लेलिह्यसे ग्रसमानः...
(लेलिह्यसे ग्रसमानः - 11.30 इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- लेलिह्यसे ग्रसमानः समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः ।
- तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥ ३० ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य त्रिंशत्तमः(३०) श्लोकः ।
पदच्छेदः
सम्पादयतुलेलिह्यसे ग्रसमानः समन्तात् लोकान् समग्रान् वदनैः ज्वलद्भिः तेजोभिः आपूर्य जगत् समग्रं भासः तव उग्राः प्रतपन्ति विष्णो ॥ ३० ॥
अन्वयः
सम्पादयतुज्वलद्भिः वदनैः समग्रान् लोकान् समन्तात् ग्रसमानः लेलिह्यसे । विष्णो ! तव उग्राः भासः तेजोभिः आपूर्य समग्रं जगत् प्रतपन्ति ।
शब्दार्थः
सम्पादयतुज्वलद्भिः = प्रकाशमानैः
- वदनैः = आननैः
- समग्रान् = सर्वान्
- लोकान् = भुवनानि
- समन्तात् = सर्वतः
- ग्रसमानः = निगिरन्
- लेलिह्यसे = आस्वादयसि
- विष्णो = व्यापक !
- तव उग्राः = तव तीक्ष्णाः
- भासः = दीप्तयः
- तेजोभिः = किरणैः
- आपूर्य = पूर्णं विधाय
- समग्रम् = समस्तम्
- जगत् = भुवनम्
- प्रतपन्ति = नितरां तापयन्ति ।
अर्थः
सम्पादयतुत्वं प्रकाशमानैः आननैः सर्वतः समग्रान् लोकान् ग्रसन् आस्वादयसि । हे विष्णो ! तव तीक्ष्णाः किरणाः कान्तिभिः समस्तं जगत् सम्पूर्य नितरां तापयन्ति ।