विराट् कोहली
विराट् कोहली ( ( शृणु) /ˈvɪrɑːt koʊhəliː/) (हिन्दी: विराट कोहली, आङ्ग्ल: Virat Kohli) भारतदेशस्य क्रिकेट-क्रीडायाः कश्चित् क्रिडापटुः । तेन अनेके पुरस्काराः प्राप्ताः । तेषु अर्जुनपुरस्कारः, 'पीपल्स् चाय्स्'-पुरस्कारः च अन्तर्भवतः । एषः २००८ तमे वर्षे भारतस्य एकोनविंशतिवर्षेभ्यः लघुवयस्कानां क्रिकेट्-दलस्य नायकः आसीत् । तस्य नेतृत्वे भारतेन विश्ववैजन्ती स्वायत्तीकृता । तथा च 'इण्डियन् प्रिमियर् लीग्'-क्रीडायां 'रोयल् चेलेन्जरस् बैंगलोर'-नामकस्य दलस्य नायकः आसीत् एषः । विराट् भारतस्य लोकप्रियः क्रीडालुः वर्तते । क्रिकेट्-क्रीडा इव टेन्निस्-क्रीडा अपि तस्मै बहु रोचते । तस्य प्रियक्रीडापटुः राजर् फेडरर् वर्तते [१] । प्रथमश्रेण्याः क्रिकेट-क्रीडायां विराट् देहली-दलस्य प्रतिनिधित्वं करोति । http://Vishaloppo.blogspot.com
वैय्यक्तिकपरिचयः | ||||
---|---|---|---|---|
सम्पूर्णनाम | विराट कोहली | |||
जन्म | देहली, भारतम् | ५ १९८८|||
प्रसिद्धनामानि | विराटः | |||
औन्नत्यम् | ५ फ़ुट ६ इंच (१.६८ मी) | |||
ताडनशैली | दक्षिणहस्ती | |||
कन्दुकक्षेपणशैली | दक्षिणहस्तेन | |||
पात्रम् | भुजयाष्टिकः (बल्लेबाज) | |||
अन्ताराष्ट्रियविवरणानि | ||||
राष्ट्रम् | भारतम् | |||
प्रथमटेस्ट् (cap 268) | 20 जून 2011 v वेस्ट इण्डिज | |||
अन्तिमटेस्ट् | 3 सितम्बर 2012 v न्यूजीलैण्ड् | |||
प्रथम-ओ डि ऐ(cap 175) | 18 अगस्त 2008 v श्रीलङ्का | |||
अन्तिम-ओ डि ऐ | 31 जुलाई 2012 v श्रीलङ्का | |||
गृह्यगणविवरणानि | ||||
वर्षम् | गणः | |||
2006–साम्प्रतम् | देहली | |||
2008–साम्प्रतम् | रॉयल् चैलेञ्जर्स बेङ्गळुरु | |||
वृत्तिजीवनस्य सांख्यिकी | ||||
स्पर्धा | टेस्ट | एकदिवसीया अन्ताराष्ट्रियक्रीडा | प्रथमश्रेण्याः याष्टिकः | ऍलए |
क्रीडाः | 32 | 146 | 107 | 120 |
प्राप्ताः धावनाङ्काः | 2300 | 6208 | 5632 | 5,214 |
सामान्यताडनानि | 44.23 | 52.61 | 30.96 | 51.62 |
१००s/५०s | 9/9 | 22/33 | 8/11 | 17/28 |
श्रेष्ठाङ्कः | 169 | 183 | 197 | 183 |
Balls bowled | 66 | 411 | 534 | 344 |
विकेट् | 0 | 2 | 3 | 2 |
बोलिङ्ग् | – | 210.50 | 96.33 | 162.50 |
५ विकेट् (एकस्मिन् इनिङ्गस्) | 0 | 0 | 0 | 0 |
१० विकेट् (एकास्यां स्पर्धायाम्) | 0 | n/a | 0 | n/a |
श्रेष्ठबोलिङ्ग् | n/a | 1/20 | 1/19 | 1/20 |
क्याच्/स्टाम्पिङ्ग् | 14/– | 49/– | 37/– | 64/– |
Source: [स्रोतः], 3 सितम्बर 2012 |
क्रिकेट्-क्रीडायां योगदानम्
सम्पादयतुविराट् मध्यमीयः याष्टिकः, मध्यमगत्याः कन्दुकक्षेपकः च अस्ति [२] । सः प्रथमश्रेण्याः क्रिकेट-दले देहली-महानगरस्य प्रतिनिधित्वं करोति । 'इण्डियन् प्रीमियर् लीग्'-क्रीडायां 'रॉयल् चैलेञ्जर्स् बङ्गळुरु'-दलस्य नायकः अस्ति [३] । विराट् दक्षिणदेहली अकादमी-दले अपि क्रीडति स्म । विराट् भारतीययाष्टिकेषु सर्वापेक्षया शीघ्रतया शतधावानाङ्ककर्ता अस्ति । २००८ तमे वर्षे विराट् अन्ताराष्ट्रिय-क्रिकेट्-क्रीडायाः (एकदिवसीयक्रीडा) क्रीडकः अभवत् । २०११ तमे वर्षे विश्वचषकविजेतृदले विराट् अपि क्रीडाकः आसीत् । विराट् किङ्ग्सटन्-मध्ये वेस्टइण्डिज-देशस्य विरुद्धं २०११ तमे वर्षे स्वस्य प्रप्रथमां निकषस्पर्धाम् अक्रीडत् । विराट् २०१२ तमे वर्षे 'आईसीसी'- एकदिवसीयक्रीडालुपुरस्कारस्य विजेता अभवत् । २०१३ तमस्य वर्षस्य नवम्बर-मासे विराट् प्रप्रथमम् एकदिवसीयक्रीडायाः प्रथमकमाङ्कस्य क्रीडकः अभवत् [४] ।
जन्म, परिवारश्च
सम्पादयतु१९८८ तमस्य वर्षस्य नवम्बर-मासस्य पञ्चमे (५/११/१९८८) दिनाङ्के भारतस्य देहली-महानगरे अभवत् [५] । तस्य पितुः नाम प्रेम, तस्य मातुश्च नाम सरोज अस्ति [६] । प्रेमवर्यः वाक्कीलः, सरोजवर्या गृहिणी च आसीत् । २००६ तमस्य वर्षस्य दिसम्बर-मासे विराजः पिता दिवङ्गतः । तस्य एकः अग्रजः विकासः, एका अनुजा भावना च वर्तेते । देहली-महानगरस्य विशालभारती-नामके विद्यालये सः अध्ययनम् अकरोत् [७] ।
क्रीडायाः आरम्भः
सम्पादयतुविराजः क्रिकेट्-क्रीडायाः आरम्भेषु [८] दिनेषु यदा स्वस्य पितुः निधनदिनेऽपि देहली-पक्षतः कर्णाटक-राज्यविरुद्धं रणजी-जयस्तम्भाय (trophy) क्रीडन् आसीत्, तदा तस्य निष्ठया प्रभाविताः पत्रकाराः समाचारपत्रेषु, समाचारप्रणालिषु (news channel) च विराजः उल्लेखम् अकुर्वन् । विराट् मलेशिया-देशे आयोजिते २००८ तमस्य वर्षस्य नवदशवयस्कात् लघु-क्रिकेट-क्रीडकानां विश्वचषके विजयिभारतीयदलस्य नायकः आसीत् । चतुर्थे क्रमाङ्के क्रीडन् सः सप्तचत्वारिंशत्प्रतिशतेन (४७) षड्स्पर्धासु द्विशताधिकपञ्चत्रिंशद्धावनाङ्कान् अकरोत् । तेषु धावनाङ्केषु वेस्टइण्डिज-देशस्य विरुद्धं कृतं शतकम् अपि अन्तर्भवति । खेलप्रतियोगितायां सः सधैर्यं क्रीडति । २००९ तमस्य वर्षस्य 'इमर्जिङ्ग् प्लेयर्स्-खेलप्रतियोगितायां विराट् ऑस्ट्रेलिया-देशस्य विरुद्धं भारतस्य विजये महत्त्वपूर्णां भूमिकाम् अवहत् । तस्याः प्रतियोगितायाः चरमस्पर्धायां दक्षिण-अफ्रीका-देशस्य विरुद्धं विराट् शतकम् अकरोत् । तस्यां स्पर्धायां भारतस्य सप्तदश (१७) धावनाङ्कैः विजयः अभवत् ।
अन्ताराष्ट्रियक्रीडायां वृत्तिः (career)
सम्पादयतु२००८ तमे वर्षे ऑस्ट्रेलिया-देशे 'इमर्जिङ्ग् प्लेयर्स्'-प्रतियोगितायां[९] शतकम् अकरोत् । ततः विराट् तस्मिन् एव वर्षे श्रीलङ्कायाः यात्रायै भारतस्य एकदिवसीयक्रीडादलस्य क्रीडालुत्वेन चितः । तदा सचिन तेण्डुलकर, वीरेन्द्र सहवाग च आहतौ आस्ताम् । २००८ तमे वर्षे 'आइडिया'-चषकाय श्रीलङ्का-देशस्य विरुद्धम् एकदिवसीयया अन्ताराष्ट्रियस्पर्धया विराजा स्वस्य अन्ताराष्ट्रियवृत्तेः (International Career) आरम्भः कृतः ।
स्वस्य प्रप्रथमायां स्पर्धायां सः द्वादशधावनाङ्कान् कृत्वैव 'रन् आउट्' अभवत् । तस्याः प्रतियोगितायाः चतुर्थ्यां स्पर्धायां विराट् अर्धशतकम् अकरोत् । तस्यां स्पर्धायां तस्य धावनाङ्काः चतुःपञ्चाशत् (५४) आसन् । भारतस्य तस्यां प्रतियोगितायां विजयः अपि अभवत् ।
क्रीडावेलायां युवराजेन विराट् अकस्मात् आहतोऽभवत् । ततः २००९ तमे वर्षे 'आईसीसी चैम्पियन्स्'-जयस्तम्भप्रतियोगितायां सः भागम् अवहत् । २००९ तमे वर्षे सः नियततया एकदिवसीयक्रीडालत्वेन निश्चितः अभवत् । ऑस्ट्रेलिया-देशेन सह भारते आयोज्यमानायां प्रतियोगितायां युवराजस्य पुनःक्रीडारम्भेण विराट् तस्यां श्रृङ्खलायाम् अधिकायां स्पर्धायां भागं वोढुं न शक्तवान् । परन्तु तस्याः श्रृङ्खलायाः चतर्थ्यां स्पर्धायां तेन स्वस्य प्रप्रथमं शतकं कृतम् । तस्यां स्पर्धायां तृतीये क्रमे विराट-गौतमयोः २२४ धावनाङ्कानां सहयोगः आसीत् । तस्यां श्रृङ्खलायां भारतस्य ३-१ अन्तरेण विजयः अभवत् ।
विराट् २०१० तमस्य वर्षस्य जून-मासे जिम्बाब्वे-देशे त्रिकोणस्पर्धायां भागम् अवहत् । तस्यां स्पर्धायां जिम्बाब्वे, श्रीलङ्का, भारतं च त्रिकोणियस्पर्धाम् अकुर्वन् । तस्यां श्रृङ्खलायां जिम्बाब्वे-श्रीलङ्का-देशयोः विरुद्धं सः दलस्य उपनायकत्वेन नियुक्तः अभवत् । तस्यां श्रृङ्खलायामेव विराट् एकदिवसीयक्रीडायाः शीघ्रतया एकसहस्रधावनाङ्ककर्ता भारतीयः क्रीडकः अभवत् [१०] । विराट् ४७.३८ प्रतिशतेन पञ्चविंशत्यां (२५) स्पर्धासु नवशताधिकपञ्चनवतिः (९९५) धावनाङ्कान् अकरोत् । तेषु धावनाङअकेषु त्रीणि (३) शतकानि अन्तर्भवन्ति । २०१० तमे वर्षे विराट् भारतस्य क्रीडकेषु अधिकधावनाङ्ककर्ता क्रीडकः आसीत् । २०१० तमस्य वर्षस्य जून-मासे जिम्बाब्वे-देशस्य विरुद्धं T20 श्रृङ्खलायां भारतीयदले विराट् अपि आसीत् ।
निकषस्पर्धायाः (Test Match) आरम्भः
सम्पादयतु२०११ तमस्य वर्षस्य जून-मासे, जुलाई-मासे च भारतीयदलस्य वेस्टइण्डिज-देशेन सह श्रृङ्खलायाः आयोजनम् आसीत् । तस्यां श्रृङ्खलायां सचिन तेन्दुलकर विश्रामं स्वीकृतवान् । गौतमः, वीरेन्द्रश्च आहतौ आस्ताम् । अतः नवीनानां त्रयाणां क्रीडकाणां प्रवेशोऽनुमतः । तेषु त्रिषु विराट् अपि अन्यतमः आसीत् । भारतेन सा निकषश्रृङ्खला १-० अन्तरेण विजीता । परन्तु विराट् निकषस्पर्धायाः प्रारूपे तेन बहुः सङ्घर्षः कृतः । मुख्यरूपेण सः पञ्चसु स्पर्धासु (५) भागम् अवहत् । तासु पञ्चस्पर्धासु तेन केवलं षड्सप्ततिः (७६) धावनाङ्काः कृताः । तस्यां श्रृङ्खलायां विराजः मुख्यसमस्या आसीत् वेगेन कन्दुकक्षेपकः फिडेल एडवर्ड्स् । सः वारत्रयं विराजं बहिः (Out) अकरोत् ।
२०११ तमस्य वर्षस्य इङ्ग्लैण्ड-श्रृङ्खला
सम्पादयतु२०११ तमस्य वर्षस्य जुलाई-मासस्य इङ्ग्लैण्ड-श्रृङ्खलायाम्[११] इङ्ग्लैण्ड्-देशस्य विरुद्धं भारतस्य चतस्रः निकषस्पर्धाः आसन् । परन्तु पूर्वकृतेन न्यूनधावकाङ्केन विराजः चयनं भारतीयदले नाभवत् । ततः युवराजः आहतः अभवत् । अतः विराजः दले प्रवेशः अभवत् । परन्तु सः एकस्याम् अपि स्पर्धायाम् अक्रीडत् । ततः एकदिवसीयस्पर्धायां सः अक्रीडत् । परन्तु तस्यां श्रृङ्खलायां ३-० अन्तरेण भारतस्य पराजयः अभवत् । पञ्चस्पर्धायाम् एकशताधिकचतुर्नवतिः (१९४) धावनाङ्काः विराजा कृताः । तेषु धावनाङ्केषु एकं शतकम् अपि अन्तर्भवति । तस्मिन् एव वर्षे अक्तूबर-मासे इङ्ग्लैण्ड-देशस्य दलं भारतस्य प्रवासार्थं गतम् । एवम् इङ्ग्लैण्ड-भारतदेशयोः मध्ये द्वितीयश्रृङ्खलायाः आयोजनम् अभवत् । तस्यां श्रृङ्खलायां पञ्चैकदिवसीयस्पर्धायाः आसन् । तासु पञ्चस्पर्धासु भारतस्य ५-० अन्तरेण विजयः अभवत् । विराजा पञ्चस्पर्धासु द्विशताधिकसप्ततिः (२७०) आवनाङ्काः कृता । तस्यां श्रृङ्खलायां विराट् सर्वाधिकधावनाङ्ककर्ता क्रीडालुः आसीत् । तेन तस्याः श्रृङ्खलायाः एकस्यां स्पर्धायाम् एकशताधिकद्वादश (११२) धावनाङ्कानाः कृताः ।
२०११ वेस्टइण्डिज-देशे भारतीयदलम्
सम्पादयतु२०११ तमस्य वर्षस्य नवम्बर-मासे, दिसम्बर-मासे च वेस्ट इण्डिज-देशे श्रृङ्खलायाः आयोजनम् आसीत् । तस्यां श्रृङ्खलायां तिस्र निकषस्पर्धाः, पञ्चैकदिवसीयस्पर्धाः अन्तर्भूताः आसन् । इङ्ग्लैण्ड्-देशस्य विरुद्धं पूर्वस्मिन् मासे योग्यप्रदर्शनेन विराजः चयनं वेस्ट इण्डिज्-देशस्य श्रृङ्खलायै अभवत् । निकषस्पर्धायां तु विराट् एकस्यां स्पर्धायाम् एव अक्रीडत् । तस्यां निकषश्रृङ्खलायां भारतस्य ०-२ अन्तरेण विजयः भवत् । एकदिवसीयश्रृङ्खलायां भारतस्य ४-१ अन्तरेण विजयः अभवत् । विराट् एकस्यां स्पर्धायां शताधिकसप्दश (११७) धावनाङ्कान् अकरोत् । तस्यां श्रृङ्खलायां ६०.७५ प्रतिशदा द्विशताधिकत्रिचत्वारिंशत् (२४३) धावनाङ्काः विराजा कृताः [१२] ।
२०११ क्रिकेट-विश्वचषके योगदानम्
सम्पादयतु२०११ तमस्य वर्षस्य विश्वचषकाय प्रथमायां स्पर्धायां शतककर्तृषु भारतीयक्रीडकेषु विराट् प्रप्रथमः क्रीडालुः अभवत् । तेन वेस्ट इण्डिज-देशस्य विरुद्धम् एकोनषष्टिः (५९) धावनाङ्काः कृताः । तस्यां स्पर्धायां तस्य युवराजस्य च एकशताधिकद्वाविंशतिः (१२२) धावनाङ्कानां सहयोगः (Partnership) आसीत् । अन्तिमस्पर्धायां तस्य, गौतमस्य च त्र्याशीतेः (८३) धावनाङ्कानां सहयोगेन भारताय श्रीलङ्का-देशस्य विरुद्धं महत्त्वपूर्णं योगदानम् अभवत् । सः ३५.२५ प्रतिशतेन नवसु (९) स्पर्धासु द्विशताधिकद्वयाशीतिः (२८२) धावनाङ्कान् अकरोत् [१३] ।
ऑस्ट्रेलिया-देशे अभायासश्रृङ्खला, सी.बी.-श्रृङ्खला
सम्पादयतु२०११ तमस्य वर्षस्य दिसम्बर-मासे एव ऑस्ट्रेलिया-देशस्य श्रृङ्खलायै [१४] विराजः चयनं जातम् आसीत् । मेलबर्न-नगरे प्रप्रथमा निकषस्पर्धा आसीत् । तस्मिन् दिने विरोटेन अनुभूतं यत्, निकषस्पर्धायां तस्य स्थितिः सुदृढा नास्ति इति । ततः सिडनी-नगरे द्वितीयायाम् निकषस्पर्धायां यदा विराट् क्षेत्ररक्षणं (fielding) कुर्वन् आसीत्, तदा ऑस्ट्रेलिया-देशस्य प्रशंसकाः तस्य अपमानम् अकुर्वन् । तस्य अपमानस्य प्रत्युत्तरं यच्छन् विराट् क्रोधम् अकरोत् । प्रशंसकैः कृतः सः व्यवहारः अयोग्यः आसीत् इति सिद्धे सति तस्य वेतस्य अर्धः भागः दण्डरूपेण व्यवस्थापकैः स्वीकृतः । तस्याः घटनायाः अनन्तरम् एकस्मिन् साक्षात्कारे विराट् अवदत्, "एकदिवसीयस्पर्धायां मम रीत्याः उत स्वभावस्य विषये सर्वे किमर्थं विरोधं कुर्वन्ति इति अहं न जाने । परन्तु अधुना एषा स्थितिः मम अनुभवग्रहणस्य अवस्था अस्ति । अहम् ऑस्ट्रेलिया-देशे विकटपरिस्थित्यां क्रीडन् अस्मि" इति । तस्यां श्रृङ्खलायां भारतस्य ४-० अन्तरेण पराजयः अभवत् । तस्यां श्रृङ्खलायां भारतदले सर्वाधिकधावनाङ्ककर्ता क्रीडालुः विराट् आसीत् ।
तस्याः श्रृङ्खलायाः अनन्तरमेव ऑस्ट्रेलिया-देशे एव त्रिकोणश्रृङ्खलायाः आयोजनम् आसीत् । भारतस्य दलं भारतं न प्रत्यागतम्, अपि तु तत्र स्थित्वैव निकषः कृतः । सा त्रिकोणश्रृङ्खला ऑस्ट्रेलिया-श्रीलङ्का-भारतदेशानां दलेषु आसीत् । तस्यां श्रृङ्खलायां सर्वाः एकदिवसीयस्पर्धाः आसन् । तस्यां श्रृङ्खलायां भारतीयदले सर्वाधिकधावनाङ्काः विराजा कृताः । तस्यां श्रृङ्खलायां तेन त्रिशताधिकत्रिसप्ततिः (३७३) धावनाङ्काः कृताः । तेषु धावनाङ्केषु द्वे अर्धशतके अन्तर्भवतः । तथा च एकं शतकम् अपि अन्तर्भवति । तस्यां श्रृङ्खलायां भारतदेशस्य दलम् चरमस्पर्धां यावत् नाक्रीडत् [१५] ।
२०१२ एशियाचषकः
सम्पादयतु२०१२ तमस्य वर्षस्य मार्च-मासे एशिया-चषकस्य आरम्भः अभवत् । तस्याः प्रतिस्पर्धायाः एकदिवसीयस्पर्धायाः उपनायकत्वेन विराट् दायित्वम् अवहत् । सः एशिया-चषके पञ्चम्यां स्पर्धायां पाकिस्थान-देशस्य विरुद्धम् एकशताधिकाष्टचत्वारिंशत् (१४८) कन्दुकेषु एकशताधिकत्र्याशीतिः (१८३) धावनाङ्कान् अकरोत् । तस्यां स्पर्धायां पाकिस्थान-देशेन त्रिशताधिकत्रिंशत् (३३०) धावनाङ्कानां लक्ष्यं भारतस्य सम्मुखं स्थापितम् आसीत् । तस्य लक्ष्यस्य प्राप्त्यै विराजा द्वाविंशतिः (२२) चतुराङ्काः, एकवारं षडाङ्काः कृताः । तस्य योगदानेन तस्यां श्रृङ्खलायां भारतस्य विजयः अभवत् । तस्यां स्पर्धायां कृताः धावनाङ्काः एकदिवसीयस्पर्धायां तस्य उच्चतमः प्राप्ताङ्कः आसीत् । एशिया-चषके एकशताधिकत्र्याशीतिः (१८३) धावनाङ्काः सर्वाधिकः व्यक्तिगतः प्राप्ताङ्कः वर्तते । पाकिस्थान-देशस्य विरुद्धं सर्वाधिकव्यक्तिगतधावनाङ्कानां विश्वविक्रमः वेस्ट इण्डिज-देशस्य ब्रायन लारा इत्यस्य नाम्ना आसीत् । परन्तु विराजा तस्य विश्वविक्रमः अतिक्रान्तः [१६]
२०१२ न्यूजीलैण्ड-देशे भारतीयदलम्
सम्पादयतुन्यूजीलैण्ड-देशे द्वे निकषस्पर्धे आस्ताम् । प्रथमायां स्पर्धायां विरोटेन एकशताधिकषड्प्रतिशतेन (१०६) द्विशताधिकद्वादश (२१२) धावनाङ्काः कृताः । तेषु धावनाङ्केषु एकं शतकं, द्वे अर्धशतके च अन्तर्भवन्ति । बेङ्गळुरु-महानगरे यदा निकषस्पर्धायां सः अक्रीडत्, तदा तेन निकषस्पर्धायाः द्वितीयं शतकं कृतम् । निकषस्पर्धायाः प्रथमस्पर्धायाम् एक षडाङ्कः, चतुर्दश (१४) चतुरङ्काः च कृताः । एवं तेन एकशताधिकत्रयः (१०३) धावनाङ्काः कृताः । द्वितीयायां स्पर्धायां सः बहिरगत्वा (not out) ५१ * धावनाङ्कान् अकरोत् । तस्याम् निकषस्पर्धायां विराट् 'मैन ऑफ द मैच'-सम्माननं प्रापत् [१७] ।
आय.पी.एल वृत्तिः
सम्पादयतुविराट् 'इन्डियन प्रीमियर लीग' मध्ये आरम्भादेव 'रॉयल चैलेञ्जर बेङ्गलोर'-दलपक्षतः क्रीडति । आइ. पी. एल्. मध्ये विराट् शताधिकस्पर्धासु भागम् अवहत् । सः तस्य दलस्य नायकः अपि अस्ति [१९]।
एकदिवसीयस्पर्धायां विराजः स्थितिः
सम्पादयतुवर्षः | स्पर्धा | धावनाङ्काः | प्रतिशतम् | SR | महत्तमधावनाङ्काः | १०० | ५० | ४ | ६ |
---|---|---|---|---|---|---|---|---|---|
2014 | 21 | 1054 | 58.55 | 99.62 | 139* | 4 | 5 | 94 | 20 |
2013 | 34 | 1268 | 52.83 | 97.53 | 115* | 4 | 7 | 137 | 20 |
2012 | 17 | 1026 | 68.40 | 93.78 | 183 | 5 | 3 | 92 | 5 |
2011 | 34 | 1381 | 47.62 | 85.56 | 117 | 4 | 8 | 127 | 7 |
2010 | 25 | 995 | 47.38 | 85.11 | 118 | 3 | 7 | 90 | 4 |
2009 | 10 | 325 | 54.16 | 84.41 | 107 | 1 | 2 | 36 | 3 |
2008 | 5 | 159 | 31.80 | 66.52 | 54 | 0 | 1 | 21 | 1 |
स्रोतः: [१]
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतु- http://www.espncricinfo.com/india/content/player/253802.html
- https://twitter.com/imvkohli
- https://www.facebook.com/virat.kohli/info?tab=page_info
- http://www.viratkohli.club Archived २०१९-०७-०७ at the Wayback Machine
- http://timesofindia.indiatimes.com/topic/Virat-Kohli
- http://sports.ndtv.com/icc-cricket-world-cup-2015/news/237037-india-have-pedigree-to-defend-world-cup-sourav-ganguly
- http://zeenews.india.com/tags/virat-kohli.html
- http://timesofindia.indiatimes.com/top-stories/Virat-Kohli-The-outrageously-talented-fighter/articleshow/46128406.cms
- http://indianexpress.com/article/sports/cricket/the-more-the-pressure-on-virat-kohli-better-he-plays-harbhajan-singh/
- http://indianexpress.com/article/sports/cricket/in-his-own-style-rahane-must-complement-virat-dhoni/
- http://www.sportskeeda.com/player/virat-kohli
- http://sports.ndtv.com/icc-cricket-world-cup-2015/news/236921-don-t-mind-virat-kohli-blowing-kisses-if-he-scores-ton-kapil-dev
- http://www.icc-cricket.com/
- http://www.royalchallengers.com/virat-kohli
उद्धरणम्
सम्पादयतु- ↑ "विराटस्य प्रिय फेडरर्". press release. zee news. आह्रियत ०५/०२/२०१५.
- ↑ "विराटस्य स्थितिः". press release. ICC. आह्रियत ०५/०२/२०१५.
- ↑ "विराटस्य स्थानं". press release. royalchallengers.com. आह्रियत ०५/०२/२०१५.
- ↑ "विराटस्य प्रथमं स्थानं". press release. ICC. Archived from the original on 2016-03-05. आह्रियत ०५/०२/२०१५.
- ↑ "विराटस्य व्यक्तिगतम्". press release. social media. आह्रियत ०५/०२/२०१५.
- ↑ "विराटस्य व्यक्तिगतम् १". press release. social media. Archived from the original on 2015-02-14. आह्रियत ०५/०२/२०१५.
- ↑ "विराटस्य व्यक्तिगतम् २". press release. .viratkohli.club. Archived from the original on 2015-02-14. आह्रियत ०५/०२/२०१५.
- ↑ "विराटस्य आरम्भः". press release. .viratkohli.club. Archived from the original on 2015-02-13. आह्रियत ०५/०२/२०१५.
- ↑ "विराटस्य अन्ताराष्ट्रियक्रीडायां वृत्तिः". press release. icc-cricket.com. Archived from the original on 2016-03-05. आह्रियत ०५/०२/२०१५.
- ↑ "विराटस्य अन्ताराष्ट्रियक्रीडायां वृत्तिः १". press release. icc-cricket.com. Text "url http://www.icc-cricket.com/cricket-world-cup/news/2014/media-releases/77586/indias-no-1-odi-ranking-at-stake " ignored (help);
- ↑ "विराटस्य अभ्यासक्रीडाया". press release. timesofindia.indiatimes. आह्रियत ०५/०२/२०१५.
- ↑ "विराटः वेस्टइण्डिज-देशे". press release. icc-cricket.com. Text "url http://www.icc-cricket.com/cricket-world-cup/news/2014/match-reports/78541/kohli-masterclass-leads-india-to-victory " ignored (help);
- ↑ "विराटः". press release. timesofindia.indiatimes. आह्रियत ०५/०२/२०१५.
- ↑ "विराटः विश्वचषके". press release. icc-cricket.com. Archived from the original on 2014-07-02. आह्रियत ०५/०२/२०१५.
- ↑ "विराटः विश्वचषके योगदानम्१". press release. icc-cricket.com. Archived from the original on 2014-07-02. आह्रियत ०५/०२/२०१५.
- ↑ "विराटस्य एशियाचषकः". press release. howstat.com. आह्रियत ०५/०२/२०१५.
- ↑ "विराटः न्यूजीलैण्ड-देशे". press release. .espncricinfo.com. आह्रियत ०५/०२/२०१५.
- ↑ "विराटस्य आय.पी.एल". press release. viratkohli.club. आह्रियत ०५/०२/२०१५.
- ↑ "विराटस्य आय.पी.एल". press release. royalchallengers.com. Archived from the original on 2015-01-12. आह्रियत ०५/०२/२०१५.