वियोगिनिच्छन्दः

छन्दांसि


लक्षणम् सम्पादयतु

विषमे ससजाः गुरुः समे सभरा लोऽथ गुरुर्वियोगिनी।

अर्थात्- यस्मिन् पद्ये विषमे पादे अर्थात् प्रथमे तृतीये च पादे क्रमेण सगणद्वयम्, एकः जगणः, एकः गुरुः एते भवन्ति तथा च समे पादे अर्थात् द्वितीये चतुर्थे च पादे क्रमेण एकः सगणः, एकः भगणः, एकः रगणः, एकः लघु तथा च एकः गुरुर्भवति तदा वियोगिनीछन्दः भवति।

उदाहरणम् सम्पादयतु

सुहृदामुपकारकारणाद् द्विषदामप्यपकारकारणात्।
नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम्।।

अर्थः सम्पादयतु

मित्राणाम् उपकारार्थं शत्रूणाम् अपकारार्थं च बुधैः नृपसंश्रयः इष्यते, जगत्यस्मिन् केवलं जठरं को न बिभर्ति ? अर्थात् स्व-उदरं तु सर्वेऽपि जनाः बिभरति।

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=वियोगिनिच्छन्दः&oldid=409006" इत्यस्माद् प्रतिप्राप्तम्