मेदिनीपर्वतः

(मेदिनिपर्वतः इत्यस्मात् पुनर्निर्दिष्टम्)


मेदिनीपर्वतः (Medini Hill) कर्णाटकराज्यस्य उत्तरकन्नडमण्डलस्य कुमटा-उपमण्डले अस्ति । कुमटातः दोड्डमनेघट्टमार्गद्वारा सिद्धापुरगमनमार्गे ८ कि.मी दूरे चन्दावर इति ग्रामः इतः हुलिदेवरकोड्ळिगे इति ग्रामः ६ कि.मी दूरे अस्ति । ततः २ कि.मी. पादचलनेन मेदिनीति ग्रामः प्राप्यते । मेदिनीपर्वतस्य सानुप्रदेशः एव अयं ग्रामः । अयं ग्रामः कुग्रामः इत्येव प्रसिद्धम् । मेदिनीग्रामस्य नाम सार्थकम् अस्ति । मानवानां कल्पनायां देवतानां वासार्थं प्रशस्तं सुन्दरः भूप्रदेशः । अत्र कृषिकर्मणा उत्पादिताः सुगन्धभरिताः सूक्ष्मतण्डुलाः विश्वप्रसिद्धाः । सुगन्धशलिक्षेत्राणां मध्ये सञ्चरद्भिः अग्रे पर्वतारोहणं कर्तव्यं भवति । अयं पर्वतः सह्याद्रिशृङ्खलायाम् एव अन्तर्गच्छति । सम्पूर्णः पर्वतः निबिडारण्येन आवृतः अस्ति । अतः पर्वतारोहणमार्गः दुर्गमः भवति । पर्वतमस्तके ऐतिहासिकस्थानं पुण्यमन्दिरं वा नास्ति । पर्वतमस्तके विशालः शाद्वलः, समप्रदेशः, लघु लघु शिखराणि च सन्ति । सस्यजातिवैविध्यं पशुपक्षिकुलविविधतां च ज्ञातुं शुद्धजलवायुपरिसरस्य अनुभवः च प्राप्तुम् अत्र शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=मेदिनीपर्वतः&oldid=388984" इत्यस्माद् प्रतिप्राप्तम्