रक्तदुर्गम्
अस्माकं देशस्य प्रसिद्धासु भवनरचनासु देहलीस्थं रक्तदुर्गम् अस्ति प्रमुखम् । एतत् मोगलनां वैभवस्य द्योतकम् अस्ति । शाहजहानः एतस्य निर्माणं करितवान् । १६३९ तमे वर्षे एतस्य निर्माणकार्यम् आरब्धम् । नवानां वर्षणाम् अनन्तरं, तन्नाम् १६४८ तमे वर्षे, शाहजहानः महता वैभवेन एतत् दुर्गं प्रविष्टवान् वासाय ।
रक्तदुर्गम् | |
---|---|
विश्वपरम्परास्थानानि | |
रक्तदुर्गम् is a prominent fort in Delhi | |
राष्ट्रम् | India |
प्रकारः | Cultural |
मानदण्डः | ii, iii, vi |
अनुबन्धाः | 231 |
क्षेत्रम् | Asia-Pacific |
शिलाभिलेखस्य इतिहासः | |
शिलाभिलेखाः | 2007 (31st सत्रम्) |
* विश्वपरम्परावल्याम् अङ्कितानि नामानि । ^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम् |
रक्तदुर्गं देहलीराज्ये आग्रानगरस्य समीपे अस्ति । 'प्रसिद्धताजमहल्’तः सार्ध द्वे कि.मि दूरे अस्ति । रक्तदुर्गम् (लालखिला) वास्तविकतया दुर्गैः आवृतम् प्रासादनगरम् इति आह्वातुं शक्यते ।
इतिहास
सम्पादयतुषोडषतमे शतमानस्य अन्ते अक्बरस्य काले मोघलवंशीयाः एतत् दुर्गम् लूदीवंशात् अलभन् । अक्बरः स्वराज्यपरिपालनसमये राजधानीं देहलीतः आग्रां प्रति परिवर्तितवान् । अनेन आग्रा नगरम् अधिकसंपन्नं संजातम् । अक्बरः सामान्यतः दुर्ग-सौधादिकं रक्तवर्णाश्मभिः निर्माययति स्म, च रक्तदुर्गेऽपि अस्य प्रभावं दृष्टुं शक्यते । रक्तदुर्गम् न केवलम् दुर्गत्वेन अपितु राज्ञाम् एवं तेषां दाराणाम् निवासत्वेनापि उपयोगः आरब्धः । रक्तदुर्गस्य इदानींतनरुपम् अक्बरस्य प्रपौत्रः षाअजानस्य काले प्राप्तम् । षाजहानस्य काले शिल्पकलायाम् श्वेतामृतशिलाम् अधिकतया उपयुज्यन्ते स्म (उदाहरणार्थम् - ताजमहल्) । षाहाजानः अत्रत्य केषाञ्चनसौधान् नाशयित्वा स्वकीयसौधाः निर्मितवान् । अनन्तरवर्षेषु षाजहानस्य पुत्रः औरङ्गजेबः षाहजहानम् अस्मिन्नेव रक्कदुर्गे बन्धितवान् अपि । षाजहानः अस्मिन्नेव रक्तदुर्गे 'मुसम्मुन् बुर्ज' नामके गोपुरे इति मृतवान् इति भावयन्ति । एषःअमृतशिलायाम् निर्मितः । (ताजमहल्) ताजसौधानस्य अद्भुतम् दृश्यम् अस्मात् सौधात् सम्यक् दृश्यते ।
रक्तदुर्गस्य चित्रणम्
सम्पादयतुरक्तदुर्गस्य प्रवेशद्वारद्वयम् अस्ति । पश्चिमीयेन मार्गेण जनाः प्रविशन्ति । लाहोरद्वारम् इति एतस्य नाम । राजभवनस्य मुखद्वारे भेरीगृहम् अस्ति । एतत् शिलया सिकताभिः च निर्मितं भवनम् । एतस्य अभिमुखम् एकत्र 'हरिततृणाङ्गणम् (लान् )अस्ति, अपरत्र आस्थानभवनम् अस्ति ।
आस्थानभवनस्य पूर्वभागे सिंहासनं भवति स्म पूर्वम् । आस्थानभवनस्य पृष्ठभागे रङ्गमन्दिरस्य मध्ये सङ्गमरमरशिलया निर्मितः कुण्डः भवति । एत्स्य अधोभागाः पद्माकारेण रमणीयतया निर्मितः अस्ति । रङ्गमन्दिरस्य पार्श्वे ममताज्मद्निरम् अस्ति । एतत् काचकमन्दिरम् इत्यपि निर्दिश्यते । रङ्गमन्दिरस्य उत्तरस्यां दिशि 'महिलाखास्’ भवनम् स्ति । एअत्स्य भ्वनस्य पार्श्वे एव किञ्चन गोलभवनम् अस्ति । इतः उत्तरस्यां दिशि गतं चेत् आन्तरङ्गिकभवनं प्राप्यते । गजत्प्रसिद्धं मयूरसिंहसनम अत्रैव भवति स्म ।
आन्तरङ्गिकभवनस्य उत्तरभागो राजपरिवारीयाणां स्नानगॄहाणि द्दश्यन्ते । स्नानगृहाणां पार्श्वे एव् 'मोतीमसजिद्’ अस्ति । औरङ्गजेबः एतत् सङ्गमामरशिलया निर्मापितवान् । एतस्य अन्यस्मिन् पार्श्वे उद्यानं, सरोवरः च द्दश्येते । तौ उभयतः सङ्गमरमरमण्डपे द्दश्येते । तौ उभयतः सङ्गमरमरमण्डपे द्दश्येते । उद्यानस्य मध्ये एव द्वितीयेन बहादुरशाहेन गते शतके सिकताभिः शिलाभिः च निर्मापितं भवनं दृश्यते ।
बाह्यानुबन्धाः
सम्पादयतुविकिमीडियाकोषे रक्तदुर्गम् अनेन सम्बद्धमाध्यमाः सन्ति। |
- देहल्याः रक्तदुर्गः Archived २००८-०६-१६ at the Wayback Machine
- रक्तदुर्गस्य चित्राणि
- भारतस्य देहली/एन्.सि.आर्.दर्शनीयस्थानानि Archived २०११-०७-२१ at the Wayback Machine
- देहलीप्रवासोद्यमः Archived २०१०-११-२१ at the Wayback Machine