लोकसभाध्यक्षः
लोकसभाध्यक्षः ( ( शृणु) /ˈloʊkəsbhɑːðjəkʃhəh/) (आङ्ग्ल: Speaker of the Lok Sabha, हिन्दी: भारत् के लोकसभा अध्यक्ष्) लोकसभायाः त्रिषु स्तम्भेषु अन्यतमः (लोकसभाध्यक्षः, बहुमतप्राप्तप्रक्षः, विपक्षः च लोकसभायाः त्रिस्तम्भाः भवन्ति) । लोकसभाध्यक्षः लोकसभायाः सदस्येषु अन्यतमः भवति । लोकसभायाः कार्यं सुचारुरीत्या चालयितुं लोकसभायाः सदस्याः निर्वाचनप्रक्रियया लोकसभाध्यक्षस्य चयनं कुर्वन्ति । विधानमण्डले विधेयकनिर्माणस्य महत्त्वपूर्णं दायित्वं विधायिकायाः सदस्यानाम् अस्ति । विधेयकस्य विषये चर्चां कुर्वन्तः सदस्याः वाद-विवादं कुर्वन्ति इति स्वाभाविकम् एव, आवश्यकं च । परन्तु वाद-विवादस्य नियमनस्य अपि आवश्यकता भवति । अतः अध्यक्षः सदस्येषु यस्मिन् विषये वादः भवन् अस्ति, तस्मिन् विषये निष्पक्षतया निर्णयं स्वीकरोति । न्यायपालिकायाः निष्पक्षतायाः यथा माहत्म्यं वर्तते, तथैव लोकसभायां निष्पक्षतायाः माहत्म्यं वर्तते । यतो हि लोकसभाध्यक्षस्य पक्षपातपूर्णः व्यवहारः लोकतन्त्रस्य उपरि साक्षात् प्रहारः भवति । अतः पक्षनैष्ठिकस्य लोकसभाध्यक्षस्य अपेक्षया देशनिष्ठस्य लोकसभाध्यक्षस्य चयनम् आवश्यकं भवति । लोकसभाध्यक्षस्य अनुपस्थितौ उपाध्यक्षः लोकसभाध्यक्षस्य प्रतिनिधित्वं करोति । तयोः उभयोः अनुपस्थितौ संसदा निर्मिता एका सभापतितालिका सदनस्य कार्यभारं वहति ।
लोकसभाध्यक्षः | |
---|---|
वर्तमानपदाधिकारी सुमित्रा महाजन् ६/६/२०१४ तः पदाधिकारी | |
नियोगकर्ता | लोकसभायाः सदस्या |
कार्यकालः | लोकसभायाः कार्यकाले अधिकाधिकं पञ्चवर्षाणि |
आदिपदाधिकारी | गणेश वासुदेव मावळङ्कर |
पदसंरचना | १५/०५/१९५२ |
जालस्थानम् | आधिकारिकजालस्थानम् |
नियुक्तिः
सम्पादयतुभारतीयसंविधानस्य ९३ अनुच्छेदानुसारं लोकसभायाः सदस्याः लोकसभासदस्येषु एव क्रमेण अध्यक्षम्, उपाध्यक्षं च चिन्वन्ति । लोकसभायाः रचनयाः काले, अध्यक्षपदस्य उत उपाध्यक्षपदस्य रिक्ततायां सत्यां निर्वाचनं भवति । बहुमतेन उत सर्वसम्मत्या यः अध्यक्षः चितः, सः लोकसभाध्यक्षत्वेन दायित्वं वहते । [१]
पदत्यागः
सम्पादयतु- यदि केनचित् कारणेन अध्यक्षस्य लोकसभायाः सदस्यत्वम् अयोग्यं सिद्ध्यति, तर्हि अध्यक्षस्य स्वतः एव पदत्यागः भवति । [२]
- अध्यक्षः त्यागपत्रम् अपि दातुं शक्नोति । लोकसभाध्यक्षः तत् त्यागपत्रम् उपाध्यक्षं सम्बोध्य लिखति । [२]
- लोकसभायाः नवीनसत्रस्य प्रथमाधिवेशनात् पूर्वदिनपर्यन्तं लोकसभाध्यक्षः स्वदायित्वस्य वहनं करोति । ततः सः पदत्यागं करोति । [२]
अध्यक्षविरुद्धम् अविश्वासः
सम्पादयतुलोकसभायाम् अध्यक्षस्य भूमिका निष्पक्षा भवेत् इति संविधाने मुहुर्मुहुः उल्लिखितम् अस्ति । अतः लोकसभाध्यक्षः स्वशपथग्रहणकाले निष्पक्षतायाः बलपूर्वकाचरणस्य सङ्कल्पं करोति । यः अध्यक्षः देशाय अविचिन्त्य स्वपक्षस्य हितं चिन्तयति, तस्य विरोधस्याधिकारः संसद्सदस्यानां प्राथमिकाधिकारः भवति । लोकसभाध्यक्षस्य व्यवहारेण, निर्णयेभ्यः, वचनेन च यदि पक्षपातस्य अनुभूतिः भवति, तर्हि सदस्याः अध्यक्षविरुद्धं पदच्युतप्रस्तावं कर्तुं प्रभवन्ति । ततः अध्यक्षस्य विरुद्धं ये आक्षेपाः भवन्ति, तेषां सदने चर्चा भवति । अध्यक्षस्य विषये पक्षपातस्य आक्षेपे सिद्धे सति राष्ट्रपतिः तं पदच्युतं करोति ।
पदभ्रष्टता
सम्पादयतु- लोकसभायाः सर्वे सदस्याः अध्यक्षस्य पदभ्रष्टतायै सामूहिकप्रस्तावं संसदि उपस्थाप्यन्ति । सः प्रस्तावः यदि बहुमतैः सिद्धः भवति, तर्हि राष्ट्रपतिः लोकसभाध्यक्षं पदभ्रष्टं करोति । [२] परन्तु पदभ्रष्टतायाः चतुर्दशदिनेभ्यः पूर्वं लोकसभाध्यक्षाय पदभ्रष्टतायाः समाचारः दातव्यः भवति ।
प्रशानिकदायित्वम्
सम्पादयतुलोकसभाध्यक्षः सदनस्य प्रश्न-सङ्कल्प-प्रस्ताव-विधेयकादीनां चयनं करोति [३] । एतेषां चयनस्य अन्तिमनिर्णयः लोकसभाध्यक्षस्य एव भवति । पूर्वाध्यक्षानां परम्परायाः, लोकसभायाः नियमानां च ध्यानं कृत्वा लोकसभाध्यक्षः उक्तदायित्वस्य वहनं करोति । लोकसभाध्यक्षः सदनसदस्यान्, सर्वकारिसदस्यान् च सदने चर्चां कर्तुम् उत तथ्यानाम् उपस्थापनार्थम् आह्वयति । प्रस्थापितस्य विषयस्य गहनतया अध्ययनं कृत्वा एव लोकसभाध्यक्षः स्वनिर्णयान् करोति । सदनसदस्याः लोकसभाध्यक्षस्य निर्णयं पुनर्विचाराय प्रतिप्रस्तावितुं शक्नुवन्ति । परन्तु लोकसभाध्यक्षः यदि निर्णयं परिवर्तितुं नेच्छति, तर्हि सदनसदस्याः तस्य विरोधं कर्तुं न शक्नुवन्ति । स्वनिर्णयस्य पृष्ठे यत् किमपि कारणम् अस्ति, तत् कारणं सदनसदस्यानां सम्मुखम् उपस्थापयितुं लोकसभाध्यक्षः बाध्यः न भवति ।
दायित्वम्
सम्पादयतुलोकसभाध्यक्षः सदने विशेषदायित्वानां वहनं करोति । तेषां दायित्वानां वर्गीकरणं निम्नरीत्या भवति – 1. प्रशासनिकदायित्वम् 2. कार्यपालकदायित्वम् 3. सदने नियमसम्बद्धं, व्यवस्थासम्बद्धं दायित्वम् 4. सदनसदस्येभ्यः सूचनादानम् 5. संसदीयसमितीनां निरीक्षणं, नियन्त्रणं च
कार्यपालकदायित्वम्
सम्पादयतुसदनस्य निर्णयानां सूचनाम् अध्यक्षः एव सर्वेभ्यः अधिकारिभ्यः यच्छति । तया सूचनया सह सः नियमानां कार्यान्विततायाः आग्रहं करोति । सदनयोः मध्ये विधेयकानाम् आदानप्रदानं, सूचनानाम् आदानप्रदानं च अध्यक्षस्य माध्यमेन भवति । विधेयके सिद्धे सति लोकसभाध्यक्षः स्वहस्ताक्षरं कृत्वा राष्ट्रपतेः कार्यालयं विधेयकं प्रेषयति । सः कार्यपालकत्वेन स्वस्य दायित्वं विनयेन वहति ।
सदने नियमसम्बद्धं, व्यवस्थासम्बद्धं दायित्वम्
सम्पादयतुसदने भाषणं कर्तुं सदनसदस्यस्य आह्वानं लोकसभाध्यः करोति । तस्मै सदस्याय कियान् समयः दातव्यः इत्यस्य निर्णयम् अपि लोकसभाध्यः करोति [३] । कोऽपि सदस्यः यदि अयोग्यानां शब्दानां प्रयोगं स्वभाषणे करोति, तर्हि लोकसभाध्यक्षः तं सदस्यं बलपूर्वकं स्वनिवेदनं प्रतिनेतुं बाध्यं करोति । यत् निवेदनं लोकसभाध्यक्षेण अयोग्यं निर्धारितं, तत् संसदः कार्यवाहिका-तः निष्कासितुं लोकसभाध्यक्षः समर्थः । लोकसभाध्यक्षः यान् अंशान् अयोग्यम् उक्त्वा निष्कासयति, तेषां अंशानां मुद्रणं कोऽपि कर्तुं न प्रभवति । लोकसभाध्यक्षः अनुचिताचरणकर्त्रे सदस्याय सदनात् अमुकसमयं यावत् निष्कासितुं, प्रतिबन्धितुं च शक्नोति । [३]
सदनसदस्येभ्यः सूचनादानम्
सम्पादयतुलोकसभाध्यक्षः यदा सदने भाषणं करोति, तदा तस्य भाषणं सर्वे सदस्याः ध्यानेन शृण्वन्ति । यदि कोऽपि सदस्यः अध्यक्षस्य भाषणकाले किमपि वदति, तर्हि सः दण्डार्हः भवति । अतः यदा कदापि लोकसभाध्यक्षः स्वभाषणाय सज्जः भवति, तस्मात् पुरा एव सर्वे सदस्याः स्वस्थाने उपविशन्ति । [३]
संसदीयसमितीनां निरीक्षणं, नियन्त्रणं च
सम्पादयतुलोकसभाध्यक्षः समितीनां गोष्ठीस्थानं निर्धारयति । सदस्यानाम् आवासव्यवस्थायाः दायित्वं, दूरवाण्या सन्देशप्रदानस्य दायित्वं, संसदीयपत्राणां मुद्रणस्य दायित्वं च लोकसभाध्यक्षः एव वहति [३] । लोकसभाध्यक्षः सदने प्रवेशाय पत्रकारेभ्यः, दर्शकेभ्यः, प्रतिनिधिभ्यः च अनुमतिं यच्छति । लोकसभाध्यक्षेण अनुमतिप्राप्ताः जनाः यदि सदने दुर्व्यवहारं कुर्वन्ति, तर्हि लोकाध्यक्षः तेभ्यः दण्डं दातुं समर्थः भवति [३] ।
उपाध्यक्षः
सम्पादयतुभारतीयसंविधानस्य ९३ तमे अनुच्छेदे उपाध्यक्षस्य विषये अपि उल्लिखितम् अस्ति [१] । तस्यानुच्छेदानुसारम् उपाध्यक्षः अध्यक्षस्यानुपस्थितौ सदनस्य अध्यक्षतां करोति । उपाध्यक्षस्य नियुक्तिः, पदच्युतिः अध्यक्षस्य पदच्युतिवदेव भवति । पक्षपातस्य आक्षेपे सिद्धे सति तस्य पदच्युतिः भवति । उपाध्यक्षः यदि कस्यांश्चित् समित्यां सदस्यः भवति, तर्हि सः स्वतः एव तस्याः समितेः अध्यक्षः भवति [४] । उपाध्यक्षस्य चयनं निर्वाचनमाध्यमेन भवति [१] ।
अध्यक्षस्य कार्यभाराधिक्यत्वात् उपाध्यक्षः सदनस्य कार्यं करोति । यथा अध्यक्षस्य पार्श्वे विधेयकसम्बद्धाः अधिकाराः सन्ति, तथैव उपाध्यक्षस्य पार्श्वे अपि भवन्ति । परन्तु उपाध्यक्षस्य निर्णयेन यदि अध्यक्षः सन्तुष्टः न भवति, तर्हि अध्यक्षः तं निर्णयं परिवर्तयितुं शक्नोति । कुत्रचित् उपाध्यक्षः अन्तिमनिर्णयम् अकृत्वा अध्यक्षस्य मतस्य प्रतीक्षां करोति ।
उपाध्यक्षः यदा अध्यक्षत्वेन कार्यं न करोति, तदा सः सदनस्य चर्चायां भागं वोढुं, मतदानं कर्तुं च प्रभवति । परन्तु यदा सः अध्यक्षत्वेन कार्यं करोति, तदा तेन निर्णयात्मकस्य भूमिका ऊह्या एव । उपाध्यक्षः स्वदलस्य कार्याणि अपि कर्तुं प्रभवति । परन्तु एतावता न केनापि उपाध्यक्षेण स्वदलस्य कार्येण सह उपाध्यक्षत्वेन कार्यं कृतम् । सर्वे पक्षात् भिन्नम् उपाध्यक्षत्वेनैव स्वदायित्वम् अवहन् ।
सभापतितालिका
सम्पादयतुलोकसभाध्यक्षः, उपाध्यक्षः च यदा अनुपस्थितौ भवतः, तदा सदनस्य कार्यं सभापतितालिका वहति [३] । एतस्याः सभापतितालिकायाः रचना निर्वाचनमाध्यमेन सदनसदस्यानां मतेन भवति ।
लोकसभाध्यक्षाणां चित्रवीथिका
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुउद्धरणम्
सम्पादयतु- ↑ १.० १.१ १.२ "भारतीयसंविधानम्, अनुच्छेदः ९३". भारतगणराज्यम्. २६/१/१९५०. उद्धरणे दोषः :
<ref>
अमान्य टैग है; "अनुच्छेदः ९३" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है - ↑ २.० २.१ २.२ २.३ "भारतीयसंविधानम्, अनुच्छेदः ९४ ए". भारतगणराज्यम्. २६/१/१९५०. उद्धरणे दोषः :
<ref>
अमान्य टैग है; "अनुच्छेदः ९४" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है - ↑ ३.० ३.१ ३.२ ३.३ ३.४ ३.५ ३.६ "भारतीयसंविधानम्, लोकसभाप्रक्रिया एवं कार्यसञ्चालनसम्बद्धः नियमः १९५८ नियमः ४३, १७४, १८७, ६४". भारतगणराज्यम्. १९५८. उद्धरणे दोषः :
<ref>
अमान्य टैग है; "नियमः १९५८" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है - ↑ "लोकसभावादाः ग्रन्थः-९". भारतगणराज्यम्. १९५४.