यस्मान्नोद्विजते लोको...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
- हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १५ ॥
अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य) पञ्चदशः(१५) श्लोकः ।
पदच्छेदः
सम्पादयतुयस्मात् न उद्विजते लोकः लोकान् न उद्विजते च यः हर्षामर्षभयोद्वेगैः मुक्तः यः सः च मे प्रियः ॥
अन्वयः
सम्पादयतुयस्मात् लोकः न उद्विजते, यः च लोकात् न उद्विजते, यः हर्षामर्षभयोद्वेगैः मुक्तः सः च मे प्रियः ।
शब्दार्थः
सम्पादयतु- यस्मात् = यस्मात् पुरुषात्
- लोकः = जनः
- न उद्विजते = उद्वेगं न गच्छति
- यः च =यः पुरुषः अपि
- लोकात् = भुवनात्
- न उद्विजते = उद्वेगं न प्राप्नोति
- हर्षामर्षभयोद्वेगैः = सन्तोषासूयात्रासक्षोभैः
- मुक्तः = रहितः
- सः च = सः पुरुषः
- मे प्रियः = मम अभिमतः ।
अर्थः
सम्पादयतुयस्मात् पुरुषात् लोकः उद्वेगं न गच्छति, यः च पुरुषः लोकात् न उद्वेगं प्राप्नोति, यश्च सन्तोषासूया - त्रासक्षोभैः रहितः सः पुरुषः मम प्रियः ।