श्लोकः सम्पादयतु

 
गीतोपदेशः
यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ ३१ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य एकत्रिंशात्तमः(३१) श्लोकः ।

पदच्छेदः सम्पादयतु

यया धर्मम् अधर्मं च कार्यं च अकार्यम् एव च अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥

अन्वयः सम्पादयतु

पार्थ ! यया धर्मम् अधर्मं च कार्यं च अकार्यम् एव च अयथावत् प्रजानाति सा बुद्धिः राजसी ।

शब्दार्थः सम्पादयतु

धर्मम् = शास्त्रविहितम्
अधर्मम् = शास्त्रनिषिद्धम्
कार्यम् = कर्तव्यम्
अकार्यम् = अकर्तव्यम्
अयथावत् = अयाथार्थ्येन
प्रजानाति = वेत्ति ।

अर्थः सम्पादयतु

पार्थ ! यया धर्मस्य अधर्मस्य शास्त्रसम्मतस्य कार्यस्य तदसम्मतस्य च अकार्यस्य यथावत् ज्ञानं न भवति सा बुद्धिः राजसी इति कथ्यते ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=यया_धर्ममधर्मं_च...&oldid=418771" इत्यस्माद् प्रतिप्राप्तम्