यवः
अयं यवः अपि भारते वर्धमानः कश्चन धान्यविशेषः । अयं यवः अपि सस्यजन्यः आहारपदार्थः । अयं यवः आङ्लभाषायां Barley इति उच्यते । अस्य यवस्य मेध्यः, सितशूकः, दिव्यः, अक्षतः, धान्यराजः, तीक्ष्णशूकः, तुरगप्रियः, हयेष्टः , पवित्रधान्यम् इत्यादीनि अन्यानि नामानि अपि सन्ति । अयं यवः आहारः औषधं च । आचार्यः चरकः मधुमेहस्य निमित्तं संस्कारितः यवः अत्युत्तमम् औषधम् इति उक्तवान् अस्ति । एतं विषयम् अधिकृत्य एव आयुर्वेदमहाविद्यालये संशोधनम् अपि कृतम् अस्ति । तदा सिद्धं यत् यवस्य उपयोगेन सप्ताहाभ्यन्तरे एव रोगलक्षणं न्यूनं जायते, तथा च शर्करांशः १००-१५० मि.ग्रां. यायत् न्यूनः जायते इति ।
आयुर्वेदस्य अनुसारम् अस्य यवस्य स्वभावः
सम्पादयतुअयं यवः पचनार्थं जडः । यवः कषायमिश्रितमधुररुचियुक्तः । अयं यवः जीर्णानन्तरं कटुविपाकः भवति । अयं यवः पिच्छिलः रूक्षः च ।
- “यवः कषायो मशुरः शीतलो लेखनो मृदुः ।
- व्रणेषु तिलवत् पथ्यो रूक्षो मेधाग्निवर्धनः ॥
- कटुपाकोऽनभिष्यन्दी स्वर्यो बलकरो गुरुः ।
- बहुवातमलो वर्णस्थैर्यकारी च पिच्छिलः ॥
- कण्ठत्वगामयश्लेष्मपित्तमेदःप्रणाशनः ।
- पीनसश्वासकासोरुस्तम्भलोहिततृट्प्रणुत् ॥“ (भावप्रकाशः)
- १. अयं यवः शरीरं शुष्कीकरोति ।
- २. यवः शीतलः, लेखनः, मृदुः च ।
- ३. यवः शरीरे विद्यमानान् दोषान् निवारयति ।
- ४. अयं यवः अग्निवर्धकः, मेधावर्धकः, बलवर्धकः, स्थैर्यवर्धकः च ।
- ५. यवः नैर्यासगुणयुक्तः ।
- ६. यवः कफस्य पित्तस्य च दोषं निवारयति ।
- ७. मधुमेहे, कासे, अस्तमायां, पीनसे, चर्मरोगे, कुष्ठरोगे, कफप्रधाने ज्वरे च उत्तमः पथ्याहारः यवः ।
- ८. स्थूलकायाः प्रतिदिनं यवं सेवन्ते चेत् मासाभ्यन्तरे ३-४ के.जि. यावत् भारं न्यूनीकर्तुं शक्नुवन्ति ।
- ९. यवे ६९.३% पिष्टांशः, ११.५% फ्रोटिन्, १.५% खनिजांशः, विटमिन् सि, अयसः अंशाः च सन्ति ।
- १०. शरीरे शोथः अस्ति चेत्, मूत्रस्य अवरोधः अस्ति चेत् यवस्य सेवनं वरम् । यवः शोथं निवारयति, मूत्रं निस्सारायति च ।
- ११. यवस्य रोटिका रुचिकरी, मधुरा, लघु च ।
- १२. यवः मलवर्धकः, वीर्यवर्धकः, कफजन्यानां रोगाणां निवारकः च ।
- १३. यवः उत्तमः व्रणरोपकः अपि ।
- १४. यवस्य अधिकप्रमाणेन सेवनेन वातः वर्धते । ततः शरीरवेदना, अनिद्रा, शिरोवेदना च सञ्जायते ।