतः घण्टाकर्णमहावीरस्य मन्दिरम् अद्भूतं विद्यते । तस्मै मन्दिराय एव अयं ग्रामः प्रसिद्धः अस्ति । अयं ग्रामः गुजरात-राज्यस्य गान्धीनगर-मण्डलस्य माणसा-उपमण्डले स्थितः अस्ति ।

महुडी

माधुपुरी
पत्तनम्
देशः  भारतम्
राज्यम् गुजरातराज्यम्
मण्डलम् गान्धिनगरमण्डलम्
भाषाः
 • राजभाषा गुजराती, हिन्दी
Time zone UTC+5:30 (IST)
PIN
385855
Vehicle registration starting with GJ 18
लिङ्गानुपातः /
Website mahudi
जैनानां पवित्रतीर्थस्थलम्

भौगोलिकी स्थितिः

सम्पादयतु

महुडी-ग्रामः भारतदेशस्यस्य गुजरात-राज्यस्य गान्धीनगर-मण्डलस्य माणसा-उपमण्डले स्थितः वर्तते । अस्य निर्देशाङ्कः २३ º४९ उ. एवं ७२ º७८ पू. अस्ति[] । माणसा, गान्धीनगरं, देहगाम, कलोल, अजरपुरा, अमरपुरा, अम्बोड, आनन्दपुरा, वेडा, पिल्वाई, माणेकपुर, लाडोल च इत्यादयः महुडीग्रामस्य समीपस्थाः ग्रामाः सन्ति । अयं ग्रामः साबरमतीनद्याः १.५ कि. मी. दूरे स्थितः अस्ति ।

घण्टाकर्णमहावीर-मन्दिरस्य स्थापना

सम्पादयतु

विक्रमसंवत् १९७४ तमस्य वर्षस्य (ई. स. १९१७) मार्गशीर्ष-मासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ अस्य मन्दिरस्य स्थापना अभवत् । महुडी-ग्रामस्य निवासिना ’श्रीवाडीलाल कालीदास वोरा’ इत्यनेन मन्दिरस्य निर्माणाय भूदानं कृतम् आसीत् । सः आचार्यबुद्धिसागरसुरीश्वरस्य अनुयायी आसीत् । आचार्यबुद्धिसागरसुरीश्वरेण “श्री महुडी जैन मूर्तिपूजक ट्रस्ट्” इति नामिकायाः एकस्याः संस्थायाः रचना कृता । तस्याः संस्थायाः संस्थापकत्वेन “श्री वाडीलाल कालीदास वोरा” इति अपि आसीत् । तेन एव प्रथमसंस्थापकत्वेन मन्दिरनिर्माणकार्यम् प्रवर्तितम् ।

महुडी-तीर्थस्य, घण्टाकर्णमहावीरमन्दिरस्य च इतिहासः

सम्पादयतु

प्राचीने काले अयं ग्रामः मधुमती इति नाम्ना ख्यातः आसीत् । अस्मिन् ग्रामे बह्व्यः पुरातनाः मूर्तयः, कलात्मकावशेषाः च प्राप्यन्ते । तैः ज्ञायते यत् – अयं ग्रामः २००० वर्षप्राचीनः अस्ति[] । महुडी-ग्रामे ब्राह्मीलिप्याः अवशेषाः अपि प्राप्यन्ते । तेन तस्य ग्रामस्य प्राचीनता अपि ज्ञायते ।

तस्मिन् ग्रामे जैनधर्मस्य मूलनायकस्य भगवतः पद्मप्रभोः मूर्तिः अस्ति । सा श्वेतवर्णीया, ५३ से. मी. उन्नता च वर्तते । तस्यां मूर्तौ भगवान् पद्मप्रभुः पद्मासनस्थितौ उपविशन् अस्ति । विक्रम संवत् १९७४ तमे वर्षे बुद्धिसागरसुरीजी-आचार्येण नूतनमन्दिरस्य निर्माणं कारितम् []। तस्मिन् मन्दिरे बुद्धिसागरसुरीजी-आचार्येण भगवतः पद्मप्रभोः मूर्तेः पुनस्स्थापना कृता ।

विक्रम सं. १९८० तमे वर्षे पुनः बुद्धिसागरसुरीजी-आचार्येण भगवतः घण्टाकर्णमहावीरस्य एकस्याः प्राचीनायाः प्रतिमायाः स्थापना कृता []। भगवतः घण्टाकर्णमहावीरस्य मूर्तिः अद्भूता अस्ति । बहवः श्रद्धालवः, तीर्थयात्रिणश्च मनःकामनासिद्ध्यर्थं भक्तिपूर्वकं तत्र गच्छन्ति ।

प्रतिवर्षम् आश्विन-मासस्य कृष्णपक्षस्य चर्तुर्दश्यां तिथौ जैनधर्मानुसारम् भगवतः घण्टाकर्णमहावीरस्य मन्दिरे जनाः उत्सवम् आचरन्ति । तस्मिन् मन्दिरे एव जनाः वार्षिकोत्सवम् अपि आमनन्ति ।

साम्प्रतं भगवतः घण्टाकर्णमहावीरमन्दिरमतिरिच्य द्विचत्वारिंशत् देवकुलिकास इत्येतेषां मन्दिरस्य पुनर्निमाणकार्यं प्रचलत् अस्ति[]

घण्टाकर्णमहावीराय सुखडी-खाद्यम् अतीव रोचते स्म । अतः साम्प्रतमपि तत्र भक्तजनेभ्यः सुखडी-खाद्यं प्रसादरूपेण दीयते । तस्य मन्दिरस्य वैयक्तिकः भोजनालयः अस्ति । तस्मिन् भोजनालये एव सुखडी-खाद्यं निर्मीयते । किन्तु कोऽपि जनः सुखडी-खाद्यं मन्दिरात् बहिः नेतुं न शक्नोति इति भगवतः घण्टाकर्णमहावीरस्य मूर्तेः चमत्कारः[] । मन्दिरे एव भुक्त्वा ततः निष्क्रमणं शक्यते । यदि कोऽपि जनः अस्य नियमस्य पालनं न करोति, तर्हि तया काऽपि दुर्घटना भवितुं शक्यते । सर्वेषां भक्तानां मनःकामनायाः अपि सिद्धिर्भवति ।

भगवान् घण्टाकर्णमहावीरः

सम्पादयतु

भगवान् घण्टाकर्णमहावीरः जैनधर्मस्य प्रतिष्ठितः देवः वर्तते । जनानां रक्षकत्वेन पालकत्वेन च सः मन्यते । पूर्वजन्मनि तस्य जन्म क्षत्रियराजवंशे अभवत् ।तुङ्गभद्रः महाबलः वा तस्य नाम आसीत्[] । श्रीनगरस्य सः राजा बभूव । तस्मिन् शासनकाले तेन हिमालयस्य राजवंशीयेन राज्ञा रूपेण सर्वेषां जनानां रक्षा कृता आसीत् । यदा कदापि जनाः कयाचित् समस्यया पीडिताः भवन्ति स्म, तदा सः तेषां जनानां समस्यानां निवारणं, रक्षणं च करोति स्म ।

सः सदैव दुष्टजनैः धार्मिकजनान्, ज्ञातीः, अविवाहिताः बालिकाः च रक्षति स्म । निर्दोषजनानां रक्षणार्थं तेन धनुषः, चापानां, गदायाः चेत्यादीनां शस्त्राणां प्रयोगः कृतः[] । श्रीनगरे श्रीपर्वतः आसीत् । दूरात् अपि श्रद्धालवः तत्र यात्रायै गच्छन्ति स्म । तदा सः तेषां यात्रिणां रक्षां करोति स्म । अनेन कारणेन जनाः तस्मै महायोद्धा इति उपाधिं दत्तवन्तः । यः योद्धा भयहीनः, सः महावीरः इति । तस्मै सुखडी-इति खाद्यविशेषः बहु रोचते । गुडगोधूमघृतानां सम्मिश्रणेन सुखडी-इति नामकस्य खाद्यस्य निर्माणं भवति ।

इतिहासानुसारं ज्ञायते यत् “एकदा केचित् दुष्टजनाः निर्दोषजनान् (innocent people) पीडयन्तः आसन्, तदा घण्टाकर्णः महावीरः तान् पीडितान् जनान् रक्षितुं तैः दुष्टजनैः सह युद्धम् अकरोत् । तस्मिन् युद्धे घण्टाकर्णमहावीरस्य मृत्युरभवत्” [१०]

तस्य पुनर्जन्म अभवत् । तदा तस्य नाम घण्टाकर्णः आसीत् । द्विपञ्चाशतेषु वीरेषु सः अन्यतमः अस्ति । द्विपञ्चाशतेषु त्रिंशत्तमे क्रमाङ्के घण्टाकर्णमहावीरस्य स्थानं वर्तते [११]

घण्टाकर्णमहावीराय घण्टस्य ध्वनिः रोचते [१२]। घण्टस्य आकारः कर्णौ इव भवति, तेन तस्य नाम घण्टाकर्णः इति अभवत् । इत्थं सः घण्टाकर्णः महावीरः इति नाम्ना ख्यातः अभवत् ।

महुडी-ग्रामस्य समीपस्थानि मन्दिराणि

सम्पादयतु

कोत्यार्क-मन्दिरम्

सम्पादयतु

महुडी-ग्रामस्य समीपं कोत्यार्कमन्दिरम् अस्ति । इदं मन्दिरं महुडी-ग्रामत् ७०० मी. दूरं स्थितमस्ति[१३] । तस्मिन् मन्दिरे कलात्मकमूर्तिकलानां स्थापत्यं प्राचीनतमं वर्तते । तस्मिन् मन्दिरे भगवतः शान्तिनाथस्य मूर्तिः प्रतिष्ठिता अस्ति । सा मूर्तिः १३० से. मी. उन्नता अस्ति । पञ्चधातूभिः निर्मिता इयं मूर्तिः । तस्यां मूर्तौ भगवान् शान्तिनाथः पद्मासनावस्थायाम् उपविशन् अस्ति । मूर्तौ भगवतः नेत्रे रेडियम्-पदार्थेन निर्मिते स्तः[१४] । इयं मूर्तिः अत्यद्भूता अस्ति । इयं मूर्तिः केशरियाजी इति नाम्ना अपि ज्ञायते । अस्य मन्दिरस्य समीपम् एकस्मिन् पर्वते भगवतः अजितनाथस्य अपि एकं मन्दिरं स्थितमस्ति । १६० से. मी. उन्नता भगवतः अजितनाथस्य इयं मूर्तिः । कायोत्सर्गमुद्रायां भगवान् अजितनाथः उपविशन् अस्ति । इयं मूर्तिः श्वेतवर्णीया वर्तते । अनेन प्रकारेण बुद्धिसागरसुरीश्वरजी इत्यनेन भगवतः पूजा् अकारि[१५]

आग्लोद-तीर्थम्

सम्पादयतु

आग्लोद-तीर्थं महुडी-ग्रामात् २९ कि. मी. दूरं स्थितमस्ति । तत्र भगवतः मूलनायकस्य वासुपूज्यस्वामिनः मन्दिरम् अस्ति । भगवतः मूर्तिः १५१ से. मी. उन्नता वर्तते [१६] । इयं श्वेतवर्णीया मूर्तिः अस्ति । अस्यां मूर्तौ भगवान् पद्मासनावस्थायाम् उपविशन् अस्ति । विक्रम सं. २०४१ तमे वर्षे आचार्यविजयभुवनसुरीश्वरजी इत्यनेन अस्य मन्दिरस्य निर्माणं कारितम् आसीत् । इदं मन्दिरं १३० फीट् उन्नतं, ८२ फीट् विस्तृतं च वर्तते[१७]

भगवतः आदीश्वरस्य मूर्तिः प्रमुखमन्दिरस्य गुप्तप्रकोष्ठे स्थापिता अस्ति । अपरं च गौतमस्वामिनः, पद्मावतीदेव्याः च मूर्तिः अन्यमन्दिरे स्थापिता अस्ति ।

श्रीघण्टाकर्ण-महावीर-आस्था-मण्डलम्

सम्पादयतु

महुडी-ग्रामे यात्रिणां, भक्तानां च सुलभतायै “श्रीघण्टाकर्ण-महावीर-आस्था-मण्डल” इति नामकम् एकं स्थलम् अस्ति [१८] । तत्र अतिथिभवनम् अपि विद्यते । महुडी-ग्रामस्य समीपम् अन्यानि चत्वारि जैनतीर्थानि अपि सन्ति । तेषां तीर्थाणां दर्शनार्थं भक्तजनाः तत्र गच्छन्ति । भक्तजनेभ्यः विश्रामार्थं सौकर्यम् अपि अस्ति ।

मार्गाः

सम्पादयतु

वायुमार्गः

सम्पादयतु

महुडी-ग्रामस्य समीपस्थं विमानस्थानकम् अहमदाबार-महानगरे स्थितम् अस्ति । महुडी-ग्रामात् अहमदाबाद-महानगरं ६८ कि. मी. दूरं स्थितम् अस्ति ।

धूमशकटमार्गः

सम्पादयतु

गान्धीनगरम्, अहमदाबाद-महानगरं च महुडी-ग्रामस्य समीपस्थं रेलस्थानकं वर्तते ।

भूमार्गः

सम्पादयतु

अहमदाबाद-महानगरं भूमार्गेण महुडी-ग्रामेण सह संयोजितम् अस्ति । महुडी-ग्रामस्य समीपस्थं बसस्थानकं गान्धीनगरे स्थितम् अस्ति । ततः सरलतया महुडी-ग्रामं प्राप्तुं शक्यते ।

सम्बद्धाः लेखाः

सम्पादयतु

बाह्यसम्पर्कतन्तुः

सम्पादयतु

सन्दर्भः

सम्पादयतु
  1. "Ghantakarna Mahavira". www.jinalaya.com. आह्रियत 25 December 2014. 
  2. "Mahudi Temple latitude and longitude". www.distancesfrom.com/. आह्रियत 26 December 2014. 
  3. "shri mahudi tirth-jain temples in gujarat". www.jinalaya.com. आह्रियत 25 December 2014. 
  4. "shri mahudi tirth-jain temples in gujarat". www.jinalaya.com. आह्रियत 26 December 2014. 
  5. "shri mahudi tirth-jain temples in gujarat". www.jinalaya.com. आह्रियत 26 December 2014. 
  6. "shri mahudi tirth-jain temples in gujarat". www.jinalaya.com. आह्रियत 26 December 2014. 
  7. "shri mahudi tirth-jain temples in gujarat". www.jinalaya.com. आह्रियत 26 December 2014. 
  8. "Ghantakarna Mahavira". www.indianetzone.com. आह्रियत 25 December 2014. 
  9. "Ghantakarna Mahavira". www.indianetzone.com. आह्रियत 25 December 2014. 
  10. "Ghantakarna Mahavira". www.indianetzone.com. आह्रियत 25 December 2014. 
  11. "Ghantakarna Mahavira". www.indianetzone.com. आह्रियत 25 December 2014. 
  12. "Ghantakarna Mahavira". www.indianetzone.com. आह्रियत 25 December 2014. 
  13. "shri mahudi tirth-jain temples in gujarat". www.jinalaya.com. आह्रियत 26 December 2014. 
  14. "shri mahudi tirth-jain temples in gujarat". www.jinalaya.com. आह्रियत 26 December 2014. 
  15. "shri mahudi tirth-jain temples in gujarat". www.jinalaya.com. आह्रियत 26 December 2014. 
  16. Temples "shri aglod tirth-jain temples in gujarat". www.jinalaya.com. आह्रियत 26 December 2014. 
  17. Temples "shri aglod tirth-jain temples in gujarat". www.jinalaya.com. आह्रियत 26 December 2014. 
  18. "Mahudi, Ghantakarna Mahavir, Astha Mandal, Atithi bhavan". www.mahudi.org. Archived from the original on 25 December 2014. आह्रियत 26 December 2014. 
"https://sa.wikipedia.org/w/index.php?title=महुडी&oldid=484590" इत्यस्माद् प्रतिप्राप्तम्