राजाराणीमन्दिरम्
राजाराणीमन्दिरम् ओडिशाप्रदेशस्य भुवनेश्वरनगरे किञ्चन "शिवमन्दिरम्" विद्यते । ११ शतके सोमवंंशी-शासकैः अस्य निर्माणं कृतमस्ति । [१] अस्मिन् समये इन्द्रेश्वरमन्दिरम् इति नाम्ना प्रसिद्धम् आसीत् ।
विवरणम्
सम्पादयतुराजराणी-मन्दिरं पीत-रक्तवर्णयुक्त-वालुकापस्थरेण निर्मितम् अस्ति, यत् राजाराणी-शिला इति कथ्यते । मन्दिरं पूर्वाभिमुखम् अस्ति । मन्दिरस्य गर्भगृहरेखाशैली, जगमोहनपीडा-शैल्यां च निर्मितम् अस्ति । राजराणीमन्दिरं पञ्चरथशैल्या निर्मितम् अस्ति । एतत् मन्दिरं पुरीनगरस्य जगन्नाथमन्दिरस्य समकालीनम् अस्ति । सम्प्रति भारतस्य पुरातत्त्वसर्वक्षणेन राजाराणीमन्दिरस्य परिपालनं क्रियते ।
पर्वाणि
सम्पादयतुराजराणी-सङ्गीत-महोत्सवस्य आयोजनं ओडिशा-सर्वकारेण प्रतिवर्षं जनवरी-मासस्य १८ दिनाङ्कात् २० दिनाङ्कपर्यन्तं राजाराणी-मन्दिरे समायोज्यते । भारतस्य विभिन्नप्रदेशेभ्यः सङ्गीतकाराः एतस्मिन् क्षेत्रे सङ्गीतपरिवेषणं कुर्वन्ति ।
दृष्टान्ताः (चित्रावली)
सम्पादयतु-
राजराणी-मन्दिरस्य कार्यम्
-
राजाराणी-मन्दिरस्य मुख्यद्वारम्
-
मन्दिरस्य मानचित्रम्
आधार:
सम्पादयतु- ↑ "Rajarani Temple, Bhubaneswar". Archaeological Survey of India. आह्रियत 2013-03-17.