रुक्मवतीछन्दः (चम्पकमाला)
रुक्मवती (चम्पकमाला)
प्रतिचरणम् अक्षरसङ्ख्या १०
भ्मौ सगयुक्तौ रुक्मवतीयम्। –केदारभट्टकृत वृत्तरत्नाकर:३.२६
चम्पकमाला चेद्भमसाद्गा।–केदारभट्टकृत वृत्तरत्नाकर:३.२६
ऽ।। ऽऽऽ ।।ऽ ऽ
भ म स ग।
यति: पादान्ते।
उदाहरणम्-
धर्मविलोपोऽधर्मविकास:कालवशाज्जातो यदि पार्थ। स्वं स्वयमेवाहं च सृजामि साध्ववनायासाधुवधाय॥