ये चैव सात्त्विका भावा...
भगवद्गीतायाः श्लोकः ७.१२
श्लोकः
सम्पादयतु- ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
- मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥ १२ ॥
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य द्वादशः(१२) श्लोकः ।
पदच्छेदः
सम्पादयतुये चैव सात्त्विकाः भावाः राजसाः तामसा च ये मत्तः एव इति तान् विद्धि न तु अहं तेषु ते मयि ॥ १२ ॥
अन्वयः
सम्पादयतुये च एव सात्त्विकाः भावाः ये राजसाः तामसाः च तान् मत्तः एव इति विद्धि । अहं तु तेषु न ते (पुनः) मयि ।
शब्दार्थः
सम्पादयतु- ये च एव = ये पुनः
- सात्त्विकाः = सत्त्वात् आगताः
- भावाः = पदार्थाः
- ये राजसाः = ये रजसः आगताः
- तामसाः च = तमसः आगताः च
- तान् = पदार्थान्
- मत्तः एव इति = मत्तः सम्भूताः इति
- विद्धि = जानीहि
- तेषु तु = किन्तु तेषु पदार्थेषु
- न = न भवामि
- ते (पुनः) = भावाः पदार्थाः तु
- मयि = मयि । (वर्तन्ते)
अर्थः
सम्पादयतुये सत्त्वात् समुत्पन्नाः शमदमादयः, ये रजसः समुत्पन्नाः दर्पद्वेषादयः, ये च तमसः समुत्पन्नाः शोकमोहादयः भावाः सन्ति ते सर्वेऽपि मत्तः एव जाताः । तथापि नाहं तेषु अधीनः अस्मि । किन्तु ते एव मयि अधीनाः सन्ति ।