यज्ञे तपसि दाने च...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
- कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥ २७ ॥
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य सप्तविंशतितमः(२७) श्लोकः ।
पदच्छेदः
सम्पादयतुयज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते कर्म च एव तदर्थीयं सत् इति एव अभिधीयते ॥
अन्वयः
सम्पादयतुयज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते । तदर्थीयं कर्म च एव सत् इति एव अभिधीयते ।
शब्दार्थः
सम्पादयतु- स्थितिः = वृत्तिः
- तदर्थीयम् = यज्ञदानतपःप्रयोजनार्थम्
- अभिधीयते = प्रोच्यते ।
अर्थः
सम्पादयतुयज्ञाय तपसे दानाय च या स्थितिः क्रियते सापि सत् इति कथ्यते । तथा तेषां यज्ञादीनां यद् अनुकूलं कर्म वर्तते तदपि सत् इति शब्देनैव उच्यते ।