यत्तु प्रत्युपकारार्थं...


श्लोकः सम्पादयतु

 
गीतोपदेशः
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥ २१ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य एकविंशतितमः(२१)) श्लोकः ।

पदच्छेदः सम्पादयतु

यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः दीयते च परिक्लिष्टं तत् दानं राजसं स्मृतम् ॥

अन्वयः सम्पादयतु

यत् तु प्रत्युपकारार्थं फलम् उद्दिश्य वा पुनः परिक्लिष्टं च दीयते तत् दानं राजसं स्मृतम् ।

शब्दार्थः सम्पादयतु

प्रत्युपकारार्थम् = प्रत्युपकाराय
उद्दिश्य = सल्प्य
परिक्लिष्टम् = दुःखसहितम्
स्मृतम् = कथितम्।

अर्थः सम्पादयतु

अयं मे काले प्रत्युपकारं करिष्यति इत्यभिप्रायेण, फलापेक्षया, सन्तापसहिततया वा यत् दानं क्रियते तत् राजसम् इति आख्यायते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु