वाचस्पतिमिश्रः
वाचस्पतिमिश्रः दर्शनशास्त्रस्य विद्वान् आसीत्। सः मिथिलाप्रदेशस्य निवासी आसीत्।
श्रीवाचस्पतिमिश्रस्य जीवनचरित्रम्
सम्पादयतुप्रदर्शनस्य मान्योऽयमाचार्यः सर्वतन्त्रस्वतन्त्रः श्रीवाचस्पतिमिश्रा 'मिथिला'देशनिवास्यासीदिति श्रूयते। भारतीयेषु सर्वेष्वेव दर्शनेषु श्रीवाचस्पति मिश्रस्याऽलौकिकमद्भुतं प्रनिधाभास्वरमप्रतिहतगतिक पाण्डित्यमासीदिति सर्वेऽपि विद्वांसो विशेषतो दार्शनिकाश्च विदाकुर्वन्तीति नहि तिरोहितमस्ति केषामपि विदुषाम् ।
वैदिकदार्शनिकसम्प्रदाये नास्ति कोऽप्येवंभूतः सम्प्रदायो यस्मिन् सम्प्रदाये ऽस्य महानुभावस्य श्रीवाचस्पतिमिश्रस्य कश्चिन्महत्त्वपूर्णो ग्रन्थो न भवेन्नापि च मिलेदिति ।
श्रीमिश्रस्य जीवनं सर्वथा सुजीवनमासीद् व्यक्तित्वञ्च तदीयमतीव वन्द्यं प्रशस्तरं चासीदिति चापि सर्वे विद्वांसो दार्शनिका जानन्ति । सांख्यतत्त्वकौमुद्या अन्तिमे भागे लिखितमस्ति यत् -
'मनांसि कुमुदानीव बोधयन्ती सतां सदा ।
श्रीवाचस्पतिमिश्राणां कृतिः स्यात्तत्त्वकौमुदी' ॥
सांख्यतत्त्वकौमुद्यामेव प्रमाणप्रकरणे एवेत्यपि लिखितमस्ति यत् -
'सर्वञ्चैतदस्माभिर्यायवात्तिकतात्पर्यटीकायां विचारितं नेहोक्तं विस्तरभयात्' ।
अपि च न्यायवात्तिकटीकायां तृतीयाऽध्याये द्वितीये आह्निके–'प्रपञ्चितं चैतदस्माभिर्ब्रह्मतत्त्वसमीक्षान्यायकलिकाभ्याम्' इति च लिखितमस्ति । 'तत्त्व विन्दु'नामके च ग्रन्थे– 'उपपादितं सर्वं न्यायकलिकायाम्' इति च सर्वं लिखित मस्ति । भामत्यामपि च 'विस्तरस्तु ब्रह्मतत्त्वसमीक्षायाम्' 'उपपादितञ्चैतद स्माभिविस्तरेण न्यायकलिकायाम्' इत्थं लिखितमस्ति । एवं भामतीग्रन्थस्यैव समाप्तावपीदं लिखितं विलोक्यते -
'यन्न्यायकलिका-तत्त्वसमीक्षा-तत्त्वबिन्दुभिः ।
यन्न्यायसांख्ययोगानां वेदान्तानां निबन्धनैः ।।
समये चैव महत् पुण्यं तत्फलं पुष्कलं मया ।
समर्पितमथैतेन . प्रीयतां परमेश्वरः' ।।
एतेषां ग्रन्थानां लेखनेनाऽवश्यं प्रतीयते यत् श्रोवाचस्पतिमिश्रस्य वैदुष्य मतीवोच्चकोटिकमासीत्, सर्वत्र च दर्शनेषु विस्तृतञ्चासीत् । अत एव श्रीमिश्रं षड्दर्शनस्य चाऽऽचार्य खल्विदानीमपि मन्यन्ते दार्शनिकास्तदीयां कृति विलोकयन्तः ।
भारतीये दार्शनिके जगति नाऽभूत् कोऽपि-एवम्भूतो महान् ज्ञानवान विद्वान् यश्च समस्तानां वैदिकदर्शनानामुपरि लेखनी समुत्थापितवान्, सम त्थापयितुं वा प्रयतेत ।
श्रीमिश्रो न्यायवात्तिकस्योपरि तात्पर्यटीकामपि लिखितवान् यश्च न्याय वात्तिकग्रन्थोऽतीवाऽपूर्वोऽयं महत्त्वपूर्णग्रन्थोऽभ्युपगम्यते । एवमेवाऽन्येऽपि तत्त. दर्शनानामुपरि षड्दर्शनाचार्यश्रीमिश्रस्य ग्रन्थाः समुपलभ्यन्ते । यथा-
१. न्यायशास्त्रे चास्ति-'न्यायतात्पर्यटीका'='न्यायसूची निबन्धः' ।
२. वेदान्ते—भामती, तत्त्वसमीक्षा अथवा ब्रह्मतत्त्वसमीक्षा ।
३. मीमांसायाम् -न्यायकणिका तथा तत्त्वबिन्दुः ।
४. सांख्यशास्त्रे च–सांख्यतत्त्वकौमुदी।
५. योगदर्शने चास्ति-तत्त्ववैशारदी ( योगभाष्योपरि टीका )।
षड्दर्शनाचार्यश्रीवाचस्पतिमिश्रस्य बाल्यावस्थात्मककालीनेतिहासोऽत्य न्तमेवाऽर्थविहीन आसीत् । अयञ्च श्रीमिश्र एतादृशीमर्थविहीनावस्थां गतप्राय आसीत् यदस्य जननवेलायां नाभिस्थानीय 'नाले'ति छेदनकाः 'भङ्गिन' इत्याख्यायाः शूद्रत्वजात्यवच्छिन्नाया योषितः कृते प्रदातुं पणकादिक, कपर्दिका पर्यन्तमपि नासीत् । तदानीं श्रीमिश्रस्य . जननीदमेव व्याहृतवती यदस्य बालकस्य प्राथमिकं यदपि समुपार्जनं भविष्यति मिलिष्यति वा तत्तुभ्यमेवा ऽखिलं दास्ये।
तदनन्तरमस्य श्रीमिश्रस्य केनचिद् राजपण्डितेन साधं राज्ञ एव समक्षे शास्त्रार्थाऽपरपर्यायभूता प्रभूता शास्त्रचर्चा जाता। तदा राजपण्डितस्य परा जयनिमित्तीभूतः सर्वोऽपि पुरस्कारस्तस्यै योषिते 'भङ्गिन' इत्याख्यायै खलु प्रदत्तवान् ।
तदनन्तरमस्य श्रीमिश्रस्य तन्नामधेयसहितं तदीयं तद्वयक्तित्वं महतीं ख्याति गतमभूत्, विश्वख्यातिञ्च समवाप्नोति स्म । श्रूयते श्रीमिश्रोपाह्वो वाचस्पतिर्यदा ब्रह्मसूत्र-शाङ्करभाष्योपरि टीकां 'भामती' लिखितवानासीत्तदा लेखनकाल एवैकदा दिने दीपस्य वत्तिका खलु प्रायोऽस्तंगताऽऽसीत् । आचार्यः श्रीवाचस्पतिमिश्रश्चिन्तयति यत् पूर्वं वत्तिकां पूरयामि आहोस्वित् पङ्क्तिमिति चिन्तासन्तानपरायणस्य तस्याऽऽचार्यप्रवरश्रीमिश्रस्य दीपत्तिका प्रायोऽस्तं गताऽऽसीदेवेति तदानीमेव तादशनाटकावलोकनकूतहलकूशला श्रीआचार्यधर्म पत्नी सौभाग्यसम्पन्ना श्रीभामती दीपत्ति कामग्रे सारयति स्म ।
प्रश्न:- एतावत्येव काले श्रीमिश्र ऊर्ध्वदिशि चक्षुरुत्थाय पश्यति, पृच्छति च स्वीयां धर्मपत्नीं यद्-हे देवि ! काऽसि त्वम् ?
उत्तरम्-- भवतामेवास्मि धर्मपत्नी 'भामती'त्यभिधाना ।
श्रीमिश्रो ब्रूते-देवि ! त्वयोपकृतोऽस्मि, सर्वथा भारभूतोऽस्मीति त्वदीयं नामधेयस्याहमपि संसारेऽस्मिन्नजरताममरताञ्च प्रापयाभि । अत एव ब्रह्मसूत्र शाङ्करभाष्योपरि विहितायाष्टीकाया नामकरणं श्रीमिश्रो 'भामती'त्येव कृतवान् ।
यथा-पक्षधर मिश्रः, पार्थसारथिमिश्रः, मण्डनमिश्रः, मुरारिमिश्रश्चेत्येव मादयो विद्वांसो मिथिलादेशवासिन आसन्, तथा मिश्रान्तः श्रीवाचस्पतिरपि मिथिलादेशनिवास्यासीदिति नूनं विभाव्यताम् । अस्य च आचार्यपादश्रीमिश्रस्य पूज्यचरणो गुरुः श्रीत्रिलोचनमिश्रनामधेय आसीदित्यपि विदाकुर्वन्तु भवन्तः ।
श्रीमिश्रस्य समयोल्लेखः
सम्पादयतुश्रीवाचस्पतिमिश्रस्य समयोल्लेखस्तन्निर्णयो वा तदीय 'न्यायसूचीनिबन्ध' नामकेनैव अन्थेन सर्वथा सुस्पष्टीकृतो भवति । तत्रास्ति स्वयं श्रीमिश्रो ल्लिखितमेकं पद्यम् -
'न्यायसूचीनिबन्धोऽयमकारि विदुषां मुदे ।
श्रीवाचस्पतिमिश्रेण वस्वङ्कवसुवत्सरे' ॥
इति वचनानुसारतः श्रीवाचस्पतिमिश्रस्य समयोल्लेखोऽष्टमशताब्द्याः अन्तिमो भागः, नवमशताब्द्याः प्रथमो वा भागः प्रतीयते ।
एवं सर्वेषामेव दार्शनिकविदुषां यदा न्यायवात्तिकस्थगूढार्थविषयकं ज्ञानं महदेव दुष्करं कठिनञ्चाऽभवत्तदा 'भारद्वाज'-नामापरपर्यायभूतोद्योतकराऽभि धानवतो व्यक्तिविशेषस्य 'अतिजरती' वाण्या मर्माऽवबोधयितुं श्रीवाचस्पति मिश्रस्तदुपरि 'तात्पर्य' नाम्नी टीकां कृतवान् ।
अस्या एव टीकायाः प्रभावेनैव खलु श्रीवाचस्पतिमिश्रो न्यायशास्त्रस्य प्रमेयभूतपदार्थाऽवबोधने तथा न्यायशास्त्रीयभाष्योपरि विहितन्यायवात्तिकस्य गूढ रहस्याऽवबोधने पूर्ण साफल्यं समवाप्य न्याये जगति 'तात्पर्याचार्य' नाम्ना प्रसिद्धिं लभमानो वैदिकदार्शनिकसमुदायेऽसाधारणी विख्यातिञ्च प्राप्तवान् । अयञ्च षड्दर्शनाचार्यः श्रीमिश्रोऽलौकिकपाण्डित्यसम्पत्त्यवच्छिन्नत्वाऽवच्छिन्नः सन् सर्वतन्त्रस्वतन्त्रोऽभूदिति नहि केषामपि विदुषामविदितोऽयं विषयः ।
विशेषम्
सम्पादयतुदेश-विदेह, मिथिला, कालः १००-१८० भारतीयदर्शननेशु वेदान्तदर्शनं मुकुटप्रायम्। तत्रापि अद्वैतसिद्धान्तः भारतदेशे विदेशेषु च प्रथते। स च सिद्धान्तः बादरणसुत्रग्राहेहिभिः परमपूज्यैः श्री शङ्कभगवत्पादैः साक्षात्कृत्य सार्वत्र प्रसारितः व्याख्यान कृतम्। तत्पश्चात् अनेकैः विद्वभिः परिवाजकै च शाङ्करसिद्धान्तः जनमानसे स्थरीकृतः। शङ्करोत्तरादैव्तसिद्धान्तप्रचारकेषु परं प्रसिदि आप्ताः वाचस्पतिमिश्राः। यद्यपि एतेषां विषये स्पष्टः विचार नोपलभ्यते। तथापि विमर्शकाः लब्धप्रमाणानि प्ररामृश्य एते नवमशतकस्य मध्यभागे मिथिलानगरे व्यरजन्त इति वदन्ति । संस्क्तसाहित्याव्लोक्कने मिषेति उपाह्व्युताः बह्वः अत्तिपथमायान्ति । तन्त्रपुराणधर्मशास्त्र-ज्योतिषसांख्ययोगादि नानाविधविचारग्रन्थाःएषां वेदान्तमतानुयायिनां मिश्राणां नाम्नि एव सन्ति । एते वाचस्पतिमिश्राः शाङ्करसूत्राभाष्यं प्रौढरीत्या व्याचत्तुः। तस्य व्याख्यानस्य नाम भामतीति। तस्य व्याख्यानं तादृशी प्रख्यातिम् अलभत यथा ”भामतीकाराः” इत्येवं ख्यातिं लेभिरे। एतेषां पाण्डित्यम् असदृशं प्रखरं च आसीत् । सर्वदर्शनविषयाः एतैः स्पृष्टाः। अतः एव एतान् “षड्दर्शनटीककृदाचार्याः” “द्वादशदर्शनकाननपंचाननाः” इति सुधियः स्तुवन्ति । एते मिथिलानगरस्य नृगराजस्य आस्थाने स्थित्वा नैकग्रन्थान् प्राणैषुः। त्रिलोचनाख्यान् विदुषुः मिश्राः स्वगुरुत्वेन् उररीच एतेषां विषये एका रोचककथा श्रुतिपथम् आयाति । एते सूत्रभाष्यव्याख्यानलेख्यानकाले सम्पूर्णतया विचारे निमग्नाः। ऊढाः ते पत्नीं गृहं समस्तऎहिकसुखानि विस्मृत्य शाङ्करान्तरङ्गाः भूत्वा व्याख्यानलेखनपरा अवर्तन्त। पत्नी तु साध्वी पतिपरायणा बहुवर्षपर्यन्तं तान् असेवत्। ग्रन्थसमापतौ पुनः ऎहिकलोकमागताः ते पत्नीन् अभिज्ञातवन्तः बहुवत्सरपर्यन्तं कृतां तस्याः सेवां पुरस्कृत्य तस्याः नाम एव स्वव्याख्यानस्य नाम कृतवन्तः भामतीति। एभिः रचिताः ग्रन्थाः १. न्यायकणिका-श्री मण्डनमिश्रैः लिखितस्य विधिविवेक ग्रन्थस्य व्याख्यानम्। २. तत्वबिन्दुः_कुमारिलभट्ट्स्य शाब्दबोधप्रकारस्य विवरणम्। ३. न्यायवार्तिकतात्पर्यटीका-उध्योतकरस्य वात्स्यायनभाष्यवार्तिकस्य व्याख्यानम्। ४. न्यायसूचीनिबन्धः-न्यायशास्त्रविषयक ग्रन्थः। ५. साख्यतत्तवकौमुदी-ईश्वरकृष्णकृत सांख्यकारिकायाः व्याख्यानम्। ६. तत्तव शारदी-व्यासकृत योगसूत्रभाष्यस्य व्याख्यानम् ।
सर्वतन्त्रस्वतन्त्रधिषणोऽयम् उद्द्योतकाराद् अधस्तनः उदयनाद् ऊर्ध्वतनः । यस्माद्वाचस्पतिना उद्योतकरकृतस्य न्यायभाष्यवार्तिकेस्योपरि न्यायवार्तिकतात्पर्यमकारि, उदयनेन तु तदुपरि न्यायवार्तिकतात्पर्यपरिशुध्दिरकारीति । विद्यावस्पतिना वाचस्पतिना खप्रणीतग्रन्थ ब्रह्मसूत्रशारीरकभाष्यस्य भामत्यन्ते निर्दिष्टाः –
- यत्र्यायकणिकातत्त्वसमीक्षातत्त्वबिन्दुभिः ।
- यन्न्यायसांख्ययोगानां वेदान्तानां निबन्धनैः ॥
- समचैषं महत्पुण्यं तफलं पुष्कलं मया ।
- समर्पितमथैतेन प्रीयतां परमेश्वरः ॥
खण्डनोध्दारकृद् वाचस्पतिमिश्रस्त्वस्माद्बिन्नो नवीनश्च । खण्डनोध्दारः श्रीहर्षप्रणीतं खण्डनखण्डखाद्यं लक्ष्मीकृत्य कृतो वाचस्पतिना । श्रीहर्षस्तूदयनादधस्तनः । यस्माद् उदयनाचार्यकृतस्य न्यायकुसुमाञ्जलेः –
- शङ्का चेदनुमास्त्येव न चेच्छङ्का ततस्तराम् ।
- व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ॥
इति कारिकैव श्रीहर्षेण खण्डनखाद्ये –
- तस्मादस्माभिरप्यस्मिन्नर्थे न खलु दुष्पठा ।
- त्वद्गाथैवान्यथाकारमक्षराणि कियन्त्यपि ॥
- व्याघातो यदि शङकास्ति न चेच्छङ्का ततस्तराम् ।
- व्याघातावधिराशङ्का तर्कः शङ्कावधिः कुतः ॥
इत्येवं कटाक्षिता । सोऽयं तत्त्वचिन्तामणिकाराद् गङ्गेशरादप्यधस्तनो यस्मात्खण्डनखण्डखाद्ये –
- धीधना बाधनायास्यास्तदा प्रज्ञां प्रयच्छथ ।
- क्षेप्तुं चिन्तामणिं पाणिलब्धमब्धौ यदीच्छथ ॥’
इति पठ्यते । सोऽयं श्रीहर्षः खण्डनखाद्ये नैषधीयचरिते चात्मानं कान्यकुब्जेश्वरसभायामार्णयत् । तदा कालकलनया महोदयापरनाम्नः कान्यकुब्जनगरस्य कान्यकुब्जदेशस्य वा विद्वद्विहंगमाबासकल्पषादपायितेष्वधिपतिषु महाराजो बिजयचन्द्रस्तत्सूनुर्जयचन्द्रो वा संभवति । यस्मात्त्समयस्तदीयदानपत्रात् पश्चविंशत्यधिकद्वादशशतसंवत्सरः १२२५ (इण्डियन् आण्टिक्वेरी १५-७८८)। नैषधीयचरितस्य पश्चमसर्गान्ते कीर्तिता विजयप्रशस्तिः कदाचित्कान्यकुब्जेश्वारस्य विजयचन्द्रस्यैव भवेत् । श्रीहर्षस्य पिता हीरः (हीरा) माता मामह्लदेवी (मामला) देशो जातिश्छ कान्यकुब्जेः (कतबजिया ) । एतद्वंश्याः कतिपयेऽधुना वङ्गेषु निवसन्तः स्वस्यामिजनं कान्यकुब्जं, खपूर्वपुरुषं श्रीहर्ष च कथयन्तीति सुप्रसिध्दम् ॥
""