अष्टादशसु पुराणेषु अन्यतमं वर्तते वाराहपुराणम्(VarahaPurana) । इदं किञ्चन प्राचीनं पुराणम्। पुराणस्य पञ्च अपि लक्षणानि अत्र दृश्यन्ते।वराहरूपीनारायणः भूदेवीम् प्रति उक्तमिदं पुराणम् नारदपुराणे १०३ अध्याये वाराहपुराणस्य लक्षणम् एवम् उक्तम् अस्ति। भागद्वययुतं पुराणं भवति।

वराहपुराणम्  
लेखक वेदव्यास
देश भारत
भाषा संस्कृत
शृंखला पुराण
विषय विष्णुः
प्रकार वैष्णव ग्रन्थः
पृष्ठ २४,००० श्लोकाः

शृणु वत्स ! प्रवक्ष्यामि वाराहं वै पुराणकम्।
भागद्वययुतं शश्वद्विष्णुमाहात्म्यसूचकम्॥इति॥

महावराहस्य पुनर्माहात्म्यमधिकृत्य च।
विष्णुनाभिहितं क्षोण्यै तद्वाराहमिहोच्यते॥

मानवस्य प्रसङ्गेन कल्पस्य मुनिसत्तमाः।
चतुर्विंशसहस्राणि तत्पुराणमिहोच्यते॥

अस्मिन् पुराणे २४,००० सहस्र सङ्ख्याकाः श्लोकाः सन्ति। नारदपुराणे एवं मत्स्यपुराणेच २४,००० श्लोकाः सन्ति इति उल्लेखः अस्ति। किन्तु सध्यःकालीन ग्रन्थेषु १७,००० श्लोकाः लभ्यन्ते। अस्मिन् पुराणे व्रताणाम् विवरणानि सन्ति। तानि विष्णुविषयकानि व्रतानि भवन्ति। अस्मिन् महत्वपूर्णौ अंशौ भवतः। एकं मथुरामाहात्म्यम्, अत्र मथुरा तथा अन्यतीर्थक्षेत्राणाञ्च निरूपणं दृश्यते। अपरं नचिकेतोपाख्यानम्,दशावतारद्वादशीव्रथा,गोदान,शालग्रामपूजा, यमनचिकेतयोः संवादरूपात्मकाः कथाः लभ्यन्ते। एवं स्वर्गनरकयोः निरूपणं कृतं दृश्यते। कठोपनिषदि विद्यमानानां कथानां छायाः दृश्यन्ते।

अन्तर्विषयाः

सम्पादयतु

अस्मिन् वाराहपुराणे २१७, २१८ अध्यायाः सन्ति। उत्तरार्दम्, पूर्वार्दम् इति विभागद्वये विभक्तम् अस्ति इति नारदपुराणे उल्लेखः अस्ति।

व्रतानि

सम्पादयतु
मत्स्यद्वादशिव्रतम् कूर्मद्वादशिव्रतम्
वराहद्वादशिव्रतम् नृसिंहद्वादशिव्रतम्
वामनद्वादशिव्रतम् जमदग्निद्वादशिव्रतम्
कल्किद्वादशिव्रतम् पद्मनाभद्वादशिव्रतम्
बुद्धद्वादशिव्रतम् धरणीव्रतम्
शुभव्रतम् धान्यव्रतम्
कान्तिव्रतम् सौभाग्यव्रतम्
अविघ्नव्रतम् कामव्रतम्
आरोग्यव्रतम् पुत्रप्राप्तिव्रतम्
शौर्यसार्वभौमव्रतम्
  • तिलधेनुदानम्
  • जलधेनुदानम्
  • रसधेनुदानम्
  • गुडधेनुदानम्
  • शर्कराधेनुदानम्

बाह्यसम्पर्कतन्तुः

सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=वराहपुराणम्&oldid=271192" इत्यस्माद् प्रतिप्राप्तम्