मोघाशा मोघकर्माणो...

भगवद्गीतायाः श्लोकः ९.१२


श्लोकः सम्पादयतु

 
गीतोपदेशः
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ १२ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य द्वादशः(१२) श्लोकः ।

पदच्छेदः सम्पादयतु

मोघाशा मोघकर्माणः मोघज्ञानाः विचेतसः राक्षसीम् आसुरीं च एव प्रकृतिं मोहिनीं श्रिताः ॥ १२ ॥

अन्वयः सम्पादयतु

मोघाशाः मोघकर्माणः मोघज्ञानाः विचेतसः राक्षसीम् आसुरीं च मोहिनीं प्रकृतिम् एव श्रिताः (मानुषीं तनुम् आश्रितं माम् अवजानन्ति) ।

शब्दार्थः सम्पादयतु

मोघाशाः = व्यर्थतृष्णाः
मोघकर्माणः = व्यर्थयज्ञाः
मोघज्ञानाः = निष्फलज्ञानाः
विचेतसः = विगतविवेकाः
राक्षसीम् = राक्षससम्बन्धिनीम्
आसुरीं च एव = असुरसम्बन्धिनीम्
मोहिनीम् = व्यामोहकारिणीम्
प्रकृतिम् = स्वभावम्
श्रिताः = आस्थिताः । (मानुषीं तनुम् आश्रितं माम् अवजानन्ति)

अर्थः सम्पादयतु

येषां मनोरथः व्यर्थः, कर्म व्यर्थम्, ज्ञानं च व्यर्थं तादृशाः बुद्धिहीनाः, तमोगुणप्रधानाः, राक्षसानां प्रकृतिम् आश्रिताः जनाः मनुष्याकारं माम् अवलोक्य अयं साधारणः इति भावयन्तः अवमानयन्ति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मोघाशा_मोघकर्माणो...&oldid=418730" इत्यस्माद् प्रतिप्राप्तम्