यान्ति देवव्रता देवान्...
Bhagavadgita Shloka 9.25
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः ।
- भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ २५ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य पञ्चविंशतितमः(२५) श्लोकः ।
पदच्छेदः
सम्पादयतुयान्ति देवव्रताः देवान् पितॄन् यान्ति पितृव्रताः भूतानि यान्ति भूतेज्याः यान्ति मद्याजिनोः अपि माम् ॥ २५ ॥
अन्वयः
सम्पादयतुदेवव्रताः देवान् यान्ति । पितृव्रताः पितॄन् यान्ति । भूतेज्याः भूतानि यान्ति । मद्याजिनः अपि मां यान्ति । ।
शब्दार्थः
सम्पादयतु- देवव्रताः = देवपरायणाः
- देवान् = तत्तद्देवविशेषान्
- यान्ति = प्राप्नुवन्ति
- पितृव्रताः =पितृपरायणाः
- पितॄन् = पितृदेवान्
- यान्ति = प्राप्नुवन्ति
- भूतेज्याः = भूतपूजकाः
- भूतानि = विविधभूतगणान्
- यान्ति = प्राप्नुवन्ति
- मद्याजिनः अपि = मदाराधकाः च
- मां यान्ति = मां प्राप्नुवन्ति ।
अर्थः
सम्पादयतुये देवान् पूजयन्ति ते देवलोकं गच्छन्ति । ये पितॄन् ते पितृलोकम् । ये पुनः भूतानि ते भूतलोकम् । किन्तु एषां सर्वेषामपि प्रत्यागमनम् अस्ति । मां तु ये पूजयन्ति ते मामेव यान्ति, न प्रत्यागच्छन्ति ।