राजगढमण्डलम्

मध्यप्रदेशे एक: मण्डल:
(रायगढमण्डलम्, मध्यप्रदेशः इत्यस्मात् पुनर्निर्दिष्टम्)

राजगढमण्डलम् ( /ˈrɑːəɡədhəməndələm/) (हिन्दी: राजगढ़ जिला, आङ्ग्ल: Rajgarh district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य भोपालविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति राजगढ इति नगरम् ।

राजगढमण्डलम्

Rajgarh District
राजगढ जिला
राजगढमण्डलम्
राजगढमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे राजगढमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे राजगढमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि राजगढ, खिलचीपुर, जीरापुर, ब्यावरा, सारङ्गपुर, पछोर, नरसिंहपुर
विस्तारः ६,१५३ च. कि. मी.
जनसङ्ख्या (२०११) १५,४५,८१४
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६१.२१%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४७.५%
Website http://rajgarh.nic.in/

भौगोलिकम् सम्पादयतु

राजगढमण्डलस्य विस्तारः ६,१५३ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे भोपालमण्डलं, पश्चिमे शाजापुरमण्डलम्, उत्तरे राजस्थानराज्यं, दक्षिणे शाजापुरमण्डलम् अस्ति । अस्मिन् मण्डले पार्वतीनदी, नेवजनदी प्रवहति ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणं राजगढमण्डलस्य जनसङ्ख्या १५,४५,८१४ अस्ति । अत्र ७,९०,२१२ पुरुषाः, ७,५५,६०२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २५१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २५१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २३.२६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५६ अस्ति । अत्र साक्षरता ६१.२१% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- राजगढ, खिलचीपुर, जीरापुर, ब्यावरा, सारङ्गपुर, पछोर, नरसिंहपुर ।

वीक्षणीयस्थलानि सम्पादयतु

जल्पा-माता-मन्दिरम् सम्पादयतु

जल्पा-माता-मन्दिरं राजगढ-नगरात् ४ कि. मी. दूरे अस्ति । इदं मन्दिरं लघुपर्वते स्थितमस्ति । मन्दिरात् सम्पूर्णनगरं दृश्यते । इदं परितः काननं वर्तते । कानने अनेकाः पादपाः सन्ति । नवरात्रिमहोत्सवे भक्ताः दर्शनार्थं मन्दिरं गच्छन्ति ।

नरसिंहगढ अभ्यारण सम्पादयतु

नरसिंहगढ अभ्यारण इत्यस्य स्थापना ई. १९७८ तमे वर्षे अभवत् । इदं स्थलं भोपाल-नगरात् ७० कि. मी. दूरे स्थितमस्ति । इदम् अभयारण्यं समुद्रतलात् ५७६ मी. उपरि अस्ति । इदम् अभयारण्यं ५७ चतुरस्रकिलोमीटरपरिमितं विस्तृतमस्ति । अत्र प्राकृतिकसौन्दर्यता अस्ति । अतः अस्य अपरं नाम Kashmir of Malwa इति । अस्य अभयारण्यस्य मध्ये एकः तडागः अपि अस्ति । सः तडागः आकर्षणस्य केन्द्रम् अस्ति । पर्यटकाः आनन्दाय तत्र गच्छन्ति । राजगढ इत्यत्र ’दरगाह शरीफ’, कोतरा, खोयरी महादेव-मन्दिरम् इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

http://rajgarh.nic.in/
http://www.census2011.co.in/census/district/309-rajgarh.html

"https://sa.wikipedia.org/w/index.php?title=राजगढमण्डलम्&oldid=463985" इत्यस्माद् प्रतिप्राप्तम्