लिपिशास्त्रम्
मानवानां परस्परं विचारविनिमयार्थं भावनाभिव्यक्तये च भाषा अनन्यसाधारणम् उपकरणमस्ति । विशालेऽस्मिन् प्रपञ्चे बहव्यः भाषाः सन्ति । प्रायः सर्वभाषाणां जननी संस्कृतभाषा इति वैशिष्ट्यं संस्कृतभाषायाः । पुरा अत्यन्तं प्राचीनायाः अस्याः संस्कृतभाषायाः लेखनार्थम् उपयुज्यमाना लिपिः ब्राह्मीलिपिः इति विदुषामभिप्रायः । यथा संस्कृतभाषा अनेकासां भाषाणां जननी तथा ब्राह्मीलिपिः बह्वीनां लिपीनां जननी विद्यते ।
प्राचीनलिपिवैभवम्
सम्पादयतुप्रायः क्रिस्तोः पूर्वं षष्ठ- पञ्चमशताब्दाभ्यां प्रागेव उपयुज्यमाना लिपिरियम् इदानीमुपलब्धासु लिपिषु प्राचीनतमा विद्यते । प्राचीनावशेषेषु अशोककालीनानि शिलाशासनानि प्रामुख्यं वहन्ति, ब्राह्मीलिप्या निबध्दत्वात् । ब्रह्मणा सृष्टा इयं लिपिः इति नः श्रध्दा । उक्तञ्च –
- नाकरिष्यद्यदि ब्रह्मा लिखितं चक्षुरुत्तमम् ।
- तत्रेयमस्य लोकस्य नाभविष्यच्छुभा गतिः ॥ - (नारदस्मृतिः ४-७०)
रेखात्मिका इयं लिपिः तदनन्तरकालीनमिपीनां उत्पादिका आसीत् । प्रायः लेखकानां, लेखनसामग्रीणां च विभिन्नतायाः हेतोः, ब्राह्मीलिपितः अनेकाः लिपयः सम्भूताः । एवं यदा विभिन्नाः लिपयः समभूवन् तदा क्रमेण ब्राह्मीलिपिः विस्मृता । क्रिस्तोः अनन्तरं चतुर्दशे शतमाने फिरोज् षा तुगलख्, विशिष्टम् अशोककालीनं शासनस्तम्भद्वयं देहलीनगरं प्रति आनायितवान् । भारतीयान् पण्डितान् अन्यांश्च विदुषः तच्छासनं पठितुमसूचयत् । किन्तु न कोऽप्यपारयत् ब्राह्मीलिप्या निबध्दं शासनं पठितुम् । तदनन्तरकाले क्रिस्तोः अनन्तरं षोडशे शतमाने तच्छासनं पाठितुम् अक्बरोऽपि प्रयत्नमकरोत् । किन्तु सोऽपि निष्फलो जातः । क्रिस्तोः अनन्तरं १७८४ तमे वर्षे सर् विलियं जोन्स् महाशयः भारतीयसंस्कृतेः अध्ययनार्थं रायल् एषियाटिक् सोसैटि इत्याखां संस्थां प्रतिष्ठाप्य संस्थाद्वारा भारतीयलिपीनां, शासनानां, नाणकानां विविधभारतीयग्रन्थानां च अध्ययने प्रावर्तत । एतत्कारणात् अनेके विद्वांसः भारतीयेतिहासाध्ययने आसक्ताः अभूवन् । जेम्स् प्रिन्सेप् इत्याख्यः प्रथमवारं त्रिस्तोः अनन्तरं १८३६ तमे वर्षे बहुशोधनं कृत्वा ब्राह्मीलिप्याः सर्वानपि वर्णान् अपठत् । तदनन्तरं भारतीयलिपिशास्त्राध्ययने बहवः विद्वांसः आसक्ताः शोधनम् आरेभिरे । अक्षराणां विन्यासादिकं सूक्ष्मतया अवलोक्य इदानीन्तनभारतीयलिपीनां मूलस्रोतः ब्राह्मीलिपिः एव इति विद्वांसः निश्चितवन्तः । दक्षिणभारते विद्यमानाः लिपयः कन्नड, तेलगु, नन्दिनागरी, मलयालम्, तिगळारी, ग्रन्थलिपिः सिंहली इत्याद्याः लिपयः गुप्तकालीनब्राह्मीलिप्या सम्बन्धं वहन्ति । उत्तरभारते उपलभ्यमानाः शारदा, नेवारी, भोटिलिपिः, टाकरी, मैथिली, देवनागरी इत्याद्याः अपि शुङ्गकालीनब्राह्म्या, कुशानकालीनब्राह्म्या सह सम्बन्धं वहन्ति । एतासु लिपिषु काश्चन इदानीमपि उपयुज्यन्ते, काश्चन लिपयः इदानीं नैव उपयुज्यन्ते । किन्तु एताः सर्वाः अपि पूर्वम् उपज्यन्ते स्म इति पाण्डुपत्राणां (Manuscript) अवलोकनेन ज्ञायते ।
एवं भारतस्य प्राचीनब्राह्मीलिपेः अर्वाचीनाः लिपयः उत्पन्नाः इति सुस्पष्टम् । अतः भारतीयज्ञानविज्ञानम् आविष्कर्तुं लिपिशास्ते नितान्तम् अध्ययनं गवेषणं च अवश्यम् अस्त्यस्माकं कर्तव्यम् ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुसन्दर्भाः
सम्पादयतु- Salomon, Richard (1998), इन्डियन् एपिग्राफ़ी: ए गाइड् टू द स्टडी ऑफ़ इन्स्क्रिप्शन्स् इन् संस्कृत, प्राकृत, ऍन्ड् द अदर् इन्डो-आर्यन् लैंग्वेजेस्", ऑक्सफ़ोर्ड-यूनीवर्सिटी-प्रेस्, आइ-एस्-बी-एन् 9780195099843.
बाह्यानुबन्धाः
सम्पादयतु- बनवासीप्राचीनकन्नडाभिलेखः
- Halmidi Inscription Archived २००७-०३-१३ at the Wayback Machine
- अभिलेखाः रहस्योद्घाटनानि च Archived २०१०-१०-२१ at the Wayback Machine
- भारतस्य भाषाः लिपयश्च
- भारतीयमुद्राणां कृते जालपृष्ठम् Archived २००७-०३-१६ at the Wayback Machine
- अभिलेखानां भाषा
- Inscribed lid of stone reliquary - Brahmi Script