रूपं महत्ते बहुवक्त्र...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् ।
- बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ २३ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य त्रयोविंशतितमः(२३) श्लोकः ।
पदच्छेदः
सम्पादयतुरूपं महत् ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथिताः तथा अहम् ॥ २३ ॥
अन्वयः
सम्पादयतुमहाबाहो ! बहुवक्त्रनेत्रं बहुबाहूरुपादं बहूदरं बहुदंष्ट्राकरालं महत् ते रूपं दृष्ट्वा लोकाः प्रव्यथिताः तथा अहम् ।
शब्दार्थः
सम्पादयतु- महाबाहो = दीर्घबाहो !
- बहुवक्त्रनेत्रम् = अनेकाननलोचनम्
- बहुबाहूरुपादम् = असङ्ख्याकहस्तोरुचरणम्
- बहूदरम् = अनेककुक्षिम्
- बहुदंष्ट्राकरालम् = अनेकदन्तभयानकम्
- महत् = बृहत्
- ते रूपम् = तव स्वरूपम्
- दृष्ट्वा = अवलोक्य
- लोकाः = जनाः
- प्रव्यथिताः = चिन्ताकुलाः
- तथा अहम् = तथा अहम् ।
अर्थः
सम्पादयतुदीर्घबाहो ! तव आकारः अत्यन्तं विचित्रः । तत्र बहूनि मुखानि लोचनानि सन्ति । बहवः हस्ताः ऊरवः पादाश्च सन्ति । बहूनि उदराणि अपि सन्ति । बहुभिः दन्तैः भयानकः दृश्यसे । एतादृशस्य आकारस्य दर्शनादेव सर्वे जनाः किं भवेदिति चिन्ताम् उपगताः तथा अहम् ।