मैत्रेयी
महर्षेः याज्ञवल्क्यस्य द्वे पत्नी आस्ताम् । मैत्रेयी, कात्यायिनी च । तयोः मैत्रेयी ब्रह्मवादिनी आसीत् । कात्यायिनी सामान्या स्त्री आसीत् । कदाचित् याज्ञवल्क्यः पत्नीद्वयमपि समीपम् आहूतवान् । सर्वस्वं त्यागं कृतः, महिमान्वितः याज्ञवल्क्यः प्रशान्तस्वरेण वदति यद् इदानीम् अहं संन्यासं स्वीकुर्वन् अस्मि । अतः एतद् स्थानं त्यक्त्वा अन्यत्र गच्छन् अस्मि । तदर्थं भवत्योः अनुमतिः अपेक्ष्यते । अत्रत्य आश्रमस्य धनम्, अन्यानि वस्तूनि अहं भवतीभ्यां समप्रमाणेन दातुम् इच्छामि । यतः मम गमनानन्तरं भवत्योः मध्ये अभिप्रायभेदः न भवेत् इति । एतद् श्रुत्वा कात्यायिनी तूष्णीं स्थितवती आसीत् । सामान्यस्त्रीबुद्धेः सा किमपि वक्तुं न इष्टवती । किन्तु मैत्रेयी असामान्या आसीत् । अतः सा अवदत् हे भगवन् एतानि धनधान्यवस्तूनि, धेनूः स्वीकृत्य अहम् अस्मिन् प्रपञ्चे चिरकालं स्थातुं शक्नोमि किम् ? मन्दं हसन् याज्ञवल्क्याः अवदत् । नास्ति,भोगवस्तूनि प्राप्य मानवः लौकिकदृष्ट्या सुखी भवति, अमाजे महान् भवति । किन्तु धनसम्पदा मानवः अमरः न भवति इति। नम्रतया मैत्रेयी उक्तवती तर्हि एतानि वस्तूनि स्वीकृत्य अहं किं करोमि ? भगवन् धनेन वास्तसुखं लभ्यते चेत् एतद् सर्वं त्यक्त्वा भवान् किमर्थं गच्छन् अस्ति ? अतः एतेभ्यः अमूल्यं किम् अस्ति इति भवान् माम् वदतु । यदेव भगवन् वेद, तदेव मे ब्रूहि, अमृतत्वस्य साधनांशं मह्यम् उपदिशतु.. इति ।
मैत्रेयी पत्युः महत् बृहत् ज्ञातवती । याज्ञवल्क्यः इत्युक्ते सामान्यः किम् ? ब्रह्मर्षिः सः । चतुर्मुखब्रह्मणः देहात् प्राप्तजन्मा महाज्ञानी अस्ति सः । वैशम्पायनस्य भागिनेयः एषः, तस्य शिष्यान् धिक्कृत्य, गुरोः शापं प्राप्य, तेन पठितान् वेदान् वमनं कृतवान् । तदा अन्ये ऋषयः तित्तिरिपक्षिणः रूपं प्राप्य, तस्य परिग्रहणं कृतवन्तः । अनन्तरम् एषः सूर्यदेवेन शुक्लयजुर्वेदस्य परिग्रहणं कृतवान् । जनकमहाराजेन सह ब्रह्मविद्यायाः विषये वादं कृत्वा विशेषगौरवं प्राप्तवान् । एतद् स्वस्य तस्य च अन्तिमं मेलनम् । अतः तस्य परमानुग्रहं प्राप्तव्यम् इति तस्याः मनसि आशा आसीत् । एतेन प्रसन्नचित्तः याज्ञवल्क्यः तस्याः प्रशंसां कुर्वन्, धन्या मैत्रेयी भवती धन्या । आरम्भतः भवती मम प्रिया अस्ति । अहं भवत्यै उपदिशामि । एतस्य मननं कृत्वा विचारविमर्श्य उक्तान् हृदये धारणं करोतु संसूच्य उपदेष्टुम् आरब्धवान् । मैत्रेयी, पत्ये पत्नी पत्न्यै पतिः च किमर्थं प्रियाः इति भवती कदापि चिन्तितवती वा ? पतिः इत्येव सः पत्न्याः प्रियः न भवति । सः तस्यै आनन्दं ददाति । तस्याः कार्येषु साहाय्यं करोति । तथैव पत्नी पत्युः आत्मनः सुखं शान्तिं च ददाति । अतः पत्नी पत्युः प्रिया भवति । एतया दृष्ट्या पश्यामः चेत् सर्वे मनुष्याः, प्राणिनः च आत्मसन्तोषस्य दानेन प्रियाः भवन्ति । एतेन आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्त्रव्यो निधिध्यासितव्यः । मैत्रेयि आत्मानो वा अरे दर्शनेन श्रवणेन मत्या विज्ञाने नेदं सर्वं विदितं … मैत्रेयि, अतः भवती आत्मनः दर्शनस्य श्रवणस्य मननस्य निदिध्यासनस्य च अभ्यासं करोतु । तस्य श्रवणदर्शनमननानां यथार्थज्ञानेन सर्वं ज्ञातुं शक्यते । पश्चात् महर्षिः अनेकदृष्टान्तैः युक्तिभिः ब्रह्मज्ञानस्य वास्तविकार्थस्य उपदेशं कृतवान् । मैत्रेयी, एतदेव अमृतत्वम् । भवत्याः इच्छानुसारम् अहम् एतद् भवत्यै उपदिष्टवान् अस्मि । एवम् उपदिष्य ब्रह्मर्षिः याज्ञवल्क्यः संन्यासं प्राप्य तपसि लीनः अभवत् । एवं वास्तविकां सम्पदं, ब्रह्मज्ञानस्य मूलम् अमृतमयम् उपदेशं प्राप्य मैत्रेयी कृतार्था ब्रह्मज्ञानिनी अभवत् ।
""