उत्तरकन्नडं (Uttarakannada District) कर्णाटकराज्यस्य सागरतीरमण्डलेषु अन्यतमम् अस्ति । कारवारनगरम् अस्य मण्डलस्य केन्द्रम् अस्ति । एतन्मण्डलं हावेरी-बेळ्गावी-धारवाड-शिवमोग्गा-उडुपी- प्रदेशानां सीमाभिः अवृत्तम् अस्ति । पश्चिमे सुन्दरः सिन्धुसागरः (अरब्बी) अस्ति । अस्य मण्डलस्य बहुभागः निबिडारण्येन अवृतः अस्ति । अतः प्रकृतिरम्यम् इदं मण्डलम् । अत्र नैके मनोहराः जलपाताः सन्ति । कर्णाटकस्य विशिष्टा शास्त्रीयकला यक्षगानम् अस्ति । यक्षगानक्षेत्रे अस्य मण्डलस्य योगदानम् अधिकम् अस्ति । इतिहासप्रसिद्धा दाण्डीयात्रा इति ख्याता गान्धीमहोदयेन अरब्धः लवणसत्याग्रहः अस्मिन् मण्डले एव अभवत् ।

उत्तरकन्नडमण्डलम्
बृहत्मण्डलम्
मुरुडेश्वरे विद्यमाना शिवप्रतिमा
मुरुडेश्वरे विद्यमाना शिवप्रतिमा
राष्ट्रम् भारतम्
राज्यम् कर्णाटकराज्यम्
केन्द्रम् कारवारः
उपमण्डलानि कारवारः, अङ्कोला, कुम्टा, होन्नावरः, भट्कळः, सिर्सी, सिद्दापुरः, येल्लापुरः, मुन्दगोडु , हलियाळः, जौडा
Area
 • Total १०,२९१ km
Population
 (2011)
 • Total १,४३६,८४७
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (Indian Standard Time)
Postal Index Number
581xxx
Telephone code +91 0(838x)
Vehicle registration

कारवार, भट्कळ - KA 30

  • सिरसिi - KA 31
  • होन्नावर, भट्कल, कुमटा - KA 47
लिङ्गानुपातः 0.975 (पु/स्त्री) [] /
साक्षरता 84.03%
Website uttarakannada.nic.in

विस्तीर्णता

सम्पादयतु

१०२९१ च.कि.मी. मिता ।

उपमण्डलानि-११

सम्पादयतु

अत्र अङ्कोला, भट्कळ, हळियाळ, होन्नावर, जोयिडा, कारवार, कुमटा, मुण्डगोडु, सिद्धापुर, शिरसि, यल्लापुर इति ११ उपमण्डलानि भवन्ति ।

काळी, गङ्गावळी, शरावती, दोणेहळ्ळ

जलपाताः

सम्पादयतु

उत्तरकन्नडमण्डलं जलपातानां मण्डलम् इति च कथयन्ति । यतः अत्र मागोडुजलपातः उञ्चळ्ळीजलपातः, सातोड्डीजलपातः इत्यादयः जलपाताः सन्ति । पर्वतप्रदेशः सागरतीरः एवम् अत्र प्राकृतिकदृश्यानि वैभवपूर्णानि सन्ति ।

क्षेत्राणि

सम्पादयतु

मञ्जुगुणि, उळवि , बनवासी, शिरसि, हाडुवळ्ळि, कूर्मगड, नरसिंहगडम् इडुगुञ्जी, मुरुडेश्वरम्, गोकर्णं, रामतीर्थं, करिकानुबेट्ट, सोन्दा, सहस्रलिङ्गं, धारेश्वरं गुणवन्ते, याणम्

गुणवन्ते

सम्पादयतु

पश्चिमसागरतीरे स्थितेषु पञ्चचमहाक्षेत्रेषु इदमपि एकम् । अत्रैव रावणः वटुरुपि गणेशस्य हस्ते आत्मलिङ्गं ग्रहीतुं दत्तवान् । गणेशः लिङगं भूमौ स्थापितवान् । रावणः लिङ्गमुन्मूलयितुं प्रलयं कृतवान् । तदा एकः भागः अत्र पतितः इति पुराणाधारः अस्ति । अत्र गुणवन्तेश्वरदेवालयः (१५ शतकीयः) अस्ति । मार्गः -होन्नावरतः १० कि.मी. गोकर्णतः ६० कि.मी।

इडुगुञ्जी

सम्पादयतु

भरतखण्डे स्थितेषु अष्टसिद्धिप्रदक्षेत्रेषु इदमेकम् अस्ति । हव्यकब्राह्मणजनानां यात्रास्थलम् । अत्र महागणपतेः पञ्चमशतके प्रतिष्ठापितः विग्रहः अस्ति । कदम्बशैल्या कणशिलया निर्मितः गोकर्णगणपतिसदृशः अस्ति। जानपदकलासु इडुगुञ्जीया यक्षगानमण्डली प्रसिद्धा अस्ति । मार्गः - होन्नावरतः १२ कि.मी।

गोकर्णम्

सम्पादयतु

अरब्बीसमुद्रस्य तीरस्थितं एतत् क्षेत्रं काशीरामेश्वरम् इव प्रसिद्धं शिवक्षेत्रम् । पूर्वं त्रेतायुगे रावणेन आनीतम् आत्मलिङ्गं वटुरुपिगणपतिः अत्र स्थापितवान् । महाबलेन रावणेनानीतस्य लिङ्गस्य महाबलेश्वरम् इति नाम।

 
महाबलेश्वरमन्दिरम्

शिलादेवालयः द्राविडशैल्या निर्मितः अस्ति । महाबलेश्वरस्य वामपार्श्वे महागणपतिमन्दिरम् अस्ति । लघुहस्तपादविशिष्टः महोदरः त्रिपादपरिमितोन्नतः गणपतिः आदिपूज्यः सर्वजनानां कष्ट निवारकः इति च प्रसिद्धः । दक्षिणपार्श्वे काशीविशालाक्ष्याः मन्दिरमस्ति ।

श्रीवादिराजस्वामिनः गोकर्णक्षेत्रस्य दर्शनं कृत्वा ‘तीर्थप्रबन्धः’ इति ग्रन्थे वर्णितवन्तः सन्ति । गोकर्णक्षेत्रे शिवरात्रिपर्व, त्रिपुरदहनोत्सवः कामदहनोत्सवः, गङ्गाष्टमी इत्यादयः विशेषोत्सवाः भवन्ति| शिवरात्रिपर्वणि महारथोत्सवः भवति। द्वादशवर्षेषु एकवारम् अष्टबन्धमहोत्सवः प्रचलति।

 
ओम् समुद्रतटः

गोकर्णक्षेत्रे कोटितीर्थं ताम्रगौरी, पट्टेविनायकः, श्रीवेङ्कटरमणदेवालयः च सन्ति । कोटितीर्थस्य पार्श्वे जनाः आत्मसंस्कारकार्याणि कुर्वन्ति । सुन्दरसागरतीरम् ॐबीच् इति च प्रसिद्धौ समुद्रस्नानयोग्यौ प्रदेशौ । मार्गः -कोङ्कणरेलयानमार्गे -गोकर्णरोडनिस्थानतः ९ कि.मी कुमटा-अङ्कोलाराष्ट्रियमार्गे (सं १७) कुमटातः २६ कि.मी बेङ्गळूरुतः ४३८ कि.मी. कारवारतः ५३ कि.मी गोवात :३० कि.मी शिरसितः ७२ कि.मी मुरुडेश्वरतः ८२ कि.मी दाण्डेलीतः २२० कि.मी । हुब्बळ्ळी २६५ कि.मी।

सोन्दा(स्वादि)

सम्पादयतु

एतत् क्षेत्रं 'सोन्दापुर' 'स्वादि' 'सोन्दा’ इति च कथयन्ति । श्रीमन्मध्वाचार्यस्य सहोदरः श्रीविष्णुतीर्थः स्वादिमठस्य यतिषु प्रथमः। श्रीवागीशतीर्थस्य शिष्यस्य श्रीवादिराजस्वामिनः तथा परम्परागतयतीनां वृन्दावनानि अत्र धवलगङ्गायाः सरसः तीरे सन्ति । अत्र शुद्धः शान्तपरिसरः मनमोहकम् अरण्यम् श्री त्रिविक्रमदेवालयाः प्रसिद्धाः सन्ति । वनमध्ये स्थितम् अपूर्वयात्रास्लनमेतत् । अत्र तपःशिला, वटवृक्षः शीतलगङगा, पातालगङ्गा, रमाविक्रमदेवालयः, भूतराजगुडि, श्रीवादिराजस्वामिना संवर्धितः पनसवृक्षः च महत्वपूर्णाः विषयाः । फाल्गुणकृष्णतृतीयायाम् अत्र त्रिविक्रमदेवस्य रथोत्सवः श्रीवादिराजस्वामिनः आराधनोत्सवः च भवति । इतः समीपे स्वर्णवल्लीमठः इति अस्ति । शङ्कराचार्येण तत्वप्रचारार्थं स्थापितः मठः एषः। अत्र श्रीलक्ष्मीनरसिंहदेवालयः श्रीराजराजेश्वरी देवालयः च सन्ति । प्राचीनयतीनां वृन्दावनानि सन्ति । अत्र नवरात्रिपर्व, नृसिंहजयन्ती पर्वसु विशेषपूजादिकं च भवति। नरसिंहजयन्ती दिने रथोत्सवः प्रचलति । मार्गः शिरसीतः २२ कि.मी । बेङ्गळूरुतः ३९९ कि.मी, उडुपितः १७३ कि.मी रेलयानार्थं हावेरीनिस्थानकम् (६५ कि.मी), शिवमोग्गतः १३५ कि.मी। मठेषु वसतिभोजनादिकव्यवस्थाः सन्ति ।

सहस्रलिङ्गम्

सम्पादयतु

शाल्मली नद्यां हुळ्गोळग्रामसमीपे सहस्रशः शिवलिङगाः निर्मिताः सन्ति। शिवलिङ्गस्य पुरतः नन्दी अपि अस्ति । बाह्यवलये नवग्रहानां शिल्पमपि अस्ति । पूर्वं स्वर्णवल्लीमठः अत्र आसीत् । इदानीं मठः किञ्चिद्दूरे अस्ति । शिवरात्रिदिने सहस्रशः जनाः आगत्य शिवाराधनं कुर्वन्ति । नदी स्नानयोग्यास्ति । सुन्दरप्रकृतिः अस्ति। मार्गः शिरसितः २५ कि.मी।

 
मधुकेश्वरदेवालयः

प्राचीनकालात् प्रसिद्धः श्रीमधुकेश्वर देवालयः अत्रत्यः विशेषः। शिलामन्दिरम् एतत् दशमे शतके वरदानदीतीरे निर्मितम् अस्ति । कदम्बवंशीयानाम् अत्र प्रशासनम् आसीत् । कदम्बानां राजधानी अपि आसीत् । मधुकेश्वरस्य पुरतः बृहन्नन्दीविग्रहः अस्ति। द्विसहस्रवर्षादारभ्य श्री मधुकेश्वराराधनं प्रचलति । देवः ६४ अङ्गुलश्प्रमाणाकारकः उन्नतः मधुमयरुपः अस्ति। मन्दिरे अष्टदिक्पालकाः दत्तात्रेयः हनुमान् कालभैरवः गणपतिः सरस्वती परशुरामः वेङ्कटरमणः च मन्दिरस्य शोभां वर्धयन्तः सन्ति। प्राङ्गणे शिलामञ्चः त्रैलोक्यमण्डपः शिलास्तम्भः च सन्ति । शिल्पकला चालुक्यहोय्सलमिश्रिता शौली । शिवरात्रिपर्वणि अत्र रथोत्सवः प्रचलति । मार्गः- शिरसितः २३ कि.मी, बेङ्गळूरुतः ३८४ कि.मी, गोकर्णतः ३०० कि.मी, हावेरीरेलनिस्थानतः ३० कि.मी।

मुरुडेश्वरम्

सम्पादयतु
 
मुरुडेश्वरमन्दिरम्

कर्णाटकराज्यस्य उत्तरकन्नडमण्डले भाट्कळ-उपमण्डले समुद्रमध्ये मुरुडेश्वरक्षेत्रम् अस्ति । तालुकुकेन्द्रभट्कळतः १५कि.मी.दूरे अस्ति । होन्नावर – भट्कळ मध्ये सपदशसङ्ख्यायाः राष्ट्रियराजमार्गात् १ कि.मी. दूरे एषः देवालयः शोभते । कर्णाटकस्य प्रभासपुण्यक्षेत्रेषु अतिसुन्दरम् अस्ति मुरुडेश्वरम् । मृडः ईश्वरः प्रादेशिकभाषया मुरुडेश्वरः इति ख्यातः ।

पौराणिकी कथा

सम्पादयतु
 
महाशिवः

भूकैलासकथायां गोकर्णक्षेत्रस्य विषये यथोक्तं तथा रावणः भूमौ प्रतिष्ठापितम् आत्मलिङ्गं खण्डशः कृत्वा पञ्चदिशासु प्राक्षिपत् इति । तेषु एकम् आत्मलिङ्गकणं मुरुडेश्वरः इति ख्यातम् इति पुराणकथा । पूर्वस्यां दिशि पर्वतशृङ्खला पश्चिमदिशि समुद्रघोषः एवम् अस्य सौन्दर्यं वर्णनातीतम् । समुद्रतटस्य अनतिदूरे वर्तमाने कन्दुकगिरिः इति ख्याते प्रस्तरशैले मुरुडेश्वरदेवालयः निर्मितः । प्राचीनः एषः देवालयः पाण्डवैः निर्मितः इत्यपि प्रतीतिः अत्र अस्ति । भट्कळस्य राजा भट्टप्पनायकः क्रि.श.चतुर्दशे शतके अस्य मन्दिरस्य जीर्णोद्दारं कृतवान् इति आलेखः अस्ति । स्कन्दपुराणे अपि मुरुडेश्वरस्य उल्लेखः कृतः । मुरुडेश्वरक्षेत्रम् इदानीम् आधुनिकीकृतम् अस्ति । महाशिवभाक्तः महोद्यमी आर्.एन्.शेट्टि महोदयः देवालयस्य परिसरस्य च सौन्दर्यं वर्धयितुं बहुव्ययं कृतवान् कुर्वन् च अपि अस्ति । अस्य मार्गदर्शनेन मन्दिरस्य प्रवेशद्वारे २५० पादपरिमितोन्नतः विमानगोपुरः निर्मितः । मन्दिरस्य पृष्ठभागे अनन्या १५० पादपरिमिता अत्युन्नता तपो निरतशिवस्य मूर्तिः निर्मिता । देवालयस्य आवरणे गणपतेः, पार्वत्याः, दत्तात्रेयस्य, हनूमतः, सुब्रह्मण्यस्य च लघुमन्दिराणि सन्ति । अस्मिन् तीर्थक्षेत्रे काकतीर्थः जठायुतीर्थः, भीमतीर्थः, कुम्भतीर्थः,च इति निर्झराः प्रवहन्ति । मन्दिरस्य अनतिदूरे विशाला पुष्करिणी अस्ति । भक्ताः अत्र स्नात्वा देवदर्शनं प्राप्नुवन्ति । अस्मिन् सरसि वर्षे द्विवारं 'तेप्पोत्सवः’ आचर्यते । अत्र क्रि.श २००८ तमे वर्षे शेट्टिमहोदयस्य प्रयोजकत्वेन एव द्राविडशैल्या निर्मितः विमानगोपुरः अतीव सुन्दरः विशिष्टः च । अस्मिन् गोपुरे २० अट्टाः सन्ति यत्र गन्तुं शक्यते । आरोहणावरोहणार्थं ’लिफ्ट्’व्यवस्था कल्पिता । १८ अट्टतः सूर्यास्तस्य दृश्यं नयनमनोहरम् । किन्तु अत्र एकस्मात् वातायनात् एव सर्वैः द्रष्टव्यं भवति अतः जनसम्मर्दः भवति । इतः उपरि नवदशं विंशतितमं च अट्टं गन्तुम् अनुमतिः नास्ति । सोपानमार्गः चेदपि तेन गन्तुम् अवसरः न दीयते । मन्दिरस्य पार्श्वे समुद्रतटे एकं महावसतिगृहम् अस्ति । यात्रर्थिनः स्वद्रव्यव्ययेन अत्र सुखेन वस्तुं शक्नुवन्ति । राजधानीतः बेङ्गळूरुतः प्रतिरात्रं सर्वकारीयानि असर्वकारीयानि बस् यानानि सन्ति । मुरुडेश्वरपत्तने तु आवासभोजनादीनां सुव्यवस्था अस्ति एव । रेल् यानेन गन्तव्यं चेत् मङ्गळूरु गत्वा ततः गोवागमनस्य कोङ्कणरेल् मार्गेण मुरुडेश्वरस्थानके अवतीर्य किञित् दूरं कार् अथवा त्रिचक्रिकया मुरुडेश्वरपत्तनं प्राप्तुं शक्नुवन्ति । बेङ्गळूरुतः स्वकीयेन यानेन गन्तुम् इच्छन्ति चेत् ३८०कि.मी. दूरं, १० होरावधेः प्रवासः भवेत् ।

समीपस्थानि स्थानानि

सम्पादयतु

समीपे विद्यमानानि इडुगुञ्जी, कोल्लूरु, गोकर्णम् याणं, सोन्दा, बनवासी, शिरसि, इत्यादीनि उत्तरकन्नडामण्डलस्य सुन्दराणि स्थानानि सन्दर्शयितुम् इच्छन्ति चेत् रात्रित्रयस्य दिनचतुष्टयस्य यात्रा भवितुमर्हति ।

योग्यकालः

सम्पादयतु

नवेम्बर् मासतः जनेवरी पर्यन्तं प्रवासार्थं साधुकालः ।

उळवि- दाण्डेली

सम्पादयतु

द्वादशशतके शिवशरणानां क्रान्तेरनन्तरं चेन्नबसवण्णेन सह शरणाः उळवी प्रदेशे वने वासं कृतवन्तः। शरणानां नाम्ना अत्र अनेकाः गुहाः सन्ति । अक्कनागम्म, मडिवाळमाचय्य, किन्नरिबोमय्यः इत्यादि शरणानां स्मारकस्थानानि अत्र सन्ति। अस्य महामने इति कथयन्ति। चेन्नबसवण्णस्य स्मारकम् अपि अस्ति । शिवरात्रिपूर्वपूर्णिमायाम् अत्र चेन्नबसवण्णयात्रामहोत्सवः भवति। प्रकृतिसौन्दर्यस्य अत्र विशेषानुभवः भवति। मार्गः- जोयडातः ३६ कि.मी दाण्डेलीनगरतः ५६ कि.मी , एल्लापूरतः ३२ कि.मी, कारवारतः ९० कि.मी.।

मञ्जुगुणि

सम्पादयतु

तिरुपतिवेङ्कटरमणः एकदा मृगयार्थं गतवान् । प्रकृतिसौन्दर्येण आकृष्टः तत्रैव स्थितवान् । अनन्तरं तत्र श्री वेङ्कटरमणस्य देवालयः निर्मितः अस्ति। श्रीवेङ्कटरमणः कृष्णाशिलानिर्मितः धनुर्बाणहस्तः पादयोः पादरक्षासहितः शङ्खचक्रगदाधरः च अस्ति । अत्र सुन्दराः कासाराः रथमार्गाः पूगनारिकेलादिवृक्षक्षेत्राणि, दर्शनीयानि सन्ति । अत्र समीपे गुहाः सन्ति चैत्रपूर्णिमायां रथोत्सवः भवति । मार्गः -शिरसी-कुमटाराजमार्गे २० कि.मी, ततः ५ कि.मी । शिरसीतः लोकयानानि सन्ति ।

इतराणि दर्शानीयानि स्थानानि

सम्पादयतु

प्रकृतिरमणीयः याणंपर्वतप्रदेशः, बनवासी मधुकेश्वरदेवालयः, मागोडुजलपातः, उञ्चळ्ळीजलपातः, मुरुडेश्वरं, कारवार, दाण्डेलीअभयारण्यम्, गोकर्णं, शिरसि मारिकाम्बादेवालयः, अप्सरकोण्ड, इडुगुञ्जी, सोन्दा, स्वर्णवल्लीलिमठः, सहस्रलिङ्गं, गेरुसोप्प चतुर्मुखबसदि, मुण्डगोड टिबेटीयमन्दिराणि,

प्रसिद्धाः व्यक्तयः

सम्पादयतु

कलाविदः

सम्पादयतु

शिवरामहेगडे, महाबलहेगडे, शम्भुहेगडे, चिट्टाणिरामचन्द्रहेगडे,

राजकीयनायकाः

सम्पादयतु

रामकृष्णहेगडे, आर्.वि.देशपाण्डे, अनन्तकुमारहेगडे, विश्वेश्वरहेगडे कागेरी, शिवानन्दनायकः

कवयः लेखकाः च

सम्पादयतु

दिनकरदेसायी, गौरीश काय्किणि, यशवन्तचित्तालः, गङ्गाधरचित्तालः, अरविन्द नाडकर्णि, जि.एस्.अवधानि, जि.एच्.नायक, जयन्त काय्किणि, विवेकशानभागः, अशोकहेगडे, श्रीधरबलगारः, सुनन्दाकडमे, सन्दीपनायकः, विष्णुनायकः, सच्चिदानन्द हेगडे भत्तगुत्तिगे, ना.सु.भरतनहळ्ळी, गीतावसन्तः, अरविन्द-कर्किकोडि, कर्णाटकशब्दानुशासनकृतेः कर्ता भट्टाकलङ्कः जैनमुनिः इत्यादयः अस्य मण्डलस्य गौरवं वर्धितवन्तः।

विविधानां दर्शनीयस्थानानां विशेषसूचनाः

सम्पादयतु

कारवारतः

२कि.मी.दूरे ट्यागोर् सागरतटः।

७कि.मी.दूरे देवभाग रेसार्ट ।

४कि.मी.दूरे सञ्जेश्वरदेवालयः ।

६कि.मी.दूरे शान्तादुर्गादेवालयः ।

८कि.मी.दूरे तिलमति समुद्रतीरम् ।

शिरसितः

२४कि.मी.दूरे मधुकेश्वरदेवालयः ।

१२कि.मी.दूरे शाल्मलानद्यां सहस्रलिङ्गम् ।

३८कि.मी.दूरे गणेशजलपातः ।

२०कि.मी.दूरे सोदेमठः, स्वर्णवल्लीमठः ।

२४कि.मी.दूरे शिवगङ्गाजलपातः ।

सिद्धापुरतः

१६कि.मी.दूरे सवदत्ति रेणुकादेवालयः ।

२२कि.मी.दूरे जोगजलपातः ।

८कि.मी.दूरे भुवनगिरिः भुवनेश्वरीमन्दिरम् ।

यल्लापुरतः

१०कि.मी.दूरे कवडिकेरे (विशालं सुन्द्ररं च सरः)

२०कि.मी.दूरे जेनुकल् गुड्ड (पर्वतमस्तकात् सूर्यास्तदर्शनम्)

३०कि.मी.दूरे सातोड्डिजलपातः ।

१३कि.मी.दूरे लालगुळिजलपातः ।

कुमटातः

२८कि.मी.दूरे याण (पर्वतशिखराणि)

३६कि.मी.दूरे गोकर्णक्षेत्रम् ।

४२कि.मी.दूरे ओम् समुद्रतीरः ।

जोयिडातः

३२कि.मी.दूरे आकळगवि ।

२१कि.मी.दूरे सूपा जलबन्धः ।

२७कि.मी.दूरे कवळागुहा ।

२०कि.मी.दूरे सिन्थेरी प्रसतरः ।

३५कि.मी.दूरे उळवि बसवेश्वरक्षेत्रम् ।

  1. "Uttara Kannada (North Canara) : Census 2011". Government of India. आह्रियत February 17, 2012. 
"https://sa.wikipedia.org/w/index.php?title=उत्तरकन्नडमण्डलम्&oldid=295625" इत्यस्माद् प्रतिप्राप्तम्