श्लोकः सम्पादयतु

 
गीतोपदेशः
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य त्रयस्त्रिंशत्तमः(३३) श्लोकः ।

पदच्छेदः सम्पादयतु

यथा प्रकाशयति एकः कृत्स्नं लोकम् इमं रविः क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥

अन्वयः सम्पादयतु

भारत ! एकः रविः कृत्स्नम् इमं लोकं यथा प्रकाशयति तथा क्षेत्री कृत्स्नं क्षेत्रं प्रकाशयति ।

शब्दार्थः सम्पादयतु

कृत्स्नम् = समस्तम्
लोकम् = भुवनम्
क्षेत्री = परमात्मा
क्षेत्रम् = शरीरम्
प्रकाशयति = दीपयति ।

अर्थः सम्पादयतु

अर्जुन ! यथा एकः रविः जगद्गतानि नानाविधानि वस्तूनि प्रकाशयति प्रकाशयन् च न तेदेन भेदं गच्छति तथा अयम् आत्मा अपि नानाविधानि शरीराणि प्रकाशयति प्रकाशयन् च न तेदेन भेदं गच्छति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=यथा_प्रकाशयत्येकः...&oldid=418755" इत्यस्माद् प्रतिप्राप्तम्