रथोद्धताछन्दः

(रथोद्धता इत्यस्मात् पुनर्निर्दिष्टम्)

रथोद्धता।

प्रतिचरणम् अक्षरसङ्ख्या ११

रान्नराविह रथोद्धता लगौ। –केदारभट्टकृत वृत्तरत्नाकर:३.३९

ऽ।ऽ ।।। ऽ।ऽ ।ऽ

र न र ल ग।

यति: पादान्ते।

लक्षणम् सम्पादयतु

रात्परैर्नरलगै रथोद्धता ।

यत्र प्रत्येकम् अपि पादे क्रमेण एकः रगणः, एकः नगणः, एकः रगणः, एकः लघु एकः गुरुश्च भवति तद्वृत्तं रथोद्धता इति कथ्यते।

उदाहरणम् सम्पादयतु

राधिका दधिविलोडनस्थिता कृष्णवेणुनिनदैः रथोद्धता।
यामुनं तटनिकुञ्जमञ्जसा सा जगाम सलिलाहृतिच्छलात्।।

अर्थः सम्पादयतु

दधिविलोडनरूपकर्मणि अवस्थिता राधिका माधवस्य मुरलीध्वनिभिः आकुलिता सलिलाहरणस्य व्याजेन शीघ्रमेव यमुनासम्बन्धिनं तटनिकुञ्जं वव्राज।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=रथोद्धताछन्दः&oldid=445839" इत्यस्माद् प्रतिप्राप्तम्