यदा भूतपृथग्भावम्...
श्लोकः
सम्पादयतु- यदा भूतपृथग्भावमेकस्थमनुपश्यति ।
- तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३० ॥
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य त्रिंशत्तमः(३०) श्लोकः ।
पदच्छेदः
सम्पादयतुयदा भूतपृथग्भावम् एकस्थम् अनुपश्यति ततः एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३० ॥
अन्वयः
सम्पादयतुयदा भूतपृथग्भावम् एकस्थम् अनुपश्यति ततः एव च तदा विस्तारं ब्रह्म सम्पद्यते ।
शब्दार्थः
सम्पादयतु- भूतपृथग्भावम् = भूतभेदम्
- एकस्थम् = एकत्र वर्तमानम्
- अनुपश्यति = सम्यक् पश्यति
- विस्तारम् = विकासम्
- ब्रह्म = परमात्मा
- सम्पद्यते = सम्भवति ।
अर्थः
सम्पादयतुयदा पुरुषः भिन्नत्वेन दृश्यमानान् स्थावरजमान् सर्वान् प्रलयकाले एकस्यामेव प्रकृतौ भवन्तीति पर्यालोचयति, यदा च सृष्टिकाले पुनः तस्या एव प्रकृतेः एते भिन्नाः स्थावरजमाः सम्भवन्ति इत्यपि पर्यालोचयति तदा स अहं प्रकृतितोऽतिरिक्तः इति जानन् ब्रह्मत्वं प्राप्नोति ।
सम्बद्धसम्पर्कतन्तुः
सम्पादयतु