प्रमुखा विकल्पसूचिः उद्घाट्यताम्


लोहश्रृङ्खलापिण्डप्रक्षेपणकला (Throwing the Hammer)

अन्तर्विषयाः

हैमरप्रक्षेपणस्य विधिः परिष्काराश्चसम्पाद्यताम्

लोहश्रृङ्खलया सह लोहपिण्डस्य प्रक्षेपणं २.१३५ मीटरमितान्मण्डलात क्रियते । अस्य भारः ७.२५६ किलोग्राममितः श्रृङ्खलायाः प्रलम्बता च १.२२ मीटरमिता भवति । इदं गोलकं ४५ अंशस्य कोणं विदधत्यो रेखयोर्मध्ये प्रक्षिप्यते । हैमरस्य गतिः प्रक्षेपसमये प्राप्यते सा प्रायः प्रतिक्षणं २५ २६ मीटरमिता भवति । अस्याः प्रक्षेपण -कलाया उन्नतेः कारणेषु -१ उन्नतः प्रविधिः , २ -वैज्ञानिकं प्रशिक्षणं, ३- पदयोराधुनिकी कार्यप्रणाली, ४-दक्षिण -चरणस्य शक्तिशाल्यभिघातस्तया पदयोः परिधौ तिर्यग् वलनं, ५-हैमरस्य दक्षभागे नीचैस्तथा वामभागे तिर्यग् भ्रमणं, ६- शरीरस्य यदा पृथव्या सह सम्बन्धः केवलं वामचरणेन भवति तदा वलनं, ७ हस्तयोः सरलीभावस्तथा ८-चक्राणां वृद्धिमती संख्या’- चेत्यादीनि कारणानि प्रमुखतां भजन्ते ।

सन् १६०० तः १६३२ तमवत्सरं यावद् यस्य प्रक्षेपण-विधेः प्रयोगो विधीयते स्म तस्याविष्कर्ता रुसदेशीयः फलेगोन-महाशय आसीत् । अस्मिन् विधौ स त्रिवारं परिधावुत्प्लुत्य भ्रमति स्म । परमेतस्मिन् पृथ्व्याः समान- विपरीत शक्तिलाभो न भवति स्म, तस्मात् ‘जी.आर्.के कृष्णन्’ महादयेन कश्चन् परिष्कारः कृतस्तथा तदाधारेण तस्य प्रभावः १६३२ तः १६५५ ई० वर्षपर्यन्तमस्थात । ततः परं रुसद्शीयोः ‘लीमरः’ पुनरपि तस्मिन् संशोधनमकरोत् तथा साम्प्रतं तस्मिन्नपि द्वे संशोधने विहिते स्तः । ययोः प्रथमं संशोधनं पादस्य भ्रामणे त्तथा गोलकस्य गतिवर्धनाय कृतम्, किञ्चि द्वितीयं संशोधनं ३६० अशे भ्रमणापेक्षया ३७० अंशे भ्रमणात्मकं विद्यते ।

एतेषां परिष्काराणां मुख्यं लक्ष्यं प्रक्षेपणसमये विभिन्नानां शक्तीनां समुपलब्धिरासीत् । यदा प्रक्षेप्ता स्वीयान्यङ्गनि समीचीनया रीत्या प्रयुनक्ति तदेव तस्य प्रारम्भिकी गतिः परिधिमध्यगा गतिश्चक्रवदभ्रामणकालिकी गतिर्भ्रमण- भ्रामणकालयोरुत्थानावनमनकालिकी गतिः कटि प्रदेशस्य् विकर्षण शिथिलीकरणयोर्गतिः पृथ्व्या गुरुत्वाकर्षणशक्तिश्चेति सर्वा अपि यदा शक्तिमत्यो भवन्ति तदैव तस्य शक्तेर्विकासो भवति साफल्यं च स विदन्ति ।

केचन प्राविधिकाः शब्दास्तीव्रताऽऽपादनं चसम्पाद्यताम्

प्रक्षेपणप्रविधौ केचन शब्दा रुढिं प्राप्ताः सन्ति येषां ज्ञानं तत्कलाविदा प्राप्तव्यं भवति । यथा -(१) हैमरस्याक्षरेखा, (२)हैमरस्यार्धव्यासः , (३) शरीरस्याक्षरेखा, (४) दोलनस्य बिन्दुः (५) कबन्धस्यार्धव्यासः (६) वामपदस्यकिलकवद् भ्रमणं, (७) हैमरस्य भ्रमिकक्षा, (८) हैमरस्य भार-भ्रमिकक्षयोरर्धव्यास-समानुपाति शक्तियुग्मं च ।

एवमेव कोणिकगतेस्तीव्रताऽऽपादनायापि प्रक्षेपकेन पूर्णः प्रयासः कर्तव्यः । तदर्थं भारः, भ्रमणागतिः, समतलीय-लम्बवच्छक्त्योरुर्ध्वधोभागयोस्तीव्रते, प्रतिभ्रमणं पादशक्तिः, शारीरिको भारश्चेति सर्वेषां साहाय्येन संहत्या च कोणिकगतौ तीव्रता समायाति हैमरप्रक्षेप्ता सर्वाङ्गपरिपुष्टः स्फूर्तिमान् प्रविधज्ञः साहसी धैर्यशीलः प्रतिभासम्पन्नश्च सन् निरन्तराभ्यासप्रक्रिययाऽऽत्मनः प्रावीण्यं वर्धयति विजेतृत्वं च प्राप्नोति ।

प्रविधिदृष्ट्या निम्नोक्ताः प्रविधयः स्मरणीया विद्यन्ते-सम्पाद्यताम्

हैमरग्रहणम्सम्पाद्यताम्

लोहश्रृङ्खलापिण्डं वामह्स्तस्याङ्गुलीनां प्रथमपर्वणां स्थानाद् गृह्यते । दक्षिणो हस्तः साहाय्यार्थं तदुपरि स्थाप्यते । सावधानतायै वामे हस्ते प्रच्छदा (दस्तान)वपि धार्येते । प्रथमायां स्थितौ प्रक्षेप्ता सौविध्येन परिधेः पृष्ठभागे विस्तार्य तिष्ठति । हैमरो दक्षपार्श्वे स्थाप्यते । ततः परं कटिप्रदेशाद् वलित्वा वामपादपार्ष्णिमुत्थाप्य हैमारो प्रथमदोलनाय स्वं प्रत्याकर्षति । शरीरस्य् भारो दक्षपादे दीयते तथा पादौ जानुभागाद् मोट्येते ।

प्रारम्भिकं दोलनम्सम्पाद्यताम्

प्रारम्भिके दोलने हैमरं दक्षहस्तेनाकृष्य प्रक्षेपकः शक्तिपूर्वकं भ्रामयति । अयं वेगः १४-१५ मीटरमितात् प्रतिसौकिण्ड्वेगादधिको न भवति । तथैव भ्रामणसमये ह्स्तो वामस्कन्धे गच्छति तदा कटिं मोटयित्वा दक्षिणे वामे च हैमरो भ्राम्यते । एतेन हैमरस्य वेगस्तथा कबन्धस्याकर्षणं परस्परमन्योऽन्यं सन्तुलितं कुरुतः । प्रारम्भिकानि दोलनानि सुखेन नीयन्ते हैमरः पृथ्वीतोऽधिकाधिकं ३५-३८ सै० मी० मित उच्चैर्गच्छति ।

परिवर्तनम्सम्पाद्यताम्

यदा लोहश्रृङ्खला-पिण्डमन्तिमे दोलने निम्ने बिन्दौ भवति तदा परिवर्तनं प्रारभते । अस्मिन् समये प्रक्षेप्तुर्मनसि मनागपि वैकल्यं न भवत्यन्यथा शरीरस्य सामञ्जस्यं विनश्यति । अतो हैमरप्रक्षेपणकाले क्षेपकेन पूर्णतया दत्तचित्तेन भवितव्यम् ।

हैमरेण सह परिक्रमणम्सम्पाद्यताम्

प्रतिचक्रं पदयोरन्तरं न्यूनं भवितुं प्रवर्तते ततः पृथ्व्या अधिकाधिकं शक्तिर्मिलति । ‘पिट-इन्’ अवस्थायां वामजानोर्वलनमावश्यकं विद्यते । यतो हि वामपादस्य बाह्ये भागे परिक्रमणाय पादस्य वलनमपेक्षितं विद्यते । दक्षः पादः पृथ्वीत उत्पत्य वामपादस्य निकटमायाति तथा निम्नान्निम्ने मार्गे चलति केवलं कबन्धे स्कन्धयोर्मांसपेशीषु च विकर्षणं तिष्ठति । प्रक्षेपकस्य गुरुत्वाकर्षणमुच्चावचं न भवत्यपि तु प्रतिचक्रं नीचैर्गच्छति । दक्षः पादः स्वल्पकालाय भूमावायाति तथोच्छलति यतः परिक्रमणे तीव्रतोदभवति । शरीरस्य भारो वामे पादे तिष्ठति दक्षपादश्च नैकटयमाश्रयति यतः पृथ्व्या अधिकमुच्छलनं मिलेदय च वपुषः सन्तुलनं यथावत तिष्ठेत् । शरीरस्याक्षरेखाऽतिन्यूनरुपेण विचलति । वामः पादः परिक्रमणकाले वलितो हैमरक्षेपकाले च सरलो भवति । चक्रं ३६० अंशतो न्यूनं न भवेदपि त्वेवं प्रयतनीयं येन तद् ३७० यावद भवेत् ।हैमरः कस्मिन्नपि समये प्रक्षेपकादग्रे न गच्छेदित्यपि तत्र निर्णेतव्यम् ।

हैमरप्रक्षेपःसम्पाद्यताम्

अन्तिमे चक्रे यथैव दक्षपादो वामपादस्य समीपमायाति, हैमरप्रक्षेपस्य कार्यमारभते । दक्षपादस्य भूमावागमनसमकालमेव वामपादं हैमरप्रक्षेपणदिशि भ्रामयन्ति । उभावपि ह्स्तौ सर्वथा सरलौ कटिश्चे षद्वलिता भवति तथा कटिभागस्यूपर्यत्थानक्रियया सह हैमरो वायौ प्रक्षिप्यते । तदा हस्तौ सरलौ सन्तौ स्कन्धयोरुपरि, पादयोः पृथव्याः सम्पर्कः दक्षः पादस्तलोपरि वामपादश्च सन्तुलनसिद्धयै हैमरक्षेपादनन्तरं पृष्ठे गच्छति ।

बलवदवपुषा भुजसारभृता, स्थिरभारधृता गतिरीतिमता
परिचङ्क्रमणप्रवणेन सदा, पदसन्तुलनावन-नीतिविदा ॥
कटि-हस्त-पदां वलनं दधता, भुवि ‘हैमर’ मत्र मुदा क्षिपता ।
जयलाभ इह त्वरितं क्रियते, शुचिकीर्तिततिश्च ततो व्रियते ॥

आधारःसम्पाद्यताम्

अभिनवक्रीडातरङ्गिणी

सम्बद्धाः लेखाःसम्पाद्यताम्