येषां त्वन्तगतं पापं...

भगवद्गीतायाः श्लोकः ७.२८


श्लोकः सम्पादयतु

 
गीतोपदेशः
येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ २८ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य अष्टाविंशतितमः(२८) श्लोकः ।

पदच्छेदः सम्पादयतु

येषां तु अन्तगतं पापं जनानां पुण्यकर्मणाम् ते द्वन्द्वमोहनिर्मुक्ताः भजन्ते मां दृढव्रताः ॥ २८ ॥

अन्वयः सम्पादयतु

येषां तु पुण्यकर्मणां जनानां पापम् अन्तगतं ते द्वन्द्वमोहनिर्मुक्ताः दृढव्रताः मां भजन्ते ।

शब्दार्थः सम्पादयतु

येषां तु = येषां तु
पुण्यकर्मणाम् = पुण्याचारशीलानाम्
जनानाम् = मानवानाम्
पापम् = कल्मषम्
अन्तगतम् = नष्टप्रायम्
ते = मानवाः
द्वन्द्वमोहनिर्मुक्ताः = शीतोष्णादिजन्येन मोहेन रहिताः
दृढव्रताः = गाढसल्पाः
मां भजन्ते = मां सेवन्ते ।

अर्थः सम्पादयतु

पुण्यं कर्म समाचरतां पापं यदा समाप्तप्रायं भवति तदा ते दृढसल्पाः शीतोष्णसुखदुःखादिद्वन्द्वजन्येन मोहेन मुच्यमानाः मां प्राप्नुवन्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु