मुम्बई-उपनगर-मण्डलम्
मुम्बई-उपनगर-मण्डलं (मराठी: मुम्बई उपनगर जिल्हा, आङ्ग्ल: Mumbai Suburban District) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति बान्द्रा (पूर्व) इत्येतन्नगरम् । १ ओक्टोबर् १९९० दिनाङ्के अस्य परिसरस्य मण्डलत्वेन स्थापना कृता ।
मुम्बई-उपनगर-मण्डलम् Mumbai suburban District मुम्बई उपनगर जिल्हा | |
---|---|
मण्डलम् | |
महाराष्ट्रराज्ये मुम्बई-उपनगर-मण्डलम् | |
देशः | India |
जिल्हा | मुम्बई-उपनगर-मण्डलम् |
विस्तारः | ३६९ च.कि.मी. |
जनसङ्ख्या(२०११) | २८,८७,८२६ |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
Website | http://mumbaisuburban.gov.in |
भौगोलिकम्
सम्पादयतुमुम्बई-उपनगर-मण्डलस्य विस्तारः ३६९ च.कि.मी. मितः अस्ति । इदं मण्डलं महाराष्ट्रराज्यस्य पश्चिमभागे अस्ति । अस्य मण्डलस्य पूर्वदिशि मुम्बईमण्डलं, पश्चिम-दक्षिणदिशोः अरबी सागरः अस्ति । उत्तरदिशि ठाणेमण्डलम् अस्ति । अस्मिन्मण्डले प्रवहन्ती प्रमुखनदी मिठी ।
जनसङ्ख्या
सम्पादयतुमुम्बई-उपनगर-मण्डलस्य जनसङ्ख्या(२०११) ९३,५६,९६२ अस्ति । अत्र ५०,३१,३२३ पुरुषाः, ४३,२५,६३९ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. २०,९८० जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २०,९८० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ८.२१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८६० अस्ति । अत्र साक्षरता ८९.९१% अस्ति ।
ऐतिहासिकं किञ्चित्
सम्पादयतुपुरा मुम्बईपरिसरः सप्तद्वीपानां समूहः आसीत् । परिसरोऽयं १७ शतके पुर्तगाल-शासकानाम् आधिपत्ये आसीत् । एतैः शासकैः अयं मुम्बईपरिसरः विवाहे उपहाररूपेण राजा-द्वितीय-चार्ल्स इत्यस्मै दत्तः । ततः आङ्ग्लाधिपत्यं स्थापितम् अत्र । आङ्ग्लप्रशासने जेराल्ड आञ्जिअर (द्वितीय गव्हर्नर) इत्यनेन द्वीपानां योजनेन एकसन्धपरिसरः निर्मापितः । तत्र वस्त्रोद्यमाः, रेलमार्गाः, रेलस्थानकानि, नौकास्थानकानि च निर्मापितानि । १८ शतकेऽपि परिसरोऽयं ख्यातकीर्तः आसीत् ।
उपमण्डलानि
सम्पादयतु- अन्धेरी
- बोरीवली
- कुर्ला
लोकजीवनम्
सम्पादयतुमण्डलेऽस्मिन् आङ्ग्लप्रशासनकालात् प्रगतिः जाता इति दृश्यते । नगरे पाश्चिमात्यसंस्कृत्याः बहुप्रभावः दृश्यते ।
वीक्षणीयस्थलानि
सम्पादयतु- 'माउण्ट मेरी' क्रिस्तप्रार्थनास्थलम्
- कन्हेरी लयनानि
- जोगेश्वरी लयनानि
- 'फेण्टसी लेण्ड'
- 'एस्सेल् वल्ड', 'वाटर किङ्गडम्'
- सञ्जय गान्धी राष्ट्रियोद्यानम्
- आरे कोलनी
- 'फिल्म सिटी'
- 'सान्ताक्रुझ' विमानपत्तम्
- सहारा अन्ताराष्ट्रिय विमानपत्तनम्
- तुलसी-तडागः
- विहार-तडागः
- पवई-तडागः
- मिठी-नदी
- दहिसर नदी
- भारतीय-प्रौद्योगिकी-संस्थानम्(IIT), पवई
- भाभा-अणुसंशोधन-केन्द्रम्
- Hindustan & Bharat Petroleum Refineries