लाल्गुडि गोपाल ऐयर् जयरामन् (तमिळ: லால்குடி கோபால ஐயர் ஜெயராமன்) (सेप्टेम्बर् १७, १९३० - एप्रिल् २२, २०१३) भारतीयकर्णाटकसङ्गीतस्य प्रसिद्धः वयोलिन्वादकः ।[१][२][३][४][५] तस्य पुत्रः जि जे आर् कृष्णन्, पुत्री लाल्गुडि विजयलक्ष्मीः, अकाडेमीप्रशस्तिविजेत्री बाम्बे जयश्री च तस्य प्रसिद्धेषु शिष्येषु अन्यतमाः ।

लाल्गुडि जयरामन्
லால்குடி கோபால ஐயர் ஜெயராமன்
मूलतः चेन्नै, तमिळुनाडु, भारतम्
सङ्गीतविद्या कर्णाटकशास्त्रीयसङ्गीतम्
वृत्तिः कर्णाटकसङ्गीतम् वयोलिन्वादकः


पृष्ठभूमिका सम्पादयतु

श्रेष्ठवाग्गेयकर्तुः त्यागराजस्य शिष्यपरम्परायां प्राप्तजन्मा, श्री लाल्गुडि जयरामन् पितुः वि आर् गोपाल ऐयरस्य सकाशात् कर्णाटकसङ्गीतस्य उत्कृष्टं शिक्षणं प्राप्नोत् ।

साधना सम्पादयतु

स्वकीये द्वादशे वयसि जयरामन् सङ्गीतगोष्ठीषु वयोलिन्वादनम् आरब्धवान् । अरैकुडि रामानुज ऐयङ्गार्, चेम्बै वैद्यनाथ भागवतर्, सेम्मङुडि श्रीनिवास ऐयर्, जि एन् बालसुब्रह्मणियम्, मधुरै मणि ऐयर्, वोलेटि वेङ्गटेश्वरुलु, नेदुनुरि कृष्णमूर्ति, के वि नारायणस्वामी, महाराजपुरं सन्तानम्, डि के जयरामन्, बालमुरलीकृष्णः, टि वि शङ्करनारायणन्, टि एन् शेषगोपालन्, प्रसिद्धः वेणुवादकः एन् रमणि - इत्येतेषां सङ्गीतदिग्गजानां गोष्ठीषु जयरामन् अत्युत्तमं वाद्यसहकारं दत्तवान् अस्ति ।

प्राप्ताः प्रशस्तयः सम्पादयतु

'नादविद्यातिलकः', 'पद्मश्रीः', 'नादविद्यारत्नाकरः', 'वाद्यसङ्गीतकलारत्न', 'सङ्गीतचूडामणि'... इत्यादयः अनेकाः प्रशस्तयः तेन प्राप्ताः सन्ति ।

वैयक्तिकजीवनम् सम्पादयतु

लाल्गुडि जयरामनेन राजलक्ष्मीः परिणीता । पुत्रः कृष्णन्, पुत्री विजयलक्ष्मी च पितुः मार्गमेव अनुसृत्य प्रसिद्धौ वयोलिन्वादकौ स्तः । एषः २०१३ तमस्य वर्षस्य एप्रिल्मासस्य २२ तमे दिनाङ्के चेन्नैनगरे दिवङ्गतः ।

रचनाः सम्पादयतु

वर्णाः सम्पादयतु

कृतिः - रागः

  • चलमु सेयनेला (तेलुगु) - वलजि
  • परम करुणा - गरुडध्वनि
  • नीवे गतियनि (तेलुगु) - नलिनकान्ति
  • नीवेगानि (तेलुगु) - मन्दारि
  • वल्लभ नायक - मोहनकल्याणि
  • देवी उन् पादमे (तमिल्) - देवगान्धारि
  • तिरुमाल् मरुगा उन् तिरुनामम् (तमिल्) - आन्दोलिका
  • उन्नै अन्रि (तमिल्) - कल्याणि

तमिल्-पदवर्णाः सम्पादयतु

  • इन्नुम् एन् मनम् - चारुकेशी
  • सेन्तिल् नगर -नीलाम्बरी
  • दीवर् मुनिवर् तोऴुम् - षण्मुखप्रिया
  • अङगयर्कण्णी - रागमालिका (नवरस पदवर्णा)

तिल्लान सम्पादयतु

तेलुगु सम्पादयतु

वसन्ता अमीर् कल्याणी आनन्द भैरवी रागेश्री

तमिल् सम्पादयतु

* दर्भारी कानडा * भागेश्री * सिन्दु भैरवी
* बेहाग् * कापी * तिलङ्ग्
* कानडा * कुन्तलवराली * बृन्दावनी
* कदनकुथूहलम् * यमुना कल्याणी * देष्
* वासन्ती * मदुवन्ती * मिस्र शिवऱञ्ज्नी
* चेन्चुरुट्टी * भीम्प्लास् * रेवती
* हंसानन्दी * कर्णरञ्ज्नी * नलिनकान्ति
* माण्ड् * बिन्दुमालिनी * कमास्

संस्कृतम् सम्पादयतु

  • द्विजावन्ती
  • पहाडी
  • मोहनकल्याणी

आधाराः सम्पादयतु

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=लाल्गुडि_जयरामन्&oldid=480909" इत्यस्माद् प्रतिप्राप्तम्