"वेदव्यासः" इत्यस्य संस्करणे भेदः

नवीन पृष्ठं: कविः वर्गः:काव्यम्
 
No edit summary
पङ्क्तिः १:
व्यासः (Vyasa)
कविः
महाभारतस्य रचनाकारः भगवान् व्यासः । वेदानां विभागः अनेन कृतः इत्यतः वेदव्यासः इति एतस्य नाम । द्वीपे अस्य जन्म अभवत् इत्यतः ‘कृष्णद्वैपायनः’ इत्यपि एतस्य नाम । एतस्य पिता पराशरमुनिः माता च सत्यवती ।
महाभारतं लक्षश्लोकात्मकः विस्तृतः ग्रन्थः । व्यासः भारतकथां पुत्रं शुकं शिष्यं वैशम्पायनं च बोधितवान् ॥ वैशम्पायनः जनमेजयं तां कथाम् अवदत् । जनमेजयेन उक्ता भारतकथा एव इदानीम् उपलभ्यते ।
रामायणे इव अत्रापि ब्रह्मा व्यासं भारतकथालेखनाय प्रोत्साहयति । व्यासः योगस्य लेखकस्य अभावं वदति । ततः गणेशः भारतकथा लेखनकार्यम् अङ्गीकरोति । व्यासेन उक्ता भारतकथां सः लिखति च आर्यभटः वदति -क्रि. पू.३१०१तमे वर्षे कलियुगस्य आरम्भः अभवत् इति । कलियुगस्य आरम्भदिने श्रीकृष्णः परं धाम गतवान् । ततः ३७ वर्षेभ्यः पूर्वं महाभारतयुद्धं प्रवृत्तम् । अतः महाभारतकालः, व्यासकालः च प्रायः एषः एव इति निर्णेतुं शक्यम् ।
महाभारते बह्वयः उपकथाः उअपलभ्यन्ते । अतःअ भारतकथाम् अवलभ्ब्य गद्यपद्यचम्पूकाव्यादीनि बहूनि लिखितानि विविधैः कविभिः । भगवद्गीता, हरिवंशः इत्यादयः अपि महाभारते एव अन्तर्भवन्ति ।
व्यासस्य् शैली अपि वाल्मीलेः इव सरला एव । महाभारतम् अपि आधिक्येन अनुष्टुपछ्न्दसा एव उपनिबद्धम् अस्ति
 
 
[[वर्गः:काव्यम्]]
"https://sa.wikipedia.org/wiki/वेदव्यासः" इत्यस्माद् प्रतिप्राप्तम्