यथाकाशस्थितो नित्यं...

भगवद्गीतायाः श्लोकः ९.६


श्लोकः सम्पादयतु

 
गीतोपदेशः
यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ६ ॥

अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य षष्ठः(६) श्लोकः ।

पदच्छेदः सम्पादयतु

यथा आकाशस्थितः नित्यं वायुः सर्वत्रगः महान् तथा सर्वाणि भूतानि मत्स्थानी इति उपधारय ॥ ६ ॥

अन्वयः सम्पादयतु

यथा नित्यं सर्वत्रगः महान् आकाशस्थितः वायुः तथा मत्स्थानि सर्वाणि भूतानि इति उपधारय ।

शब्दार्थः सम्पादयतु

यथा = येन प्रकारेण
नित्यम् = सदा
सर्वत्रगः = सर्वत्र गन्ता
महान् = महापरिमाणः
आकाशस्थितः = नभसि वर्तमानः
वायुः = अनिलः
तथा = तेन प्रकारेण
मत्स्थानि = मयि स्थितानि
सर्वाणि = सकलानि
भूतानि इति = भूतानि इति
उपधारय = जानीहि ।

अर्थः सम्पादयतु

यथा सदा सर्वत्र संचरन् महान् वायुः आकाशे वर्तमानोऽपि न तेन सम्बध्यते तथा सर्वाणि भूतानि मयि वर्तमानान्यपि निस्सत्वात् न मया सम्बध्यन्ते इति विजानीहि ।

सम्बद्धसम्प्र्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=यथाकाशस्थितो_नित्यं...&oldid=418758" इत्यस्माद् प्रतिप्राप्तम्