विरजादेवी (जाजपुरम् ) एतत् शक्तिपीठं भारतस्य ओरिस्साराज्ये स्थिते प्रख्याते जगन्नाथक्षेत्रे पुर्यां अस्ति।

सम्पर्कः सम्पादयतु

देशस्य नानाभागेभ्यः सम्पर्कः अस्ति । ओडिश्शाराज्यस्य राजधान्याः भुवनेश्वरतः सर्वदा अनेकविधवाहनानि उपलभ्यन्ते । समीपस्थविमानस्थानकं भुवनेश्वरम् अस्ति ।

वैशिष्ट्यम् सम्पादयतु

पुर्याः जगन्नाथरथयात्रा विश्वप्रसिद्धा अस्ति । अत्र सप्तमातृकादेवालयः अस्ति । केचन एतत् एव शक्तिपीठं मन्वते । विमलादेवालयः एव शक्तिपीठम् इति अन्ये केचन प्रतिपादयन्ति । अन्ये केचन जाजपुरे विद्यमानं विरजादेवीमन्दिरम् एव शक्तिपीठम् इति वदन्ति । अत्रत्या देवी विरजानाम्ना पूज्यते । ऐतिह्यानुसारम् अत्र सतीदेव्याः नाभिभागः पतितः इति विश्वासः । अतः एतस्य मेखलाक्षेत्रम् इति अपि नाम अस्ति । अत्रत्यशिवः जगन्नाथनाम्ना पूज्यते ।

"https://sa.wikipedia.org/w/index.php?title=विरजादेवी_(जाजपुरम्)&oldid=367534" इत्यस्माद् प्रतिप्राप्तम्