विदिशामण्डलम्
विदिशामण्डलम् ( ( शृणु) /ˈvɪdɪʃɑːməndələm/) (हिन्दी: विदिशा जिला, आङ्ग्ल: Vidisha district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य भोपालविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति विदिशा इति नगरम् ।
विदिशामण्डलम् Vidisha District | |
---|---|
विदिशा जिला | |
विदिशामण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे विदिशामण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | विदिशा, सिरोज, कुरवाई, लटेरी, शमशाबाद, नाटेरा, बासोदा, टिवण्डा, गुलाबगञ्ज, ग्यारसपुर |
विस्तारः | ७,३७१ च. कि. मी. |
जनसङ्ख्या (२०११) | १४,५८,८७५ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ७०.५३% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४४.५% |
Website | http://www.vidisha.nic.in/ |
भौगोलिकम्
सम्पादयतुविदिशामण्डलस्य विस्तारः ७,३७१ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सागरमण्डलं, पश्चिमे भोपालमण्डलम्, उत्तरे अशोकनगरमण्डलं, दक्षिणे रायसेनमण्डलम् अस्ति । अस्मिन् मण्डले बेटवानदी, सिन्धनदी च प्रवहति ।
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणं विदिशामण्डलस्य जनसङ्ख्या १४,५८,८७५ अस्ति । अत्र ७,६९,५६८ पुरुषाः, ६,८९,३०७ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९८ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०.०९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८९६ अस्ति । अत्र साक्षरता ७०.५३% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- विदिशा, सिरोज, कुरवाई, लटेरी, शमशाबाद, नाटेरा, बासोदा, टिवण्डा, गुलाबगञ्ज, ग्यारसपुर ।
वीक्षणीयस्थलानि
सम्पादयतुउदयगिरि-गुहा
सम्पादयतुउदयगिरि-गुहा पर्वतात् निर्मिता अस्ति । इदं स्थलं विदिशा-नगरात् ६ कि. मी. दूरे स्थितमस्ति । इदं स्थलं बेस एवं बेटवा इत्येतयोः नद्योर्मध्ये स्थितमस्ति । अत्र बहूनि मन्दिराणि अपि सन्ति । एतानि मन्दिराणि उदयगिरिमन्दिराणि इति कथ्यन्ते । इदं स्थलं प्राकृतिकसौन्दर्ययुक्तम् अस्ति । पर्यटकाः भ्रमणार्थं तत्र गच्छन्ति ।
उदयेश्वर-मन्दिरम्
सम्पादयतुउदयेश्वर-मन्दिरं बासोदा-उपमण्डलस्य उदयपुर-ग्रामे स्थितमस्ति । अस्मिन् मन्दिरे एकः प्राचीनसंस्कृतशिलालेखः अस्ति । उदयपुर-ग्रामः परमार-वंशीयेन राज्ञा उदयादित्येन अन्वेषितः । सिंरोज नगरस्य समीपं सेमरखेड़ी दर्शनीय अस्ति ।तै एक तीर्थस्थलं अस्ति। |Center = विदिशामण्डलम् |East = सागरमण्डलम् |West = भोपालमण्डलम् |North = अशोकनगरमण्डलम् |South = रायसेनमण्डलम् }}
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये विदिशामण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://www.vidisha.nic.in/ Archived २०१०-०९-१८ at the Wayback Machine
http://www.census2011.co.in/census/district/310-vidisha.html