रसोऽहमप्सु कौन्तेय...
भगवद्गीतायाः श्लोकः ७.८
श्लोकः
सम्पादयतु- रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।
- प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८ ॥
अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य अष्टमः(८) श्लोकः ।
पदच्छेदः
सम्पादयतुरसः अहम् अप्सु कौन्तेय प्रभा अस्मि शशिसूर्ययोः प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८ ॥
अन्वयः
सम्पादयतुकौन्तेय ! अहम् अप्सु रसः, शशिसूर्ययोः प्रभा, सर्ववेदेषु प्रणवः, खे शब्दः, नृषु पौरुषम् अस्मि ।
शब्दार्थः
सम्पादयतु- कौन्तेय = कुन्तीपुत्र !
- अहम् अप्सु = अहम् उदके
- रसः = माधुर्यरसः
- शशिसूर्ययोः = चन्द्रार्कयोः
- प्रभा= कान्तिः
- सर्ववेदेषु = निखिलवेदेषु
- प्रणवः = ओंकारः(ॐ)
- खे = आकाशे
- शब्दः = ध्वनिः
- नृषु =मानवेषु
- पौरुषम् = पुरुषत्वम्
- अस्मि = भवामि ।
अर्थः
सम्पादयतुकौन्तेय ! अहम् उदकेषु माधुर्यम्, चन्द्रसूर्ययोः कान्तिः, सर्ववेदेषु ओंकारः, आकाशे ध्वनिः, मानवेषु पुरुषत्वं च अस्मि ।