यदादित्यगतं तेजो...

भगवद्गीतायाः श्लोकः १५.१२


श्लोकः सम्पादयतु

 
गीतोपदेशः
यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य द्वादशः(१२) श्लोकः ।

पदच्छेदः सम्पादयतु

यदा आदित्यगतं तेजः जगद्भासयते अखिलम् यत् चन्द्रमसि यत् च अग्नौ तत् तेजः विद्धि मामकम् ॥ १२ ॥

अन्वयः सम्पादयतु

यत् अखिलं जगत् भासयते (तादृशम्) आदित्यगतं तेजः, यत् चन्द्रमसि, यत् च अग्नौ तत् तेजः मामकं विद्धि ।

शब्दार्थः सम्पादयतु

आदित्यगतम् = सूर्याश्रितम्
तेजः = दीप्तिः
अखिलम् = समग्रम्
भासयते = प्रकाशयति
चन्द्रमसि = चन्द्रे
अग्नौ = प्रकाशे
मामकम् = मदीयम्
विद्धि = जानीहि ।

अर्थः सम्पादयतु

सूर्ये चन्द्रे अग्नौ च वर्तमानं यत् तेजः जगत् भासयते तत् मम तेजः इति जानीहि ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=यदादित्यगतं_तेजो...&oldid=418765" इत्यस्माद् प्रतिप्राप्तम्