रागी कर्मफलप्रेप्सुः...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः ।
- हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ २७ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तविंशतितमः(२७) श्लोकः ।
पदच्छेदः
सम्पादयतुरागी कर्मफलप्रेप्सुः लुब्धः हिंसात्मकः अशुचिः हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥
अन्वयः
सम्पादयतुरागी कर्मफलप्रेप्सुः लुब्धः हिंसात्मकः अशुचिः हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ।
शब्दार्थः
सम्पादयतु- रागी = रागवान्
- कर्मफलप्रेप्सुः = कर्मफलार्थी
- लुब्धः = लोभी
- हिंसात्मकः = पीडास्वभावः
- अशुचिः = अशुद्धः
- हर्षशोकान्वितः = सुखदुःखसहितः
- राजसः = रजोगुणयुक्तः
- परिकीर्तितः = आख्यातः ।
अर्थः
सम्पादयतुयः भार्यापुत्रादिषु प्रीतिमान्, कर्मफलापेक्षी, कृपणः, हिंसाप्रियः, कर्मापेक्षितशुद्धिरहितः, कर्मफलसिद्धौ च सन्तुष्टः असिद्धौ च दुःखितः भवति सः कर्ता राजसः इत्युच्यते ।