यज्ञ एव समस्तेषु कर्मसु श्रेष्ठतमः कर्म।[१] ब्राह्मणग्रन्थेषु यज्ञस्य इयती महिमा इयदादरश्च वर्त्तते यद्विश्वस्य सर्वश्रेष्ठदेवता प्रजापतिरपि यज्ञरूपमेवास्ति।[२] विष्णोरपि प्रतीकः अयमेव यज्ञोऽस्ति।[३] अाकाशे दीप्यमानः अादित्योऽपि यज्ञरूपमेवास्ति।[४]

समस्तेषु कर्मसु श्रेष्ठतमत्वेन विश्वेस्मिन् यज्ञ एव परमाराध्यः अस्ति । जगति यावन्तः पदार्थाः सन्ति, एतदन्तं देवानां जनकरूपं प्रजापतिरपि यज्ञस्यैवाध्यात्मिकप्रतीकोऽस्ति । ‘यज्ञादेव सृष्टिः सम्भूता' । अस्य वैदिकतत्त्वस्य परिचयः पुरुषसूक्ते एव प्राप्यते। ब्राह्मणयुगे यज्ञः महनीयत्वे साधनरूपत्वे च अस्ति। अग्निहोत्रस्य अनुष्ठानेन प्राणी सर्वपापात् विमुच्यते - ‘सर्वस्मात् पाप्मनो निर्मुच्यते य एवं विद्वानग्निहोत्र जुहोति'[५] अश्वमेधयज्ञकर्त्ता यजमानः ब्रह्महत्यादिसमस्तपापकर्मभ्यः मुक्तो भवति।[६] गोपथब्राह्मणे सुष्टु उपमाद्वारेण एक पापनिमोचनतत्त्वं विशदीचकार। येन प्रकारेण सर्पः स्वजीर्णत्वचं निर्मुच्यते, मुञ्जात् ‘इषीका' निर्मुच्यते तथैव शाकलहवनकर्त्ता समस्तपापेभ्यो मुक्तो भवति —

‘तद् यथाहिजीर्णायास्त्वचो निर्मुच्यते इषीका वा मुञ्जात्।

एवं ह वै ते सर्वस्मात् पाप्मनः समुच्यन्ते ये शाकलां जुह्वति।।'[७]

एतावदुपादेयत्वेन एव यज्ञस्य पूर्णानुष्ठनाय ब्राह्मणस्य आग्रहोऽस्ति ।

इज्यन्ते देवता अत्र - यज(देवपूजादौ) नङ् (३-३-९०) ।
यज्ञेन यज्ञमयजन्त देवाः ।
दुदोह गां स यज्ञाय - रघु १-२६
यज्ञो नाम यागः देवपूजा इत्यर्थः ।

विष्णुयज्ञकुण्डे क्रियमाणः यज्ञः

अन्तर्विषयाः

नार्याः अनिवार्यतासम्पाद्यताम्

यज्ञे पत्नी यजमानस्य सहघर्मचारिणी भवति। 'पत्नी'-शब्दस्य व्युत्पत्तिरपि इमामेव विशिष्टतां प्रति सङ्केतं करोति। पत्नीं विना कोऽपि पुरुषः यजनस्य अधिकारी भवितुं न शक्नोति, यतः दम्पत्योः सहाधिकारात्। ‘अयज्ञो वा एषो योऽपत्नीक’[८] इति। पत्नी अद्धाङ्गिनी भवति। ‘अथा अर्धो वा एष अात्मनो यत् पत्नी'[९]। वेद्याः रचनाप्रसङ्गे शतपथब्राह्मणं स्त्रीसौन्दर्याय एकं महनीयमादर्शं प्रति सङ्केतं करोति । स्थूल-जघनं, स्कन्धयोर्मध्ये उरोभागः, जघनापेक्षया अल्पतरस्थूलः कटिप्रदेशः हस्तग्राह्यः स्त्रियाः शारीरिकसुषमायाः श्लाघनीयः प्रतीकः आसीत्। 'एवमिव हि योषं प्रशंसन्ति पृथु श्रोणिर्विमृष्टान्तरांसा मध्ये सङ्ग्राह्येति'[१०] एवंविधं नारीरूपं सुन्दरकेशपाशैस्तथा अन्यवस्त्राभूषणैः सुसज्जिता भूत्वा अदीव्यत् । एतादृश्या रुचिरया स्त्रिया सह वैदिककालिकपुरुषः विवाहसम्बन्धं विधाय गुणज्ञपुत्रं समुत्पाद्य स्वर्गप्राप्तेः कामनामकरोत् । 

विधाःसम्पाद्यताम्

यज्ञः त्रिविधः । सात्त्विकः राजसः तामसः इति ।

सात्त्विकयज्ञःसम्पाद्यताम्

फलापेक्षां विना कर्तव्यदृष्ट्या शास्त्रोक्तरीत्या यागः यः क्रियते सः सात्त्विकयज्ञः

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्विकः ॥ - गीता १७-११

राजसयज्ञःसम्पाद्यताम्

फलापेक्षया दम्भार्थं शास्त्रोक्तरीत्या क्रियमाणः यज्ञः राजसः

अभिसंधाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥ - गीता १७-१२

तामसयज्ञःसम्पाद्यताम्

शास्त्ररीतिं परित्यज्य अश्रद्धया अमन्त्रकतया च क्रियमाणः यज्ञः तामसः

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ - गीता १७-१३

द्रव्ययज्ञः तपोयज्ञः ज्ञानयज्ञः स्वाध्याययज्ञः इत्यादयः विविधाः यज्ञाः विद्यन्ते ।

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ॥ - गीता ४-२८

पञ्चमहायज्ञाःसम्पाद्यताम्

गृहस्थैः सर्वैः करणीयेषु कार्येषु पञ्च महायज्ञाः अन्यतमाः । तस्मिन् विषये ज्ञातुम् अत्र दृश्यताम् - पञ्चमहायज्ञाः

विष्णुः, नारायणःसम्पाद्यताम्

यज्ञः इत्यस्य विष्णुः नारायणः इत्यपि अर्थः उपलभ्यते ।

स्वाराधनधर्मसमृद्धिरिक्तानां तदर्थिनां स्वयमेव यज्ञः तादृशो धर्मः - यज नङ्
जपयज्ञस्वरूपत्वात् यज्ञ इत्युच्यते बुधैः - इति निरुक्तिः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः - वि स
यज्ञोऽग्न्यात्महरीष्टिषु - वैजयन्तीकोशः

सम्बद्धाः लेखाःसम्पाद्यताम्

सन्दर्भःसम्पाद्यताम्

  1. (‘यज्ञो वै श्रेष्ठतमं कर्म' शत० १॥७॥३॥५ )
  2. ‘एष वै प्रत्यक्षं यज्ञो यत् प्रजापतिः' ( श० ४॥३॥४॥३ )
  3. ( यज्ञो वै विष्णुः )
  4. ‘स यः यज्ञोऽसौ , अञ्ादित्यः' . ( शत० ब्रा० १४॥१॥१॥१६ )
  5. ( शत० ब्रा० २॥३॥१।६ )
  6. ( शत० ब्रा० १३॥५॥४॥१ )
  7. ( गोपथ ब्रा० उ० ४।।६ )
  8. तैत्ति० ब्रा० २॥२॥२॥६
  9. तै० ब्रा० ३।३।। ३॥५
  10. शत'० १॥२॥५॥१६
"https://sa.wikipedia.org/w/index.php?title=यज्ञः&oldid=424944" इत्यस्माद् पुनः प्राप्तिः