यो यो यां यां तनुं भक्तः...
भगवद्गीतायाः श्लोकः ७.२१
श्लोकः
सम्पादयतु- यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
- तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ २१ ॥
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य एकविंशतितमः(२१) श्लोकः ।
पदच्छेदः
सम्पादयतुयः यः यां यां तनुं भक्तः श्रद्धया अर्चितुम् इच्छति तस्य तस्य अचलां श्रद्धां ताम् एव विदधामि अहम् ॥ २१ ॥
अन्वयः
सम्पादयतुयः यः भक्तः यां यां तनुं श्रद्धया अर्चितुम् इच्छति तस्य तस्य ताम् एव अचलां श्रद्धाम् अहं विदधामि ।
शब्दार्थः
सम्पादयतु- यः यः भक्तः = यः यः भजनशीलः
- यां यां तनुम् = यां यां मूर्तिम्
- श्रद्धया = आसक्त्या
- अर्चितुम् = आराधयितुम्
- इच्छति = अभिलषति
- तस्य तस्य = भक्तस्य
- ताम् एव = तादृशीम् एव
- अचलाम् = स्थिराम्
- श्रद्धाम् = आसक्तिम्
- विदधामि = करोमि ।
अर्थः
सम्पादयतुयः यः भक्तः यां यां मूर्तिं श्रद्धया अर्चितुम् इच्छति तस्य भक्तस्य तादृशीम् एव स्थिरां श्रद्धाम् अहं करोमि ।