रक्तदुर्गम् (आग्रा)
रक्तदुर्गं देहलीसमीपे आग्रानगरे अस्ति । देहल्याम् अपि रक्तदुर्गमामकं प्रसिद्धं स्थानम् अस्ति । ‘प्रसिद्धताजमहल’भवनतः सार्धद्विकि.मी दूरे अस्ति । रक्तदुर्गम् (लालकिला) वास्तविकतया दुर्गेण आवृत्तं प्रासादानां नगरम् इति कथयितुं शक्यते ।
रक्तदुर्गम् | |
---|---|
विश्वपरम्परास्थानानि | |
राष्ट्रम् | India |
प्रकारः | Cultural |
मानदण्डः | iii |
अनुबन्धाः | 251 |
क्षेत्रम् | South Asia |
शिलाभिलेखस्य इतिहासः | |
शिलाभिलेखाः | 1983 (7th सत्रम्) |
* विश्वपरम्परावल्याम् अङ्कितानि नामानि । ^ यूनेस्को द्वारा वर्गीकृतक्षेत्रम् |
इतिहासः
सम्पादयतुषोडशशतकस्य अन्ते अकबरस्य काले मोघलवंशस्याः एतत् दुर्गं लोदीवंशात् अलभन् । अकबरः स्वराज्यस्य परिपालनसमये राजधानीं देहलीतः आग्राम् प्रति परिवर्तितवान् । अनेन आग्रा नगरम् अधिकं सम्पन्नं सञ्जातम् । अकबरः सामान्यतः दुर्ग-सौधादिकं रक्तवर्णाश्मभिः निर्मायति स्म । रक्तदुर्गे अपि अस्य प्रभावः दृष्टुं शक्यः । रक्तदुर्गं न केवलं दुर्गं जातम् । अपि तु राज्ञां तथा तेषां राज्ञीनां निवासत्वेनापि अस्य उपयोगः आरब्धः । रक्तदुर्गस्य इदानीन्तनरुपम् अकबरस्य पौत्रस्य षाहजहानस्य काले प्राप्तम् । षाहजहानस्य काले शिल्पकलायां श्वेतामृतशिलायाः अधिकः उपयोगः आसीत् । (उदाहरणार्थं- ताजमहल्) । षाहजहानः अत्रत्यानां केषाञ्चन सौधानां निर्माणम् आरब्धवान् । अनन्तरतनवर्षेषु षाहजहानस्य पुत्रः औरङ्गजेबः षाहजहानम् अस्मिन्नेव रक्तदुर्गे बद्धवान् । षाहजहानः अस्य एव रक्तदुर्गस्य ‘मुसम्मुन् बुर्ज’ नामके गोपुरे मृतः इति भावयन्ति । एतत् गोपुरम् अमृतशिलया निर्मितम् अस्ति । इतः ‘ताजमहल्’ भवनस्य अद्भुतम् दृश्यं द्रष्टुं शक्यम् ।
-
जहाङ्गीरस्य प्रासादः
-
खस् महल्
-
अङ्गूरीबाग्
-
देहलीद्वारम्
-
आग्रादुर्गं समीपस्थात् रेलमार्गात्